पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 57.59. 4-3 [ क्षत्रियवर्ग: १८० सटीकामरकोशस्य त्रिवर्गो धर्मकामाश्चतुर्वर्गः समोक्षकैः ।। सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये ॥ ५८ ॥ इति ब्रह्मवर्गः ॥ ७ ॥ ॥ १ ॥ मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् || राजा राट्र प्रार्थिवक्ष्मामृपभूपमहीक्षितः राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः || चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥ येनेष्टं राजसूयेन मण्डलस्येश्वरच यः || शास्ति पश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ३ राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् || ॥ ५७ ।। धर्मो वेदविहितो यागादिः । कामो यथाविधि सीसेवनम् । अर्थो धनम् । एमिलिमिः समुदितत्रिवर्गः एकम् । समोक्षकैः धर्मार्थकाममोक्षैरि- त्यर्थः । एतैः समुदितवतुर्वर्ग इत्येकम् । तैर्धर्मादिभिः समलैवतुर्भद्रमित्येकम् । "चत्वारि भद्राणि श्रेष्ठानि अत्र" । वरस्य जामातुर्ये स्त्रिग्धा वयस्याः जन्याः स्युरित्येकम् । जनीं वधूं वहन्ति प्रापयन्ति ते ॥ ५८ ॥ इति ब्रह्मवर्गः ॥ ७ ॥ मूर्धाभिषिक्तः राज्यदानसमये मूर्धन्यभिषिच्यते इति प्रसिद्धेमतत् । राजन्यः बाहुजः क्षत्रियः । क्षतात् दुःखात् त्रायते । विराट् पञ्च क्षत्रियस्य | विराजौ । राजा राद् पार्थिवः क्ष्माभृत् “क्ष्माञ्जुक् " नृपः भूपः महीक्षित् सस राज्ञः । राजानौ । राजौ । क्ष्माभृतौ । महीक्षितौ । राशि राडिति सप्त- म्वन्तपाठः कचित् दृश्यते ॥ १ ॥ प्रणता अशेषसामन्ता अखिलदेशान्तरनृपा यस स राजा अधीश्वर इत्येकम् । चक्रवर्ती सार्वभौम: द्वे आसमुद्रक्षितीशस्य | तदन्यो नृपो मण्डलेश्वर इत्येकम् || २ || राजसूयाख्यऋतुविशेषेण मेनेष्टं द्वादशमण्डलस्येश्वरच यः यथ स्वाझया सर्वभूपान् शास्ति ईदृशविशेषणत्रयेण विशिष्टो राजा सम्राट् स्यात् । “एकैकविशेषणविशिष्टोऽपि सम्राट् इति के चित् । एकम्" ॥ ३ ॥ नृपतीनां गणे राजकमित्येकम् । क्षत्रियाणां गणे राजन्यकमित्येकम् । मन्त्री धीसचिवः अमात्यः त्रयं बुद्धिसहायस्य । Diglized by Google