पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[0] द्वितीयं काण्डम्. संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा || नष्टाभिः कुहना लोभान्मिथ्येर्यापथकल्पना || ५३ ॥ ब्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः ॥ धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः ॥ ५४ ॥ सुप्ते यस्मिन्नस्तमेति सुते यस्मिनुदेति च ॥ अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् ॥ ५५ ॥ परिवेत्ताऽनुजोऽनुढे ज्येष्ठे दारपरिग्रहात् परिवित्तिस्तु तज्ज्यायान् विवाहोपयमौ समौ ॥ ५६ ॥ तथा परिणयोद्धाहोपयामाः पाणिपीडनम् ॥ व्यवॉयो ग्राम्यधर्मो मैथुनं निधुवनं रतम् ॥ ५७ ॥ १७९ 52-57 66 " भोजनत्यागे प्राय इत्येकम् । अदन्तः पुंसि । वीरहा नष्टाभिः द्वे नष्टोऽग्निर्यस्य तस्य । “वीरोऽग्निस्तं हन्तीति वीरहा ” । वीरहणौ । लोभात्परघनाघभिलाषात् या मिथ्येर्यापथकल्पना दम्भेन ध्यानमौनादिसंपादनं सा कुहनेत्येकम् ॥ ५३॥ संस्कारेणोपनयनेन गौणकालोत्तरं हीनो व्रात्य इत्यर्थः एकम् | अस्वाध्यायः स्वशाखाध्ययनशून्यो निराकृतिः एकम् । “आकृतेरध्ययनचेष्टाया निर्गतो निराकृतिः" । धर्मध्वजी लिङ्गवृत्तिः द्वे जीविकार्य जटादिधारणवतः । लिङ्गं धर्मचिह्नं वृत्तिर्जीविका यस्य सः । अवकीर्णी क्षतव्रतः द्वे नष्टब्रह्मचर्यस्य । "अवकीर्ण विक्षिप्तं व्रतमनेनावकीर्णी" अवकीर्णिनौ ॥ ५४ ॥ अंशुमान् रविर्यस्मिन् सुप्तेऽस्मेति सोऽभिनिर्मुक्तः एकम् । “अभि सर्वतः सायन्तनं कर्म निश्चयेन मुक्तं येन ” । यसिन्सुर्तेऽशुमानुदेति सोऽभ्युदितः । सर्वतः उदतिशयेन इतं गतं प्रातस्तनं कर्मास्य " ॥ ५० ॥ ज्येष्ठे भ्रातर्यकृत- दारपरिग्रहे सति कृतदारपरिग्रहः कनिष्ठ: परिवेत्ता स्यात् एकम् । परिवि- न्दति ज्येष्ठ परित्यज्य भार्थी लभते । “विन लाभे ” । तस्य परिवर्ज्यायान् ज्येष्ठः परिवित्तिः स्यात् एकम् | विवाहः उपयमः ॥ ५६ | परिणयः उ- लाहः उपयामः पाणिपीडनं षट् विवाहस्य । व्यवायः ग्राम्पधर्मः मैथुनं नि- धुवनं रतं पश्च मैथुनस । “नितरां ध्रुवनं हस्तपादादिचालनमत्र निधुवनम् । व्यवायो ग्राम्पधर्मश्च रतं निधुवनं च सेति उत्तरार्धे अन्यथा चित् पठन्ति " " अभि Diglized by Google