पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

45-52 सटीकामरकोशय " शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् ॥ ४९ ॥ ( " क्षौरं तु भद्राकरणं मुण्डनं वपनं त्रिषु ” ॥) (१ ) उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ ५० ॥ अङ्गुल्यमे तीर्थ दैवं स्वल्पाचल्योर्मूले कायम् || मध्येठल्योः पित्र्यं मूले वनुष्ठस्य ब्राह्मम् ॥ ५१ ॥ स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ देवभूयादिकं तदत्वछ्रं सान्तपनादिकम् ।। ५२ ।। [ असवर्षः यत्कर्म आगन्तुसाधनं आगन्तु बाझं साधनं यत्र तत् । मृजलादिना साध्य- मित्यर्थः । नित्यं कृत्रिमं यत्कर्म स नियमः । यदाह । “शौचसन्तोषतपःखा- ध्यायेश्वरप्रणिधाना नियमाः” इति । एकम् । “कचित्पुस्तके क्षौरं तु इत्यादि दृश्यते तदत्रत्यं नेत्युपेक्षितम् । क्षौरादिचतुष्कं मुण्डनस्येत्युपेक्षितसङ्ग्रहः " ॥ ४९ ॥ दक्षिणे करे प्रोद्धृते सति यद्रह्मसूत्रं तदुपवीतं स्यात् एकम् । अन्यसिन्दामे करे प्रोद्धृते प्राचीनावीतं स्यात् एकम् । कण्ठे लम्बितं ऋजु- भावेन विन्यस्तं तत् ब्रह्मसूत्रं निवीतमित्येकम् ॥ ५० ॥ अङ्गुलीनामग्रे दैवं तीर्थ ज्ञेयम् । अतो दैवतीर्थेन तर्पयेदित्यत्राकुल्यग्रेणेति बोध्यम् । स्वल्पाङ्गु- ल्योरनामिकाया: कनिष्ठिकायाश्च मूले कायम् । कः प्रजापतिर्देवताऽस्य कार्य प्राजापत्यमित्यर्थः । अङ्गुष्ठतर्जन्योर्मध्यभागे पित्र्यम् । “पैत्र्यमित्यपि पैत्रमिति " । अङ्गुष्ठस्य मूले तु ब्राह्मं तीर्थम् । यद्याज्ञवल्क्यः । “कनिष्ठातर्जन्यङ्गुष्ठ- मूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्” । एकैकम् ॥ ५१ ॥ ब्रह्मभूयादि त्रयं ब्रह्मभावस्य । “ब्रह्मणो भावः ब्रह्मभूयम् " | तद्वत् देवभूर्य देवत्वं देवसायुज्यमिति त्रयं देवभावस्य । सान्तपनादिकं कुछ्र स्यात् एकम् । तदुक्तम् । “गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रीपवास कृछ्रं सान्तपनं स्मृतम्" इति । आदिना प्राजापत्यादिग्रहः ॥ ५२ ॥ संन्यासपूर्वके १ इदम तालपत्रपुस्तकेऽपि नास्ति । Digitized by Google -