पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ] द्वितीय काण्डम्. ९७७ यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ ॥ ४४ ॥ स्थाण्डिलाथ विरजस्तमसः स्युर्दयातिगाः ॥ पवित्रः प्रयतः पूतः पाखण्डाः सर्वलिङ्गिनः ॥ ४५ ॥ पालाशो दण्ड आषाढी व्रते राम्भस्तु वैष्णवः || अस्त्री कमण्डलुः कुण्डी प्रतिनामासनं वृषी ॥ ४६ ॥ अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् || स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा ।। ४७ ॥ सर्वेनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् ॥ ४८ ॥ 44-42 I शेते असौ स्पण्डिलशायी ॥ ४४ ॥ स्थाण्डिलः द्वे । विरजस्तमाः द्वयातिगः द्वे सत्यैकनिष्ठेषु व्यासादिषु । “रजस्तमोभ्यां विगतः विरजस्तमाः " पवित्रः प्रयतः पूतः त्रयं पवित्रस्य । पाखण्डः सर्वलिङ्गी द्वे बौद्धक्षपणकादिषु दुःशासवर्तिषु । “तत्र पाखण्डः कवर्गद्वितीयमध्यः | पालनाच त्रयीधर्मः पाशब्देन निगद्यते । तं खण्डयन्ति ते तसात्पाखण्डास्तेन हेतुना " इति ॥ ४५ ॥ व्रते ब्रह्मचारिणः पलाशसंबन्धी दण्ड आषाढ इत्युच्यते एकम् । वेणुसंबन्धी दण्डो राम्भ इत्येकम् | रम्भशब्दो वेणुवाचकः तस्य विकार: । "रम्भा कदल्यप्स - रसोर्ना बेणौ वानरान्तरे" इति विश्वः । कमण्डलुः कुण्डी द्वे व्रतिनां जलपात्रस्य । “क्लीने कमण्डलु । कुण्डी स्त्रियाम् । जानपदेति ङीष् ” । कुण्ड्यौ । प्रतिनां यदासनं सा वृषी एकम् । बृसीति पाठान्तरम् | ध्रुवन्तोऽस्यां सीदन्तीति ॥४६॥ अजिनं धर्म कृतिः त्रीणि मृगादेश्चर्मणि । भिक्षाणां समूहो मैक्षम् | स्वाध्या- यः जपः द्वे वेदाभ्यासस्य । “सु अतीवावृत्त्या स्वार्थे वाध्ययनं स्वाध्यायः " । सुत्या अभिषवः सवनं त्रीणि सोमाभिषवस्य । तत्र सुत्या टाबन्ता | सुवन्ति सोममस्यां सुत्या । सञ्झायां समजेति क्यप् ॥ ४७ ॥ सर्वेनसां सर्वपापानां नाशकं जप्यं ऋगादि अघमर्पणं स्वात् एकम् । सियां त्वघमर्पणी | पक्षान्त- योरमावास्यायां पौर्णमास्यां च विहितौ यागौ क्रमेण दर्श: पौर्णमासथ स्यातां एकैकम् ॥ ४८ ॥ शरीरसाधनापेक्षं शरीरमात्रेण साध्यं नित्यं यत्कर्म तद्यमः । आह च । “अहिंसा सत्यमस्तेयं ब्रह्मचर्मपरिग्रहौ” । यमा इति एकम् । Digitized by Google