पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीर्य काण्डम्. शयनं मञ्चपर्यऋपल्यङ्काः खट्या समाः ॥ गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् ॥ १३८ । समुद्रकः संपुटकः प्रतिग्रहः पतद्रहः || प्रसाधनी कङ्कतिका पिष्टातः पटवासकः || १३९ ॥ दर्पणे मुंकुरादर्शी व्यजनं तालवृन्तकम् ।। इति मनुष्यवर्गः ॥ ६ ॥ सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।। वंशोऽन्ववायः संतानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥ 137.139. १६५ " " पर्यङ्कः पल्यङ्कः खट्वा चत्वारि खड्कायाः “पलंग, बाज इति ख्यातायाः ” । गेन्दुकः “गेण्डुकः गण्डूक: " कन्दुकः द्वे चेंडू इति ख्यातस्य क्रीडाकारणस्थ । “गिरदी, गालउशी इति ख्यातस्येति केचित् । " दीपः प्रदीपः द्वे दीपस्य | पीठं आसनं द्वे आसनस्य । “विष्टरः पीठमस्त्रियाम्” इति त्रिकाण्डशेषः ॥ १३८ । समुद्भकः संपुटकः द्वे संपुटस्य " डबा चौफुला इत्यादिख्यातस्य" । प्रतिग्राहः प्रतिग्रहः । “प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ब्रहे । विप्रेभ्यो विधि- बहेये तद्ब्रद्दे च ग्रहान्तरे" इति मेदिनी | पतद्ब्रहः द्वे "पिकदाणी इति ख्यातस्य ।" प्रसाधनी कङ्कतिका द्वे गजदन्तादिरचितायाः केशमार्जन्याः फणी इति ख्यातायाः। “कङ्कतं तु प्रसाधनम्” इति क्लीबकाण्डेऽमरमाला । पिष्टातः पटवासकः द्वे बुका इति ख्यातस्य चूर्णविशेषस्य || १३९ || दर्पणः कुरः मकुरः । “मकुर: स्यान्मुकुरवदर्पणे बकुलद्रुमे । कुलालदण्डे” इति मेदिनी । मकर इत्यपि केचित् । आदर्श: त्रीणि दर्पणस्य “आरसा इति ख्यातस्य " 1 साहचर्यादर्पणः पुंस्येव । "आदर्शो दर्पणः प्रोक्तः" इत्यमरमाला । व्यजनं ताल- वृन्तकं द्वे तालपत्रादिनिर्मितव्यजनस्य | व्यजति वायुरनेन व्यजनम् || इति मनुष्यवर्गः ॥ ६ ॥ संततिः गोत्रं जननं कुलम् । “कुलं जनपदे गोत्रे सजाती- यगणेऽपि च । भवने च तनौ क्लीबम्” इति कोशान्तरे | अभिजन अन्वयः वंशः अन्ववाय: संतानः नव वंशस्य | तत्र संततिः स्त्री । ब्राह्मणादयो वर्णाः स्युः एकम् ॥ १ ॥ ब्राह्मणक्षत्रियवैश्यशूद्राः वर्णाचातुर्वर्ण्यमित्येकम् । राजनीजी 64 Digitized by Google 2