पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1-6 सटीकामरकोशस्य [ ब्रह्मवर्ग: (विप्रक्षत्रियविद्रशूद्राश्चातुर्वर्ण्यमिति स्मृतम् ॥ ) (१) राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः ॥ २॥ मँहाकुलकुलीनार्यसभ्यसज्जनसाघवः ।। ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ३ ॥ आश्रमोऽस्त्री दिजात्य जन्मभूदेववाडवाः ॥ विश्व ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः ॥ ४ ॥ विद्वान् विपश्चिदोषज्ञः सन्सुधीः कोविदो बुधः ॥ धीरो मनीषी ज्ञः प्राज्ञः संख्यावान् पण्डितः कविः ॥ ५॥ धीमान्सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः || दूरदर्शी दीर्घदर्शी श्रोत्रियश्छन्दसौ समौ ॥ ६ ॥ राजवंश्यः द्वे राजवंशोत्पन्नस्य | राजबीजिनौ । बीज्य: कुलसंभवः द्वे कुल- मात्रोत्पन्नस्य ॥ २ ॥ महाकुल: 'महाकुल: " कुलीनः । महत्कुलमस्य महाकुल: महाकुले भवो माहाकुलः । कुले भवः कुलीनः । आर्यः सभ्यः. सज्जनः साधुः षट् सज्जनस्य | ब्रह्मचार्यादयश्चत्वारोऽपि आश्रमशब्दवाच्या इत्यर्थः । “कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ सर्वत्र मैथुनत्यागो. ब्रह्मचर्यं तदुच्यते” इति । एकम् | वनमेव प्रस्थः प्रदेशस्तत्र भवः वानप्रस्थः । अत्र भिक्षुर्यतिः || ३ || द्विजातिः अग्रजन्मा भूदेव: वाडवः विप्रः ब्राह्मणः षट् ब्राह्मणस्य । वडवायां जातो वाडवः । “वडवा द्विजयोषिति" इति मेदिनी ।. असौ ब्राह्मणो यागादिभिर्यजनादिभिर्युक्तः षट्कर्मा स्यात् । तदुक्तम् ।. “इज्याध्ययनदानानि याजनाध्यापने तथा । पतिग्रहश्च तैर्युक्तः पद्कर्मा विप्र. उच्यते” इति । एकम् ।। ४ ॥ विद्वान् विपचित् दोषज्ञः सन् सुधी: कोविदः बुधः धीरः मनीषी ज्ञः प्राज्ञः प्रज्ञः । “प्रज्ञस्तु पण्डिते वाच्यलिङ्गो बुद्धौ तु. योषिति” इति मेदिनी । संख्यावान् पण्डितः कविः ॥ ५॥ धीमान् सूरिः कृती कृष्टिः लब्धवर्णः विचक्षणः दूरदर्शी दीर्घदर्शी द्वाविंशतिः पण्डितस्य । विद्वांसौ ). विपश्चितौ । सन्तौ । ज्ञौ । संख्यावन्तौ । कृतिनौ । “ संख्या विचारणास्त्यस्य संख्यावान् | लब्धो वर्णः स्तुतिर्येन लब्धवर्णः दूरान्दूराद्वा पश्यतीति दूर-. १ इदमधे तालपत्रपुस्तके एव नास्ति | Diglized by Google