पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

133-137 सटीकामरकोशस्य [ मनुष्यवर्गः गात्रानुलेपनी वर्तिर्वर्णक स्यादिलेपनम् ॥ १३३ ॥ चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु || संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् ॥ १३४ ॥ माल्यं मालाखजौ मूर्ध्नि केशमध्ये तु गर्भकः ॥ प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललामकम् ॥ १३५ ॥ प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् || यत्तिर्यक्षिप्तमुरसि शिखाखापीडशेखरौ ॥ १३६ ॥ रचना स्यात्परिस्यन्द आभोगः परिपूर्णता || उपधानं तूपबईः शय्यायां शयनीयवत् ।। १३७ ।। यक्षकर्दमः” इति धन्वन्तरिः || गात्रानुलेपनी वर्तिः वर्णक विलेपनं चत्वारि गात्रानुलेपयोग्यस्य पिष्टघृष्टसुगन्धिद्रव्यस्य उटणें इति ख्यातस्य । “गात्रा- नुलेपनी वर्तिर्विगन्ध्यथ विलेपनम् । वर्णकं चाथ विच्छित्तिः स्त्री कषायोऽङ्ग- रागकः” इति रमसात् । आद्यद्वयमुक्तार्थमेव । वर्णकादिद्वयं घृष्टचन्दनादिलेप- मात्रस्य / कर्पूरागुरुरित्यपि पाठः ॥ १३३ ॥ चूर्ण वासयोगः द्वे पटवासा- दिचूर्णमात्रस्य । “वासे सुगन्धिकरणे योग उपायो वासयोगः ।" भावितं बासितं द्वे गन्धद्रव्येण चासितस्य वस्तुनः । त्रिषु | गन्धमाल्यधूपादिभिर्यः संस्कार: बखताम्बूलादीनां सौरभाधानं तदधिवासनमित्युच्यते । एकम् ।। १३४ || माल्यं माला सकू त्रयं मूर्ध्नि धृतायाः कुसुमाबलेः उपचाराद- न्यत्रापि प्रयोगः । केशमध्ये धृता माला गर्भक इत्युच्यते एकम् । यन्माल्यं शिखायां लम्बमानं तत्प्रभ्रष्टकमित्येकम् । पुरो न्यस्तं ललाटपर्यन्तं क्षिप्तं लला- भकमित्येकम् ।। १३५ ॥ यन्माल्यं कण्ठाहजुलम्बि सरलं लम्बमानं तत्प्रालम्ब- मित्येकम् । यन्माल्यं तिर्यगुपवीतमनुजु उरसि क्षिप्तं तत् वैकक्षिकमित्येकं चतु- रक्षरम् । “विकक्षमुरस्तत्र भवं वैकक्षकमित्यपि ।" आपीड: शेखरः द्वे शिखासु न्यस्तमाल्यमात्रस्य ॥ १३६ ॥ रचना परिस्यन्दः द्वे माल्या- दिरचनायाः । “परिस्पन्द इत्यपि पाठ: " । आभोग: परिपूर्णता द्वे सर्वो- पचारपरिपूर्णतायाः । उपधान उपबई द्वे उच्छीर्षस्थ "उशी इति ख्यातस्य ” । उपधीयते आरोप्यते शिरोऽत्र उपधानम् । शय्या शयनीयं ॥ १३७ । शयनं त्रीणि शय्यायाः | बदिति उत्तरेण समत्वद्योतनाग | मर Digitized by Google