पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] द्वितीय काण्डम्. स्नानं चर्चा तु चार्चिक्य स्थासकोऽथ प्रबोधनम् || अनुबोषः पत्रलेखा पत्राङ्गुलिरिमे समे ॥ १२२ ।। तमालपत्रतिलकचित्रकाणि विशेषकम् || द्वितीयं च तुरीयं च न स्त्रियामथ कुकुमम् ॥ १२३ ॥ काश्मीरजन्मामिशिखं वरं बाह्रीकॅपीतने || रक्तसङ्कोचपिशुनं धीरं लोहितचन्दनम् ।। १२४ ॥ लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो ब्रुमामयः || लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम् ।। १२५ ।। १६१ 122-11-25 दिना शरीरमलापकरणस्य | आप्लावः आप्लवः ॥ १२१ ॥ स्नानं त्रीणि स्वानस्य । चर्चा चार्चिक्यं स्थासकः त्रीणि चन्दनादिना देहविलेपविशेषस्य उटी इति ख्यातस्य । “चर्चिकैव चार्चिक्यम् । खार्थे प्यञ्" । प्रबोधनं अनुबोधः द्वयं गतगन्धस्य पुनर्गन्धव्यक्तीकरणे । यथा कस्तूरिकादेर्मद्यादिना । पत्रलेखा पत्राङ्गुलिः द्वे कस्तूरिकाकेशरादिना कपोलादौ रचितपत्रवल्लथाः । पत्राकतिर्लेखा पत्रपलेखा | कलिङ्गादिदेशेषु प्रसिद्धेयम् ॥ १२२ ॥ तमालप- त्रम् | तमालस्य पत्रमिव तमालपत्रम् । “तमालपत्रं तापिच्छे तिलके पत्रकेऽपि च" इति विश्वः । तिलकं चित्रकं विशेषकं चत्वारि ललाटे कस्तूर्यादिना कृतति- लकस्य । “तमालस्तिलके खड़े इति विश्वात्तमाल इत्यप्यन्यत्र । अत्र द्वितीयं तिलकमिति तुरीयं विशेषकमिति च द्वे न स्त्रियां किंतु पुनपुंसकयोः । कुङ्कु- मम् ॥ १२३ ॥ काश्मीरजन्म अग्निशिखं वरं बाडीकं “बाहिकम् । बाढीकं बाडिकं धीरहिङ्गुनोर्नाश्वदेशयोः” इति त्रिकाण्डशेषः । पीतनं रक्त संकोच पिशुनं धीरं लोहितचन्दनं एकादश कुङ्कुमस्य । “रक्त नील्यादिरञ्जिते । कुङ्कुमे" इति हैमः । “सङ्कोचो मीनभेदे च बन्धे क्लीषं तु कुकुमे" इति विश्वमेदिन्यौ । “पिशुनं कुङ्कुमेऽपि च " इति मेदिनी ॥ १२४ ॥ लाक्षा राक्षा जतु यावः अलक्तः द्रुमामय : ई लाक्षायाः । न लक्तोऽस्मादलक्तः । द्रुमाणामामयो द्रुमा- मयः । लवङ्गं देवकुसुमं श्रीसंज्ञं त्रीणि लवङ्गस्य | देवानां कुसुमम् । कुसु- मेषु देव इव । देवयोग्य कुसुमं वा । श्रीसंज्ञं लक्ष्मीपर्यायनामकम् । जायकम् ॥ १२५ ।। कालीयकं कालानुसार्य त्रयं जायकाख्यगन्धद्रव्यस्य पीतचन्दन इति Digitized by Google