पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

125-125 १६२ सटीकामरकोशस्य कालीयकं च कालानुसार्य चाथ समार्थकम् || वंशिकाँगुरुराजाईलोहं कृमिजजोङ्गकम् ।। १२६ ।। [ मनुष्यवर्गः कालागुर्वगुरु स्यात् मङ्गल्या मल्लिगन्धि यत् || यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७ ॥ बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ ॥ तुरुष्कः पिण्डकः सिहो यावनोऽप्यथ पायसः || १२८ ॥ श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ ॥ 64 66 ख्यातस्य । जयति गन्धान्तरं जायकम् । “कालीयकं च कालेयं वर्णकं कान्तिदा- यकम्” इति व्याडिः । वंशिकं “वंशकं" अगुरु राजाई लोहं कृमिर्ज जोङ्गकम् ।। १२६ || कालागुरु सप्तकं समार्थकम् | कृष्णागुरुणः पर्याया इत्यर्थः । न गुरुर्यसात्तदगुरु | "अगुरुर्जोङ्गके लषौ” इति हैमादगुरुः पुंस्यपि । अगरु- रिति कचित् । “लोहोऽस्त्री शस्त्रके लौहे जो के सर्वतेजसे” इति मेदिनीकोशा- लोहं पुंस्यपि । अगुरु इत्यस्य यच्छन्देन संबन्धः । स्यादित्यस्य त्वन्तत्वादु- त्तरेण संबन्धः । यदगुरु मल्लिगन्धि सा मङ्गल्या स्थादित्येकम् । अत्र जोड़ कान्तानि अगुरुणः । कालागुर्वादि द्वयं कृष्णागुरुणः । त्वित्य तदिति पाठ- स्तंत्र यदगुरु मल्लिगन्धि तन्मङ्गल्येत्यर्थ: " | यक्षधूपः सर्जरसः रालः सर्वरसः ।। १२७ ।। बहुरूपः पञ्च धूपस्य “राळ" इति ख्यातस्य । अराल इति वा । “रालः सर्जरसोऽरालो धूपको वह्निवल्लभः" इति रभसः । वृकधूपः कृत्रिम - धूपकः द्वे अनेकपदार्थकृतधूपस्य / तुरुष्कः पिण्डकः सिहः यावनः चत्वारि सिहाख्यगन्धद्रव्यस्य " ऊद" लोबान इति ख्यातस्य । “तुरुषक: सिडके म्लेच्छजातौ देशान्तरेऽपि च " इति विश्वमेदिन्यौ। पायसः ।। १२८ ॥ श्रीवासः वृकधूपः श्रीवेष्टः श्रीपिष्टः । “सरलद्रवश्रीपिष्टदधिक्षीरघृताइये" इति रभसः । सरलद्रवः पश्च सरलद्रवस्य “ विशेषनामकधूप इति ख्यातस्य" । पयसो तुमस्य क्षीरस्य वा विकारः पायसः । सरलस्य देवदारोद्रवः सरलद्रवः । “यायसस्तु क्लीनपुंसोः श्रीवासपरमानयोः” इति मेदिनी । मृगनाभिः मृगमदः कस्तूरी त्र्यं कस्तूर्या: । मृगनाभिः पुंसि । “मृगनाभिर्मृगमदो मृगः कस्तूरिकापि च" इति माधवः । “मदो रेतसि कस्तुर्याम्” इति मेदिनी । “मुख्यरादूक्षत्रयोर्नाभिः पुंसि Digitized by Google •