पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$ ? 117-121 १६० सटीकामरकोशस्य [ मनुष्यवर्ग: दो प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ ११७ ॥ संव्यानमुत्तरीयं च चोलः कूर्पासको स्त्रियाम् || नीशारः स्यात्प्रावरणे हिमानिलनिवारणे ।। ११८ ।। अर्धोरुकं वरस्त्रीणां स्यान्चण्डातकमस्त्रियाम् || स्यात्रिष्वाप्रपदीनं तत्प्रामोत्याप्रपदं हि यत् ॥ ११९ ।। अस्त्री वितानमुल्लोचो दूष्याँद्यं वस्त्रवेश्मनि ॥ प्रतिसीरा जवनिका स्वातिरस्कॅरिणी च सा ।। १२० ।। पॅरिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा ॥ उद्धर्तनोत्सादने दे समे आलाव आप्लवः || १२१ ।। संव्यानं उत्तरीयं पश्च वामस्कन्धे यद्धार्यते तस्य उत्तरीयस्य । " उत्तरस्सिन् देहभागे आसजत इत्युत्तरासङ्गः" । चोलः कूर्पासकः द्वे स्त्रीणां स्तनादि- पिघायकस्य कञ्चुकीति प्रसिद्धस्य । गौरादित्वात् डीषि चोलीत्यपि । कूपरे आस्ते कूर्पासकः । पुँसि क्लीबे च । “कूर्पासस्त्वर्धचोलकः” इति हारावलिः ! हिमानिलयोर्निवारणं यस्मात्तादृशे प्रावरणे नीशार इत्येकं "रजई दुलई दुलई लेप इत्यादिख्यातस्य" । नितरां शीर्यते हिमानिलावत्रानेन वा । " गौरिवा- कृतनीशार इति " प्रयोगः ॥ ११८ ॥ यद्वरस्त्रीणां अर्धोरुकं अर्धोरुपिधायिकं वस्त्रं तच्चण्डातकं स्यात् एवं "परकर, लहंगा इति ख्यातस्य" । ऊर्वोरर्धमर्धोरू तत्र स्थितत्वाल्लक्षणया वस्त्रमप्यर्घोरु | स्वार्थे कन् । यत् आप्रपदं पादापर्यन्तं प्राप्नोति बस्त्रादि तत् आप्रपदीनम् | त्रिषु एकम् ॥ ११९ । वितानं उल्लोच: द्वे आतपाद्यपनयार्थमुपरिषद्धस्य चन्द्रकाख्यस्य वाससः “चांदवा इति ख्यातस्य 1" पुंसि वितानः । दुष्यमित्यादिकं वस्त्रवेश्मनि वस्त्ररचितगृहे एकम् । “दृश्यमिति तालव्यमध्यमपि ” । आद्यशब्दात्पटक्कुटी "डेरा राहुटी तंबु " इत्यादि । प्रतिसीरा जवनिका “ यमनिका" तिरस्करिणी । “तिर- स्कारिणी तिरस्क्रियतेऽनया ।" त्रयं जवनिकाया: पडदा "कनाथ " इति ख्यातायाः ।। १२० ।। परिकर्म अङ्गसंस्कारः द्वे ककुमादिना शरीरे संस्कारमा- त्रस्य । परिमलवर्जनार्था क्रिया परिकर्म | प्रतिकर्मेति कचित्पाठः | माहिः मार्जना मृजा प्रोक्षणादिना देहनिर्मलीकरणस्य । उद्वर्तनं उत्सादनं द्वे पिष्टा- Digitized by Google