पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयं काण्डम्. १५९ क्षौमं दुकूलं स्याद्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥ स्त्रियां बहुवे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः ॥ दैर्घ्यमायाम आरोहः परिणाहो विशालता ॥ ११४ ॥ पटचरं जीर्णवस्त्रं समौ नक्तककर्पटौ । वस्त्रमाच्छादनं वासलं वसनमंशुकम् ॥ ११५ ॥ सुचेलकः पटोऽस्त्री स्याद्धराशिः स्थूलशाटकः ॥ निचोलः प्रच्छदपटः समौ रलककम्बलौ ॥ ११६ ॥ अन्तरीयोपसंव्यानपरिधानान्यघोंऽशुके ।। " तत्पत्रोर्णे एकम् । बहुमूल्यं यद्वखादिकं तन्महाधनमित्येकम् । त्रिलिङ्गम् । क्षामं दुकूलं द्वे पट्टवस्त्रस्य “पाटाव इति ख्यातस्य । " निवीतं आवृतं द्वे प्रावृतवस्त्रस्य || ११३ ॥ वस्त्रस्य द्वयोर्वस्तयोः प्रान्तयोः दशाः स्युः । एकं स्त्रीलिङ्गं बहुवचनान्तं च नित्यम् । वस्तयो द्वयोरिति पाठे तु दशाः वस्तयः द्वे वस्त्रप्रान्तयोः । तत्र स्त्रियां बहुत्वे दशा: । स्त्रीपुंसयोर्षहुत्वे व वस्तयः । “दशावस्थादीपवर्त्योर्वखान्ते भूनि योषिति । वस्तिर्द्वयोर्निरूहे नाम्यत्रो भूनि दशासु च " इति मेदिनी । दैर्ध्य आयाम: आरोह: “आनाह इति रामाश्रमीकारः ।" त्रयं वस्त्रादेदैर्घ्यस्य "लांबी इति ख्यातस्य । परिणाह: विशालता द्वे विस्तरस्य "रुंदी" इति ख्यातस्य ॥ ११४ ॥ पट्टध्वरं जीर्णवस्त्र द्वे जीर्णवत्रस्य | नक्तकः “ लक्तक इत्यपि " कर्पटः द्वे जीर्णवस्त्र- खण्डस्य "फडके, छाटी इति ख्यातस्य ।" वस्त्रं आच्छादनं वासः चैलं “चेल । चलोऽघमे त्रिषु । नपुंसकं तु वसन इति विश्वः ।" वसनं अंशुकं षट् वस्त्रस्य । “अंशुकं शुक्लवस्त्रे साइखमात्रोत्तरीययोः” इति रभसः ।। ११५ ।। सुचेलक: पटः द्वे शोभनवस्त्रस्य । तत्र पटोऽस्त्री । वराशिः “वरासिः । बरासिः स्यात्खन्नवरे वरासिः स्थूलशाटक इति दंत्यान्तेषु रभसः ।" स्थूल- शाटकः द्वे स्थूलवाससः । निचोल: निचुलोऽपि । “निचुलस्तु निचोले स्यात्" इति मेदिनी | प्रच्छदपट: द्वे येन वीणाडोलिकादिकं किमपि पिघी- यते तस्य | रल्लकः कम्बलः द्वे कम्बलस्य ॥ ११६ । अन्तरीय उपसंव्यानं परिधान अर्धोऽशुकं चत्वारि परिहिते वाससि । “ अधोदेहभागस्यांशु॒कं अर्थोऽशुकम् । " प्रावारः प्रावर: " बृहतिका ॥ ११७ ॥ उत्तरासङ्गः Digitized by Google + ! 1