पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

59 103 सटीकामरकोशस्य [ मनुष्यवर्ग: ॥ आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥ दशैते त्रिष्वलङ्कर्तालङ्करिष्णुच मण्डितः || प्रसाषितोऽलङ्कृतश्च भूषितश्च परिष्कृतः ॥ १०० ॥ विभ्राद् भ्राजिष्णुरोचिष्णू भूषणं स्यादलङ्गिया || अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम् ।। १०१ ।। मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकम् ।। चूडामणिः शिरोरत्नं तरलो हारमध्यगः ।। १०२ ।। वालपाश्या पारितथ्या पत्रपाश्या ललाटिका || कर्णिका तालॅपत्रं स्यात्कुण्डलं कर्णवेष्टनम् ॥ १०३ ॥ ग्रैवेयकं कण्ठभूषा लम्बनं स्याललन्तिका ॥ स्सादलङ्कारे रङ्गज्यायां नपुंसकम्" इति मेदिनीकोशात् । प्रतिकर्मादि द्वयमल- करणस्य वा ॥ ९९ ॥ एते अलकर्तादयः वक्ष्यमाणा दश शब्दास्त्रिषु वाच्य- लिङ्गाः । अलङ्कर्ता अलकरिष्णुः द्वे अलङ्कर्तरि । अलङ्कर्तु शीलमस्यालंक- रिष्णुः । मण्डितः प्रसाधितः अलङ्कृतः भूषितः परिष्कृतः “परिस्कृतः” पञ्च अलङ्कृतस्य || १०० ॥ विश्राद् भ्राजिष्णु: रोचिष्णु: त्रयमतिशयेन श्रोममानस्य । विभ्राजौ । भूषणं अलडिया द्वे भूषणक्रियायाः । भूषा तु स्वादलङ्कियेत्यपि पाठः | " अलङ्कारः आमरणं परिष्कार: “परिस्कारः ” विभूषणम् ।। १०१ ।। मण्डनं पञ्चालङ्कारस्य । मुकुटं "मकुटं" किरीटं द्वे किरीटस्य । “तत्र किरीटं पुंसि क्लीने च । " चूडामणिः शिरोरतं द्वे शिरो- मणेः । हारमध्यगः हारमध्यगतो नायकमणिः तरल: स्यात् पदक इत्यादि- ख्यातस्य एकम् || १०२ ॥ वालपाश्या पारितथ्या द्वे सीमन्तभूषणस्य । “ स्वामी तु प्रथमं वालं बंधन मुक्तावलीनामित्याह । परितस्तथाभूतैव पारि- तथ्या ।" पत्रपाझ्या ललाटिका द्वे ललाटभूषणस्य । कर्णिका कर्णस्याल - ङ्कारेऽर्थे । “कर्णललाटात्कनलङ्कारे” इति कन् । कर्णिका कर्णभूषणमिति । ताल- पत्र “ताडपत्र " द्वे ताटङ्कस्य तानवड इति ख्यातस्य । कुण्डलं कर्णवेष्टनं द्वे कुण्डलस्य । तत्र कर्णिका स्त्रीभिरेव धार्यते । इदं पुरुषैरपि ॥ १०३ | ग्रैवे- यकं कण्ठभूषा द्वे श्रीवाभरणस्य । “ग्रैवेर्य ग्रैवं चेत्यन्यत्र " | लम्बनं ललन्तिका Digitized by Google