पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] द्वितीयं काण्डम्. १५५ चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः ॥ ९५ ॥ तद्वृन्दे कैशिकं कैश्यमलकाचूर्णकुन्तलाः || ते ललाटे भ्रमरकाः काकपक्षः शिंखण्डकः ॥ ९६ ॥ कबरी केशवेशोऽथ धम्मिलः संयताः कचाः ॥ शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा ॥ ९७ ॥ वेणि: प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे || पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥ १८ ॥ तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुंमुखे || 95-98 44 पञ्च शिरसः । ना पुमान् । चिकुरः चिकूरः । कुन्तला मूर्द्धजास्त्वस्त्राधि- कुरात्रिकुराः कचाः" इति दुर्गः । कुन्तलः वालः कचः केश: शिरोरुहः षट् केशस्य ।। ९५ ।। कैशिकं कैश्यं द्वे तद्वृन्दे केशानां समूहे । अलकाः चूर्णकुन्तलाः द्वे कुटिलकेशानाम् । ते अलकाः ललाटे लम्बमानाः भ्रमरकाः स्युः । काक- पक्षः शिखण्डकः शिखण्डिकः शिखाण्डकः । “शिखाण्डकशिखण्डिकौ” इति वाचस्पतिसुभूती । “शिखण्डो बर्हचूडयोः” इति मेदिन्याम् । द्वे कुमारचूडागाः ।। ९६ ॥ कबरी केशवेशः द्वे केशबन्धरचनायाः | कबरी स्त्री । संयताः मौक्तिकदामादिवद्धाः कचा: केशसमूहो धम्मिल्ल इत्येकं “बुचडा इति ख्यातस्य ।" शिखा चूडा केशपाशी त्रीणि शिखायाः । केशपाझ्यौ | सटा जटा द्वे व्रतिनः शिखायाम् ॥ ९७ ।। वेणिः प्रवेणी द्वे सर्पाकाररचितकेच- वेशस्य । वेणीत्यपि । प्रवेणिरित्यपि । “प्रवेणिः स्त्री कुथावेण्योः" इति मेदिनी । शीर्षण्यः शिरस्य: द्वे विशदे निर्मले केशे । कचादित्यर्थप्रधानो निर्देशः । तेन कचपर्यायात् परे पासादयस्खयः कलापार्था: केशसमूहवाचिन इत्यर्थः । यथा कचपाशः | केशपाशः | केशपक्षः । कुन्तलहस्तः ॥ ९८ ।। तनूरुहं रोम लोम त्रयं रोम्णः | पुंमुखे पुंसो व तस्य रोम्णो वृद्धौ सत्यां तद्रोम मधु स्यात् एकं “दाढी इति ख्यातस्य" । मधुणी । आकल्पः वेषः । वेश इति तालव्यान्तोऽपि । “वेशो वेश्यागृहे गृहे । नेपथ्ये च?? इति मेदिनी । नेपथ्यं प्रतिकर्म प्रसाधनं पञ्च अलङ्कृतस्य शोभायाम् । “नेपथ्यं तु प्रसाधने । रङ्गभूमौ वेषभेदे " इति हैमः । नेपथ्यशन्दः पुंस्यपि । “नेपथ्यः Digitized by Google ✓