पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

41-44 १५४ सटीकामरकोशस्य [ मनुष्यवर्गः रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सूकिंणी ॥ ९१ ॥ ललाटमलिंकं गोधिरूवें दृग्भ्यां ध्रुवौ स्त्रियो || कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥ १२ ॥ लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी || हग्दृष्टी चाखु नेत्राम्बु रोदनं चासँमश्रु च ॥ ९३ ॥ अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने || कर्णशब्दहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥ उत्तमाङ्गं शिरः शीर्ष मूर्धा ना मस्तकोऽस्त्रियाम् ॥ रसज्ञा रसना | तालव्या अपि दन्त्याचेत्यादौ जिह्वायां रसना तथेत्युक्तेः रसनाशग्दो दन्त्यतालव्यमध्यः । रसनमिति क्लीनमपि । “ रसनं स्खदने ध्वनौ जिह्वायां तु न पुंसि स्यात् ” इति मेदिनी | जिहा त्रीणि जिह्वायाः । प्रान्ता - विति ओष्ठद्वयस्य वामदक्षिणौ प्रान्तौ सृकिणी स्याताम् | ईबन्तस्य स्त्रियामे- कवचनम् | नान्तस्य लीबे वा द्विवचनमेवत् । सृकि इति इदन्तस्य क्लीने द्विवचनं वा । सृक्कियां सृकि सृक चेति शब्दभेदात् । “सृक्केति नान्तस्य क्लीबे सृकणीति पाठः । कवयुक्तमिति मते तु । यथा सृहिणी खियाम् । सृकि नान्तमिदन्तं च । सङ्केति नान्तम् । सृफसृकमदन्तं चेत्यन्यत्र " एकम् ।। ९१ ।। ललाटं अलिकं गोधि: त्रीणि भालस्य । “अलिकं इस्वदीर्घम- ध्यम्” इति राजदेवः । गोधिः पुंसि । दृग्भ्यामूर्ध्वभागौ भुवौ एकम् । भूः । नासोपरि भ्रुवोर्मध्ये कूर्च इत्येकम् । “कूर्चमस्त्री भ्रुवोर्मध्ये कत्थनम्मथुकैतवे" इति कोशान्तरम् । अक्ष्णः कनीनिका मध्यगतकृष्णमण्डलं तारकेत्युच्यते एकम् ।। ९२ ॥ लोचनं नयनं नेत्रं ईक्षणं चक्षु अक्षि दृक् दृष्टिः अष्टौ नेत्रस्य | चक्षुषी | दृशौ । अनु नेत्राम्बु रोदनं असं अश्रु पश्च नेत्रोदकस्य । असु दन्त्यमध्यम् । अन्त्य॑ तालव्यमध्यम् । अस्रमदन्तं दन्त्यमध्यम् । “तालव्यमध्य- मपि " ॥ ९३ ।। नेत्रयोरन्तौ अपाङ्गौ एकम् । अपाङ्गेन दर्शने चेष्टायां कटाक्ष इत्युच्यते । “अपाङ्गस्त्वनहीने स्यानेत्रान्ते तिलकेऽपि च" इति विश्वः । कर्णः शब्दग्रहः श्रोत्रं श्रुतिः श्रवणं अवः षट् कर्णस्य | स्त्रीति विशेषविधानात् संकरो निर्दोषाय । श्रवसी ॥ ९४ ॥ उत्तमाङ्गं शिरः शीर्षे मूर्धा मस्तकः Digtized by Google