पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

104-108 द्वितीय काण्डम्. १५७ स्वर्णैः प्रालम्बिकाऽथोरः सूत्रिका मौक्तिकैः कृता ॥ १०४ ॥ हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका || हारभेदा यष्टिभेदागुच्छंगुच्छार्धगोस्तनाः ॥ १०५ ॥ अर्घहारो माणवक एकावल्येकयष्टिका || सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६ । आवापकः पारिहार्यः कटको वलयो स्त्रियाम् || केयूरमजदं तुल्ये अङ्गुलीयकमूर्मिका ॥ १०७ ॥ साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् || स्त्रीकट्या मेखला काची सप्तकी रशना तथा ॥ १०८ ॥ कीबे सारसनं चाथ पुंस्कव्यां शृङ्खलं त्रिषु ॥ द्वे आनामिलम्बितकण्ठिकायाम् । सैव ललन्तिका खर्णैः कृता प्रालम्बिका स्यात् एकम् । सैव ललंतिका मौकिकै रचिता चेदुरःसूत्रिकेत्येकम् ।। १०४ ।। हारः । हियते मनोऽनेनेति । अथवा हारयति मनः । मुक्तावली " द्वे मुता- हारस्य ।” असौ मुक्तावली शतयष्टिका शतलतिका चेत् देवच्छन्दः एकम् । देवच्छन्दौ । यष्टिभेदाल्लतानां मेदात् गुच्छादयो हारभेदाः स्युः । " गुत्स- गुत्सार्धगोस्तना इत्यपि पाठः । ” ते यथा । द्वात्रिंशद्यष्टिको गुच्छः । चतु- विंशतियष्टिको गुच्छार्घः । चतुर्यष्टिको गोस्तनः ॥ १०५ ।। द्वादशयष्टिको- ऽर्षहारः । विंशतियष्टिको माणवकः । एकयष्टिका एकावली | सैवैकावली सप्तविंशतिमौक्तिकैः ॐ: कृता नक्षत्रमाला स्यात् एकैकम् ॥ १०६ ॥ आषा- पकः पारिहार्यः कटकः वलयः चत्वारि प्रकोष्ठाभरणस्य "पोंची इत्यादि- ख्यातस्य ।" केयूर अङ्गद द्वे प्रगण्डभूषणस्य “ बाहुवटे, बाजुबंद इति ख्यातस्य ।” के बाहुशिरसी यौति केयूरम् । “यु मिश्रणे” । अङ्गुलीयकं ऊर्मिका द्वे अङ्गुल्याभरणस्य आंगुठी इति ख्यातस्य ।। १०७ ।। ऊर्मिकैव रामनाभाद्यक्षरयुता चेदङ्गुलिमुद्रेत्येकम् । कङ्कणं करभूषणं द्वे मणिबन्धभूष- णस्य "कांकर्णे इति ख्यातस्य " | "कङ्कणो ना प्रतिसरः" इति रनकोशः । मेखला कांची "कांचि: " सप्तकी रशना “ दन्त्यमध्यापि " ॥ १०८ ॥ सारसनं पत्र स्त्रीणां कटिभूषणस्य "दाब, कंबरपट्टा" इति ख्यातस्य । “एक- Digitized by Google