पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयं काण्डम्. पादाग्रं प्रपदं पादः पॅदङ्गिश्चरणोऽस्त्रियाम् ।। ७१ ॥ तग्रन्थी घुटिके गुल्फो पुमान्पाणिस्तयोरधः || जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् || ७२ ॥ सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वंक्षणः || गुदं त्वपानं पायुर्ना वस्तिर्नाभेरघो दयोः ॥ ७३ ॥ कटो ना श्रोणिफलकं कॅटिः श्रोणिः ककुझती ॥ पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ॥ ७४ ॥ कूपकौ तु नितम्बस्थौ दयहीने कुकुन्दरे | १४९ 46 44 न्तरे । पत् अभिः चरणः चत्वारि चरणस्य । दाम्तः पत् । "पदोऽभिरिति पाठे अदन्तः पदशब्द: " ॥ ७१ ॥ तद्ब्रन्थी पादस्य पार्श्वस्थौ ग्रन्थिविशेषौ घुटिके गुल्फाविति चोच्येते द्वयं “पायांचा घोंटा इति ख्यातस्स | " घुटिके स्त्रियाम् । द्वित्वाद्विवचनम् । न तु नित्यम् । तयोः गुल्फयोरघः प्रदेशः पाणि- रित्येकं खोट इति ख्यातस्य | "पाणिः स्त्रीपुंसयोः पादमूले स्यात् ध्वजि- नीकटौ" इति तु रन्तिदेवः । जङ्घा प्रसृता द्वे जङ्घायाः पोटरी इति प्रसिद्धायाः । जानु ऊरुपर्व अष्ठीवत् त्रयं जानूरुसन्धेः “ढोंपर गुडघा इति ख्यातस्य " । तत्राष्टीवदस्त्रियाम् | जानुनी । ऊरुपर्वणी | अष्ठीवन्तौ ॥ ७२ || सक्थि ऊरुः द्वे जानूपरिभागस्य “ मांडी इति ख्यातस्य ।” ऊरोरुपरिभागः सक्थीति कचिद्भेदो दृश्यते । तस्योरो: सन्धिः वंक्षण इत्येकम् । गुदं अपानं पायुः श्रीणि विष्ठानिर्गमद्वारस्य । पायुरुदन्तः ना पुमान् । वस्तिरित्येक स्त्रीपुंस- लिङ्गं नाभेरथो मूत्राशयस्य || ७३ || श्रोणिः कटिस्तस्याः फलकं कट इत्यु- च्यते स पुमान् । एकम् । कटि: "कटीति ङीषन्तापि । ” श्रोणिः “श्रोणी " ककुछती त्र्यं स्त्रीलिङ्गं कट्याः । “ककुद्वृषांस इव मांसपिण्ड : सोऽतिशयि - तोऽस्यां ककुमती ।" स्त्रियाः कटिः स्त्रीकटि: तस्याः पश्चाद्भागो नितम्ब इत्येकम् । निभृतं तम्यते कामुकैः नितम्बः । “तमु कांक्षायाम् " | जघनमि- त्येक स्त्रीकव्याः पुरोभागे । “जघनं स्यात् स्त्रियाः श्रोणिपुरोभागे कटावपि " इति । “वांदन ओंटी इति ख्याते ” ॥ ७४ ॥ नितम्बस्यौ पृष्ठवंशादधो- भागे विद्यमानौ कूपको गर्तौ ककुन्दरे स्याताम् । “ककारादिरपि " एकम् । इusीने ली । द्वित्वमनित्यम् । स्फिचौ कटिमोथौ द्वे कटिस्यमांसपिण्डयोः । 71-74 Digitized by Google