पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

od 75-78 १५० सटीकामरकोशस्य [ मनुष्यवर्ग: स्त्रियां स्फिचौ कंटिप्रोथावुपस्थो वक्ष्यमाणयोः ॥ ७५ ॥ भगं योनिर्द्वयोः शिनो मेंट्रो मेहनशेफँसी ॥ मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम् ॥ ७६ ॥ पिचॅण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ || चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ॥ ७७ ।। उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः ।। स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी ॥ ७८ ॥ बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरषः ।। “कुले इति ख्यातयोः । कटिः तस्याः प्रोथौ मांसपिण्डौ कटिप्रोथौ । “स्त्रियां स्फिचौ कटिग्रोथौ कटिप्रोथौ च पूलका " इति रमसः । कटिप्रोथाविति नामद्वयं वा । “प्रोथोऽश्वघोणाध्वगयोः कट्याम्" इति हैमः | वक्ष्यमाणयोर्भगे शिश्ने च उपस्थ इत्येकम् ।। ७५ ।। भगं योनिः द्वे स्त्रीणामुपस्यस्य । द्वयोरि- त्यस्य योनिनान्वयः । शिश्न: मेंद्र: मेहनं शेफ: "शेपः " चत्वारि शिश्वस्य । मेंद्रमित्यपि पाठः | सुष्कः अण्डकोशः “मूर्धन्यान्तोऽपि "। वृषण: त्रीष्यण्ड- कोशस्य "आण्डकुली इति ख्यातस्य " | पृष्ठवंशाधरे त्रिभिरस्थिभिर्घटितं स्थानं त्रिकं इत्येकं “माकडहाड इति ख्यातस्य" ।। ७६ ॥ पिचण्ड: "पिचिण्ड: " कुक्षिः जठरं उदरं तुन्दं पश्च जठरस्य । सत्र पिचण्डकुक्षी पुंसि । जठरं विकल्पेन पुंसि । “जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोस्त्रिषु" इति मेदिनी । स्तनः कुचः द्वे वक्षोजस्य | चूचुकं कुचाग्रं द्वयं स्तनाग्रस्य | "चूचुको ना कुचाननम्” इति रनकोशः । “चूष्यते पीयत इति चूचुकम् ।" क्रोर्ड भुजान्तरम् ॥ ७७ ॥ उरः वत्सम् । “पुत्रादौ तर्णके वर्षे वत्सो वत्सं तु वक्षसि " इति रुद्रः । वक्षः पञ्च वक्षसि । तत्र कोर्ड न ना किंतु स्त्रीनपुंस- कयोः । स्त्रियां तु क्रोडा । तनोः शरीरस्य चरमं पश्चाद्भागः पृष्ठमित्ये- कम् । स्कन्धः । “स्कन्धः प्रकाण्डे कार्येऽसे विज्ञानादिषु पञ्चसु | नृपे समूहे व्यूहे च" इति हैमः । भुज़शिरः अंस: त्रीणि भुजशिरसः “खांदा इति ख्यातंय । तस्य स्कन्धस्य संधी जत्रुशब्दवाच्यौ एकं " नपुंसकम्” || ७८ || बाहु- मूलं कक्षः द्वे कक्षस्य । तयोरधोभागः पार्श्वमित्येकम् | मध्यमं अबलमं मध्यः Diglized by Google