पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66-70 १४८ सटीकामरकोशस्य [ मनुष्यवर्गः सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम् || ( "नासामलं तु सिंघणं पिञ्जूषं कर्णयोर्मलम् ॥” )(१) मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥ पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ | स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च ॥ ६८ ।। स्याच्छरीरास्थि कङ्कालः पृष्ठास्त्रि तु कशेरुका ॥ शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ॥ ६९ ॥ अङ्गं प्रतीकोऽवयवोsपघनोऽथ कलेवरम् || गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥ कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ॥ 64 “दूषिकेत्येक नेत्रयोर्मलस्य" उकीर पू इति ख्यातस्य । दूषीका दीर्घमध्यापि । दूषिदूषी चेत्यप्यन्यत्र । सिंघाणमित्येकं नासामलस्य । सिंहाणं सिंहानं चेत्यपि । “पिञ्जूष इत्येकं कर्णमलस्य" । मूत्रं प्रस्रावः द्वे मूत्रस्य । उभ्वारः अवस्करः शमलं शकृत् ॥ ६७ ॥ पुरीषं गूयं वर्चस्कं विष्ठा विद् नव विष्ठायाः । “उच्चार्यते त्यज्यते इत्युच्चारः । अवकीर्यते अघः क्षिप्यत इत्यवस्करः ।" गूथं कंस | कृती । “विद् तालव्यमूर्धन्यान्त्यः । विशौ । विषौ । गूथ पूरीषं वर्चस्कमित्यपि पाठः " । कर्परः कपालः द्वे शिरोस्थि- खण्डस्य । कपालमस्त्रियाम् । कीकसं कुल्यं अस्थि त्रीणि अस्थिमात्रस्य ।। ६८ ।। कङ्काल इत्येकं शरीरगतास्थिपञ्जरस्य "सांगाडा, पिंजरा इति ख्यातस्य" । कशेरुकेत्येकं पृष्ठमध्यगतास्थिदण्डस्य " कणा इति ख्यातस्य" । करोटिरित्येक शिरोगतास्थिसंघस्य । करोटीति ङीषन्सापि । यदाह पुष्प- दन्तः । "नृकरोटीपरिकरः" इति पर्शुकेत्येकं पार्श्वगतास्थान "बर्गडी इति ख्याते" ॥ ६९ ॥ अङ्गं प्रतीकः अवयवः अपघन: चतुष्कं देहावयवस्य । कलेवर गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः । विविधं सुखादि गृह्णाति । विविधैर्व्याधिभिर्गृह्यते चा ॥ ७० ॥ कायः देहः मूर्तिः तनुः तनूः द्वादश देहस्य | वपुषी । वर्ष्यणी । तन्वौ । पादाग्रं प्रपदं द्वे पादाग्रस्य चवडा इति ख्यातस्य । पाद: । "पादो बुध्ने तुरीयांशे शैलप्रत्यन्तपर्वते । चरणे च मयूखे च" इति कोशा- १ इदमधे तालपत्रपुस्तकेऽपि नास्ति । Diglized by Google