पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीय काण्डम्. पिशितं तरसं मासं पललं क्रव्यमामिषम् || उत्तप्तं शुष्कमासं स्यात्तदरं त्रिलिङ्गम् || ६३ ॥ रुघिरेऽसृक्लोहितासरक्तक्षतजशोणितम् ॥ बुक्का मांस हृदयं हृन्मेदस्तु वपा वसा || ६४ || पश्चाद्रीवाशिरा मन्या नाडी तू धर्मोनिः शिरा ।। तिलकं क्लोम मस्तिष्कं गोर्द किट्टं मलोऽस्त्रियाम् || ६५ ।। अन्त्र पुरीतत् गुल्मस्तु प्लीहा पुंस्यथ वस्त्रसा || स्नायुः स्त्रिया कालखण्डयकृती तु समे इमे ॥ ६६ ॥ १४७ च । “पद्मकोशप्रतीकाशं रुचिरं चाप्यधोमुखम् | हृदयं तद्विजानीयाद्विश्वस्या- यतनं महत्" इति । बुका स्त्री । बुकाग्रमांसमिति समस्तमपि । हृदयं हृत् द्वे हृदयाख्यनिन्नदेशस्य । बुकादिचतुष्कं समानार्थमित्येके | हृदी हृन्दि | मेद वपा वसा त्रीणि मांसजन्य स्नेहस्य | चरबी मांदे इति ख्यातस्य । मेदसी ॥ ६४ ॥ ग्रीवायाः शिरो ग्रीवाशिरा | या पश्चात्स्थिता ग्रीवाशिरा सा मन्ये - त्युच्यते एकम् । नाडी धमनिः शिरा त्रयं शिरायाः “नाडी इति ख्यातायाः ” सिरति दन्त्यादिरपि । “कृदिकारादक्तिनः" इति ङीषि धमनीत्यपि । तिलकं लोम द्वे मांसपिण्डविशेषस्य पुप्फुस इति ख्यातस्य । क्लोममित्यदन्तमपि । मस्तिष्कं “मस्तिकम् । “अथ मस्तिको मस्तुलिङ्गोऽपि " इति त्रिकाण्डशेषः । गोर्दै " गोद " द्वे मस्तकसंभूतधृताकारस्नेहस्य “गोद मेंदू ” इति ख्यातस्य । किट्टं मलः द्वे कर्णादिगतमलस्य । वसा शुक्रमसृक् मजा " कर्णविण्सूत्रविण्नखाः । श्लेष्माश्रुदूषिकाः स्वेदो द्वादशैते नृणां मलाः ” ।। ६५ ।। अन्त्रं “आन्त्रमित्यपि मनोरमायुक्तम् । पुरीतत् पुरीं शरीरं तनोतीति । द्वे अन्त्रस्य "आंतर्डे इति ख्यातस्य " । पुरीतती पुरीतन्ति । "पुरीतदखि याम्” इति वाचस्पतिकोशात्पुंस्यपि । गुल्मः प्लीहा द्वे वामकुक्षिस्यमांसपि- ण्डविशेषस्य । प्लीहानौ । “प्लीहाशब्दष्टाबन्तोऽपि " । वस्त्रसा स्नायुः द्वे अङ्गम- त्यङ्गसन्धिबन्धनरूपायाः स्लायोः शिरा इति ख्यातायाः । कालखण्डं यकृत् द्वे दक्षिणकुक्षिगतमांसपिण्डस्य ।। ६६ ।। सृणिका "सृणीका " स्वन्दिनी लाला त्रीणि लालायाः लाळ इति ख्यातायाः । स्यन्दिनी दन्त्यादिः । 62-44 Diglized by Google