पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1240-44 १४१ द्वितीयं काण्डम्. पलितं जरसा शौक्ल्यं केशादौ विखसा जरा || स्यादुत्तानशया डिम्भा स्तनपा च स्तनंघयी ॥ ४९ ॥ बालस्तु स्यान्माणवको वयस्यैस्तरुणो युवा | प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥ वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽअजः || जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः || ४३ || अमांसो दुर्बलश्छाँतो बलवान्मांसलोंऽसलः ॥ तुन्दिलस्तुन्दिर्भस्तुन्दी बृहत्कुक्षिः पिचण्डिलः ॥ ४४ ॥ “वयः द्वे जरायाः । वित्रस्यतेऽनया विखसा । जीर्यत्यङ्गमनया जरा । उत्तानशया डिम्भा स्तनपा स्तनंधयी चत्वारि स्तनंघयस्य । त्रिषु वक्ष्यन्ते । स्त्रीत्वेन निर्देश: स्त्रीत्वे रूपभेदप्रदर्शनार्थः । डिम्भशब्दः सिंहादिवर्ग उक्तोऽपि स्त्रियां टाबन्तत्वप्रदर्शनाय पुनरिहोक्तः ॥ ४१ ॥ बाल: माणवकः द्वे बालस्य । आबोडशाद्वालः । वयस्यः । वयसि तिष्ठतीति । “ 'वयस्थ इत्यपि " । पक्षिणि बाल्यादौ वयो यौवनमात्रके" इति विश्वः | तरुणः युवा त्रयं यूनः । प्रवन्याः स्थविरः वृद्धः जीनः जीर्णः जरन् पकं वृद्धस्य । प्रवयसौ । जरन्तौ |॥ ४२ ॥ वर्षीयान् दशमी ज्यायान् त्रीण्यतिवृद्धस्य । अतिशयेन वृद्धो वर्षी- यान् वर्षीयांसौ । दशमोऽवस्थाविशेषोऽस्यास्तीति दशमी । वयसि पूर- णादिनिः । दशमिनौ । ज्यायांसौ । पूर्वजः अग्रियः “अग्रीयः" अग्रजः त्रीणि ज्येष्ठ भ्रातुः । पूर्वसिन्काले जातः पूर्वजः । जघन्यजः कनिष्ठः “कनीयानित्यपि ” यवीयान् यविष्ठः “अतिशायन" इतीष्ठन् । अवरजः अनुजः पश्चकं कनिष्ठभ्रातुः । जघन्येश्वरकाले जातः जघन्यजः । अवर- सिन्काले जातः अवरजः ॥ ४३ ॥ अमांसः दुर्बल: छात: त्रीणि अब- लस्म । छातचवर्गादिः । “छो छेदने ” । शात इति पाठः | बलवाम् मांसलः अंसलः त्रीणि बलवतः । अंसो बलमस्यास्तीत्यसलः । तुन्दिलः तुण्डिलः | तुन्दिकः तुन्दितः । तुन्दिभः “तुण्डिभः " तुन्दी "तुण्डी" बृह- त्कुक्षिः पिचण्डिल: “पिचिण्डिल: " पञ्च बृहदुदरस्य । तुन्दमस्यास्तीति तुन्दिलः | तुन्दादिभ्य इलच् मत्वर्थे तुन्दिबलि इति भप्रत्ययम | तुण्डिभौ ॥४४॥ 66 Digitized by Google