पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

37-40 सटीकामरकोशल्य [ मनुष्यवर्ग: श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥ ३७ ॥ दम्पती जम्पती जायापती भार्यापती च तौ ।। गर्भाशयो जरायुः स्यादुल्वं च कललोऽस्त्रियाम् ॥ ३८ ॥ सूतिमासो वैजननो गर्भो भ्रूण इमो समौ ॥ तृतीयाप्रकृतिः षण्टः क्लीबः पण्डो नपुंसके ॥ ३९ ॥ शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे || स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम् ॥ ४० ॥ १४० । इति न्यासः । श्वश्रूश्वशुरौ श्वशुरौ द्वे सहोक्तयोः श्वश्रूवशुरयोः | पुत्रश्र दुहिता च एकशेषे पुत्रौ स्यातामित्यर्थः । एकम् ॥ ३७ ॥ दम्पती जम्पती जायापती भार्यापती चत्वारि दंपत्योः | जायाशब्दस्य जंभावो दंभावश्च वा निपात्यते । तानित्यनेनैते शब्दा द्विवचनान्ताः पुंसीति सूचितम् । “शाल्मली मैथिली मैत्री दम्पती जम्पती च सा " इति वाचस्पतौ स्त्रीत्वमप्युक्तम् । गर्भाशयः जरायुः उल्ब त्रीणि येन वेष्टितो गर्भ: कुक्षौ तिष्ठति तस्य चर्मणः । गर्भ आशेतेऽत्र गर्भाशयः । जरायुरुदन्तः । कललं इत्येकम् । शुक्रशोणितसन्निपातस्य प्रसि- द्धत्वादस्य पर्यायो नोक्तः किंतु अस्त्रीत्वमात्रं विधीयते । उपपर्यायः कलल इत्येके । यदाहुः । तदुर्ल्ड कललं च तदिति ॥ ३८ ॥ सूतिमासः वैजननः द्वे प्रसवमासस्य | यत्र नवमे वा दशमे मासि प्रसूयते तस्येत्यर्थः । “विजायते- sसिन्विजननः " विजनन एव वैजननः | स्वार्थेऽण् । गर्भः भ्रूणः द्वे कुक्षिस्थस्य प्राणिनः । तृतीयाप्रकृतिः षण्ढः क्लीबः पण्डः नपुंसकः पञ्च नपुंसकस्य । तृती- याप्रकृतिरिति षडक्षरं नाम । “संज्ञापूरण्योथ" इति निषेधास पुंवद्भावः । तृती- यप्रकृतिरित्यपि । नञ्घटितमनित्यमिति न्यायेन उक्तनिषेधानित्यत्वात्युंव- द्भावः । षण्ढः स्यात्पुंसि गोपतौ । “आकृष्टाण्डे वर्षवरे तृतीयकृतावपि " इति कोशान्तरात् । तत्र प्रथमा प्रकृतिः स्त्री । द्वितीया पुमान् । तृतीया क्लीन इति । षण्ढो मूर्द्धन्यादिस्तालव्यादिर्वा ॥ ३९ ॥ शिशुत्वं शैशवं बाल्यं त्रयं बालत्वे । तारुण्यं यौवनं द्वे । स्थाविरं वृद्धत्वं वार्धकम् वार्धक्यमित्यपि । “ वार्धक्यं वार्धके वृद्धसंघाते वृद्धकर्मणि" इति बिश्व: । त्रीणि वृद्धत्वे । तत्र वार्धकमित्येकं वृद्धसंघेऽपि वृद्धानां समूहेऽपि ॥ ४० ॥ केशादौ जसा यत् शौक्ल्यं धवलिमा तत्पलितमुच्यते । आदिना लोम्नां ग्रहणम् । विसा जरा Digitized by Google