पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ] द्वितीयं काण्डम्. समाः ॥ समाः ॥ ३४ ॥ मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः || ३३ || समानोदर्यसोदर्यसगर्ग्यसहजाः सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः ॥ धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ ॥ ३५ ॥ अमृते जारजः कुण्डो ते भर्तरि गोलकः || आत्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥ मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ ॥ १३९ 33-36 प्रमातामहः एकम् । सपिण्डाः सनाभयः द्वे सतपुरुषावधिज्ञातिषु । “सपिण्डता तु पुरुषे सप्तमे विनिवर्तते " इति स्मृतेः । “समान एकः पिण्डो देहो मूलपु- रुषो निर्वाप्यो वाऽस्य । सह पिण्डेन वर्तत इति वा सपिण्डः । समानो नाभि- मूलपुरुषोऽस्य सनाभिः " ॥ ३३ ॥ समानोदर्यः सोदर्य: सगर्भ्य: सहज चत्वारि एकोदरस्य आतुः । सगोत्रः बान्धवः ज्ञातिः बन्धुः स्वः स्वजनः षट् सगोत्रस्य । समानमेकं गोत्रमस्य सगोत्रः । अत्र स्खशब्दस्य स्वरूपं स्खः खौ स्वाः इत्यादि ॥ ३४ ॥ तेषां भावसमूहयोः क्रमात् ज्ञातेयं बुन्धुता स्यात् । यथा ज्ञातीनां भावो ज्ञातेयं एकम् । बन्धूनां समूहो बन्धुता एकम् । धवः प्रियः पतिः भर्ता चत्वारि पत्युः । जारः उपपतिः । द्वे मुख्यादन्यस्य भर्तुः । “उपमितः पत्या, उपसृष्टः पतिरनेन वा उपपतिः । “प्रादिभ्यो धातुजस्य वाच्यो वा चोचरपदलोपश्च " इति समासः ॥ ३५ ॥ अमृते भर्तरि जाराजातः कुण्ड इत्युच्यते एकम् । कुण्ड्यते कुलमनेन कुण्डः । “कुडि दाहे" | त्रिया तु कुण्डी । “कुण्डमम्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ जारात्पति- वीसुते पुमान् " । मृते भर्तरि जाराजातो गोलक इत्येकम् । आत्रीयः आतृव्य: " आतृजः द्वे आतृपुत्रस्य । आत्भगिन्यौ भ्रातराविति स्वातां एकम् | उभाविति सहोक्तौ सत्यामिति सूचनार्थम् | आता च स्वसा च भ्रातरौ । "भ्रातृपुत्रौ स्वसृदुहितुभ्याम्" इत्येकशेषः ॥ २६ ॥ मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ चत्वारि द्विवचनान्तानि मात्रा सहोक्ते पितरि । माता च पिता च पितरौ । “पिता मात्रा" इत्येकशेषः । मातरपितरा- वित्यत्र ऋकारयोरभावो निपात्यते । तेन मातरपितराभ्यामिति प्रयोग Diglized by Google 66