पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40-42 1 सटीकामरकोशस्य [ मनुष्यवर्ग; वृन्दभेदाः समैर्वर्गः संघसार्थौ तु जन्तुभिः || सजातीयैः कुलं यूथं तिरश्श्रां पुन्नपुंसकम् ।। ४१ ।। पशूनां समजोऽन्येषां समाजोऽथ सघर्मिणाम् ॥ स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥ कापोतशौकमायूरतैत्तिरादीनि तद्गणे || गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥ इति सिंहादिवर्गः ॥ ५ ॥ १३० मनुष्या मानुषा मर्त्या मनुजा मानवा नराः || स्युः पुमांसः पञ्चजनाः पुरुषाः पुरुषा नरः ॥ १ ॥ मनुष्यवर्ग: शैलबर्गः । सजातीयैर्विजातीयैरपि जन्तुभिः प्राणिभिरेव समूहः संघः सार्थ इति चोच्यते द्वे । यथा पशुसंघः वणिक्सार्थः । सजातीयैर्जतुभिरेव कुलम् | यथा विप्रकुलम् | “कुलं जनपदे गोत्रे सजातीये गणेऽपि च " इति एकम् | तिरथामेव सजातीयानां समूहे यूथम् । यथा मृमयूथम् । एकम् ।। ४१ ॥ पशूनामेव वृन्दं समज इत्युच्यते एकम् । अन्येषां पश्वतिरिक्तानां वृन्दं समाजः । यथा श्रोत्रियसमाजः एकम् । सघर्मिणां एकधर्मवतां समूहो निकायः । यथा श्रोत्रियनिकायः पुञ्जः " पिच: " राशिः उत्करः कूटं चत्वारि धान्यादि- राशेः । “कूटं पुनपुंसकम्” ॥ ४२ ॥ तद्गणे तेषां कपोतादीनां समूहे कापोता- दीनि स्युः । यथा कपोतानां समूह : कापोतम् । झुकानां समूहः शौकम् । एवं मयूराणां समूहः मायूरम् । तित्तिराणां समूहस्तैत्तिरम् । कपोतादिभ्यः " अनु- दातादेरञ्” । आदिशब्दात् काकमित्यादि । ये गृहासक्ताः क्रीडार्थ पञ्जरादौ स्थापिता इति यावत् । से पक्षिमृगाः छेका गृझका इति च स्युः द्वे । गृपा एव गृह्यकाः स्वार्थे कन् || ४३ ॥ इति सिंहादिवर्गः ॥ ५ ॥ मनुष्याः मनोरप- त्यानि पुमांसः “मनोर्जातौ" इति पाणिनिसूत्रेण यत् प्रत्ययः पुगागमश्र | मानुषा: मर्त्याः मनुजाः मानवाः नराः पुमांसः पञ्चजनाः पञ्चमिः पृथिव्यादिमहाभूतै- र्जन्यते प्रादुर्भवतीति । पुरुषाः पूरुषाः नरः एकादश मनुष्याणाम् । नृशब्द- खेकवचनं तु ना । पुमांस इत्यादि पश्चर्क तु पुंव्यक्तावपि प्रायेण प्रयुज्यते । Digitized by Google