पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीय काण्डम्. प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः ॥ पेशी कोशो द्धिहीनेंऽडं कुलायो नीडमस्त्रियाम् ॥ ३७॥ पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः || स्त्रीपुंसौ मिथुनं दन्दं युग्मं तु युगुलं युगम् ॥ ३८ ॥ समूहो निवहव्यूहसंदोहविसरव्रजाः ॥ स्तोमौघनिकरत्रातवारसंघातसंचयाः ॥ ३९ ॥ समुदायः समुदयः समवायचयो गणः || स्त्रियां तु संहतिर्वृन्द निकुरम्बं कदम्बकम् ॥ ४० ॥ १२९ 36-240 प्रडीनं उड्डीनं संडीनं एतास्तिस्रः खगानां गतिक्रिया: गमनव्यापाराः गति- विशेषा इत्यर्थः । तत्र प्रडीनं तिर्यग्गमनम् | उड्डीनं ऊर्ध्वगमनम् । संडीनं संगतगमनम् । पेशी “पेशिः” कोशः “कोषः” अण्डं त्रयमण्डस्य । तत्र पेशी स्त्री | कोशोऽस्त्रियाम् | अडं द्विहीने क्लीने इत्यर्थः । रूपभेदेनैव क्लीबत्वे सिद्धे द्विहीन इत्युक्ति: साहचर्येण प्राप्तमस्त्रीत्वं वारयति । “पेशीनां मांसखण्डानां कोशो भाण्डागारमिति नामैक्यम्" इति स्वामी । कुलायः कुलं पक्षिसंतानः अयते यत्र | नीर्ड द्वे पक्षिगृहस्य "घरटा, खोपा, कोठें इति प्रसिद्धस्य" ।। ३७ || पोतः पाकः अर्भकः डिम्भः पृथुकः शावकः शिशुः सप्तकं शिशु- मात्रस्य । स्त्रियां तु पोती डीबन्ता । पाका अर्भका डिम्भा पृथुका एते च टाबन्ताः । स्त्रीपुंसौ मिथुनं द्वन्द्वं त्रीणि स्त्रीपुरुषरूपयुग्मस्य | स्त्री च पुमांश्च स्त्रीपुंसौ । “अचतुरविचतुर" इति साधुः । द्वन्दशब्दस्य स्त्रीपुंसपरत्वे कालिदास- प्रयोगः । " द्वन्द्वानि भावं क्रियया विवत्रुः" इति । युग्मं युगुलं युगं त्रयं युग्मस्य | केचि द्वन्दयुग्मे इति समस्तं पठित्वा द्वन्द्वादिचतुष्टयं समानमाहुः ॥ ३८ ॥ समूहः निवहः व्यूहः संदोहः विसरः ब्रजः स्तोमः ओषः निकरः प्रातः वारः संघातः संचयः ॥ ३९ ॥ समुदायः समुदयः समवायः चयः गणः संहतिः वृन्दं निकुरम्बे कदम्बकं द्वाविंशतिः समूहस्य । तत्र संहतिः स्त्रियाम् । “वारः सूर्यादिदिवसे द्वारेऽवसरवृन्दयोः । कुब्जवृक्षे हरे चारो वारं मद्यस्य भाजनम् " इति विश्वप्रकाशः ॥ ४० ॥ वृन्दभेदाः समुदायविशेषा वक्ष्यन्त इति शेषः । समैः सजातीयैः प्राणिभिरप्राणिभिर्वा समूहो वर्ग इत्युच्यते एकम् | यथा Digized by Google !