पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

33-36 १२८ सटीकामरकोशस्य [ सिंहादिवर्ग: नगौकोवाजिविकिरविविष्किरपतत्त्रयः ॥ ३३ ॥ नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः || तेषां विशेषा हाँरीतो मद्भुः कारण्डवः प्लवः ॥ ३४ ॥ तित्तिरिः कुक्कुभो लावो जीवजीवश्चकोरकः ।। कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥ गरुत्पक्षच्छदाँ: पत्रं पतत्रं च तनूरुहम् || स्त्री पक्षतिः पक्षमूलं चचुस्रोटिभे स्त्रियौ || ३६ || वाजा: पक्षाः सन्ति अस्य । विकिरः विः विष्करः पतत्रिः ॥ ३३ ॥ नीडो- द्भवः गरुत्मान् पित्सन् नभसंगमः सप्तविंशतिः पक्षिमात्रस्य । शकुन्तिरिदन्तः । शकुन्तोऽदन्तः । विरित्येकाक्षरं नाम | नभसंगम इति पञ्चाक्षरम् । अथ तेषां विशेषा वक्ष्यन्त इति शेषः । हारीतो देशान्तरभाषया हरिल “तिलगिरू पक्षी " इति ख्यातः । हारितः इतीकारहस्खोऽपि । मद्भुः जलकाकः पाणकावळा इति ख्यातः । कारण्डवः करडुवा इति ख्यातः । अयं काकतुण्डो दीर्घ- पाद: कृष्णवर्णः । प्लवः पुडेरी “पाणकोंबडा" इति ख्यातः । प्लवः ल पुतौ कयौ । शब्दे कारण्डवे म्लेच्छजातौ मेलकभेकयोः । क्रमनिम्नमही- भागे कुलके जलवायसे । जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि” इति हेमचन्द्रः ॥ ३४ ॥ तित्तिरिः “ तित्तिरः” । “कपोतलावतित्तिराः" इति वाचस्पतिः । तितिर पक्षी इति प्रसिद्धः । कुकुभो वनकुक्कुट: लावो लता लावा पक्षी " इति प्रसिद्धः । जीवंजीवो मयूरतुल्यपत्रकः जीवं जीवयतीति जीवंजीवः । तदर्शनेन विषनाशनात् । जीवजीवो जिवाजिवश्चेत्यपि । चकोरकञ्चकोरः । योऽयं चन्द्रिकया तृप्यति । कोयष्टिक: कोंढा इति ख्यातः । टिट्टिमकः टिटि- भकः टिट्टभ इत्यपि । टिटवी इति ख्यातः । वर्तकश्चित्रपक्षः पक्षिभेदः “गांजीण पक्षी इति ख्यातः" । वर्तिका वटई “वनचटक" इति प्रसिद्धा । स्त्रियां वर्तकेत्यपि । आदिशब्दात् सारिका कपिञ्जलादयः । एकैकम् ॥ ३५ ॥ गरुत् पक्षः छदः पत्रं पतत्रं तनूरुहं षट् पक्षस्य | गरुतौ पक्षौ छदौ । “पक्षसी च स्मृतौ पक्षौ " इति शुभांकः । “गरुत्पक्षेतरौ छदम्" इति क्लीनकाण्डे बोपा- लितः । पक्षस्य मूलं पक्षतिरित्युच्यते । पक्षतीति ङीषन्तोऽपि एकम् । चक्षुः श्रोटि: द्वे पक्षितुण्डस्य | "चश्रूवशुस्तथा त्रोटि: " इति हलायुधः ॥ ३६ ॥ Digitized by Google