पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयं काण्डम्. समौ पतङ्गदालभो खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥ मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।। दिरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः ।। २९ ।। मयूरो बर्हिणो वहीं नीलकण्ठो भुजङ्गभुक् ॥ शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥ केका वाणी मयूरस्य समौ चन्द्रकमेचकौ || शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके ॥ ३१ ॥ खगे विहङ्गविहगविहङ्गमविहायसः ।। शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥ पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ॥ १२७ 28-32, रात्रौ अश्या सती स्वनति । तथा च प्रयोगः । “अदृश्यझिल्लीखनकर्णशूलै:" इति । समा इत्यनेन चतुष्टयमेककार्यकमित्युक्तम् । इमा इति स्त्रीत्वनिश्रयः । पतंगः शलभः द्वे टोळ "दीपपतंग " इति ख्यातस्य | खद्योतः ज्योतिरिङ्गणः द्वे खद्योतस्य "काजवा इति ख्यातस्य " ॥ २८ ॥ मधुव्रतः मधुकरः मधु- लिट् मधुपः अली द्विरेफः द्वौ रेफौ नाम्नि यस्य | अमरशब्दे प्रसिद्धिः । पुष्पलिट् भृङ्गः षट्पदः अमरः अलिः एकादश भ्रमरस्य । अमधुकरे मधुक- रशब्दो रूढः । मधु किरति विक्षिपतीति वा । मधुलिहौ । पुष्पलिहौ ॥ २९ ॥ मयूरः बर्हिणः बर्ही नीलकण्ठः भुजङ्गक शिखावल: शिखी केकी मेषनादा- नुलासी नव मयूरस्य । बर्हिणोऽदन्तः । वहीं इमन्तः । भुजंगभुजौ । शिख्यादि- त्रयमिनन्तम् । मेघनादमनुलसत्यवश्यं मघनादानुलासी ॥ ३० ॥ मयूरवाणी केकेत्युच्यते एकम् | चन्द्रक: मेचकः द्वे पिच्छस्य नेत्राकारचिहस्म | "बहि- कण्ठसमं वर्ण मेचकं ब्रुवते बुधाः" इति कात्यः । शिखा चूडा द्वे मयूरशिखा- याम् । शिखण्डः पिच्छं बई त्रीणि मयूरपिच्छस्य ॥ ३१ ॥ खगः । “खगः सूर्यग्रहे देवे मार्गणे च विहंगमे" इति कोशान्तरम् । विहंगः विहगः विहंगमः बिहायाः शकुन्तिः पक्षी शकुनिः शकुन्तः शकुन: द्विजः ॥ ३२ ॥ पतत्री पत्री पतगः । पतेन पक्षेण गच्छति । पतन् पत्ररथः अण्डज: नमौका' वाजी । Digitized by Google