पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

25-27 १२६ सटीकामर को शस्य [सिंहादिवर्गः हंसस्य योषिद्धरटा सारसस्य तु लक्ष्मणा ॥ २५ ॥ जंतुका जिनपत्रा स्यात्परोष्णी तैलपायिका || वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ २६ ॥ पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका || दंशी तजातिरल्पा स्याद्गन्धोली वरटाँ द्वयोः ॥ २७ ॥ भृङ्गारी झीरुका चीरी झिल्लिकां च समा इमाः || “शरातिः शरालिः शराली शराटिः शराडिः । आडि: शरालिर्वरटी गन्धोली वानरी कपी " इति स्त्रीलिङ्गकाण्डे रतकोशः । आटि: "आटी " आडिः "आडी " त्रयं स्त्रीलिङ्गम् । आडीति ख्यातस्य पक्षिणः । आटि: पुलिङ्गो- ऽपि कचित् । बलाका बिसकण्ठिका द्वे बालढोंक "बगळा" इति ख्यातस्य बकमेदस्य । बिसमिव दीर्घः कण्ठोऽस्याः बिसकष्ठिका | इंसस्य योषित् स्त्री वरटा स्यादित्येकम् । सारसस्य स्त्री तु लक्ष्मणेत्युच्यते । निर्मकारोऽपि । "लक्ष्म- णचैव सारसः" इत्यमरमाला । “लक्षणं नाम्नि चित्रे च सारसस्य तु लक्षणा" इति विश्वः । एकम् ॥ २५ ॥ जतुका “जतूका" अजिनपत्रा द्वे बटुरी “चाम- चिराई" इति ख्याते पक्षिभेदे । अजिनं चर्म तद्रूपे यत्रे पक्षौ यस्याः सा | परोष्णी “परोष्टी” । तैलपायिका द्वे पक्षयुक्ते कीटकविशेषे तेंलडुवा "वाघूळ" इति ख्याते । तैलं पिबतीव तैलपायिका । चत्वार्यपि अतुकाया इत्येके । वर्वणा " बर्षणा" मक्षिका “मक्षीका" नीला त्रयं मक्षिकायाः । सरघा मधुमक्षिका द्वे मक्षिकाभेदस्य " मधमाशी इति ख्यातस्य " ॥ २६ ॥ पतनिका पुसिका द्वे मधुमक्षिकाभेदस्य । इयं तु सरघातः क्षुद्रा यत्रिमितो मधुभेदः । माक्षिक तैलवर्ण स्याबृतवर्ण तु पौत्तिकमिति । दंशः वनमक्षिका द्वे "मोठी डांस रानमाशी " इति ख्यातस्य । तेषां दशानां जातिर्याऽल्पा सा दंशीत्युच्यते । एकं डांस इति ख्यातस्य । गन्धोली वरटा “वरटी"। “चरटा चरटी इंस्योस्तत्पतौ वरटः स्मृतः" इति तारपालः । द्वे वरटी “गांधी- णमाशी " इति ख्यातस्य । तत्र गन्धोली ढीषन्ता । वरटा स्त्रीपुंसयोः ॥ २७ ॥ भृङ्गारी शीरुका "झीरिका शिरुका झिरिका झिरीका" चीरी झिल्लिका "झिल्लीका शिल्लका चीलिका चिल्लका" चत्वारि झिल्ली मुरकूट चिलट इत्यादिख्यातस्य । झी इति रौति झीरुका । ची इति रौति बीरी | या हि Diglized by Google