पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५] 21-24 द्वितीयं काण्डम्. १२५ आतापिचिलो दाक्षाय्यगृध्रौ कीरशुकौ समौ ॥ २१ ॥ क्रुङ् क्रौथोऽथ बकः कहूँः पुष्कराह्वस्तु सारसः || कोकश्वकश्चक्रवाको रथाङ्गाह्वयनामकः ॥ २२ ॥ कादम्बः कलहंसः स्यादुत्कोशकुररौ समौ ।। हंसास्तु वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३ ॥ राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः ।। मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः ॥ २४ ॥ शरारिराटिराडिच बलाका बिसकण्ठिका || 44 दाक्षाय्यः गृधः द्वे गृध्रस्य गीध इति ख्यातस्य । दाक्षाय्य इति द्वितालव्यसं- युक्तान्त्यपाठः सर्वत्र दृश्यते । “दक्ष वृद्धौ शीघ्रार्थे च” । “ श्रुदक्षिस्पृहिगृहि " इत्याय्यः । दक्षाय्यः । “दक्षाय्यस्यायं अणू दाक्षाय्यः " । कीरः शुकः द्वे कीरस्य “रावा, राघु, पोपट इति ख्यातस्य " ॥ २१ ॥ क्रुङ् कौश: "कुश:" द्वे ठेक "कुरकुंचा" इति ख्यातस्य । तत्र क्रुङ् चान्तः । कुश्चौ । नकः कहः द्वे 'बगळा इति ख्यातस्य" । के जले हयते शब्दं कुरुते कहः । कङ्क इति पाठः अयं पाठः कुत्रास्तीति न दृश्यते । किंतु सर्वत्र कह इत्येव । पुष्कराह: सारसः द्वे सारसस्य । पुष्कराह: पद्मपर्यायनामकः । कोकः “कुक: " चक्रः चक्रवाकः रथाङ्गः चत्वारि चक्रवाकस्य | रथाङ्गस्य चक्रस्य ये आह्वयाः नामानि तनामकः ॥ २२ ॥ कादम्बः कलहंसः द्वे कलो मधुरवाक् च चासौ हंसथ तस्य बदक इति प्रसिद्धस्य | उत्क्रोशः कुररः द्वे कुररस्य कुररी इति प्रसिद्धस्य । हंसः । “ भवेद्वर्णागमाद्धंसः " | पृषोदरादिः । वेतग- रुत् चक्राङ्गः मानसौकः चत्वारि हंसस्य | बहुत्वविवक्षायां बहुवचनम् ।। २३ । ये सिताः देहेन शुक्लाः चक्षुचरणैर्लोहितैरुपलक्षिता हंसास्ते राजहंसाः स्युरि- त्येकम् । चञ्जुसहितावरणास्तैरिति विग्रहः । अन्यथा प्राण्यङ्गत्वादेकवचनं दुर्वारम् । लक्षणे तृतीया | हंसानां राजा राजहंसः । राजदन्तादिषु पाठात् परनिपातः । मलिनैरीपडूमैच शुचरणैस्ते सिता हंसा मल्लिकाक्षा इत्युच्यन्ते । एकम् । मलिकाकाराणि अक्षीणि येषां ते । मलिकाख्या इत्यपि । सिते- तरैः कृष्णवर्णैः चनुचरणैरुपलक्षितास्ते धार्तराष्ट्राः स्युः । धृतराष्ट्रे भवाः । ‘धृतराष्ट्रः सुराज्ञि स्यात्पक्षिक्षत्रियमेदयोः” इति रभसः । एकम् ॥ २४ ॥ शरारिः Digitized by Google बकस्य