पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

17-20 १२४ . सटीकामरकोशस्य चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः ॥ पुमपत्ये चाटकैररूयपत्ये चटकैव सा ॥ १८ ॥ कर्करेटुः करेटु स्यात्कृकणक्रकरौ समौ ॥ वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९ ॥ काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ॥ वांक्षामघोषपरभृदलिभुग्वायसा अपि ॥ २० ॥ (“ स एव च चिरंजीवी चैकदृष्टिश्च मौकुलिः ॥ " ) द्रोणकाकस्तु काकोलो दायूँहः कालकण्ठकः ।। [ सिंहादिवर्गः चातकः त्रीणि चातकस्य | कृकवाकु: ताम्रचूड: कुकुट: चरणायुधः चत्वारि कुक्कुटस्य " कोंबडें इति ख्यातस्य ” ॥ १७ ॥ चटकः कलविङ्कः द्वे चटकस्य “चिमणी इति ख्यातस्य” | तस्य चटकस्य स्त्री चटकेत्येकम् । तयोथटकस्य चटकायाश्च पुमपत्ये चाटकर इत्येकम् । तयोरुयपत्ये स्त्रीरूपेऽपत्ये चटकेत्येकम् ॥ १८ ॥ कर्करेटुः “ कर्करादुः " करेड: “करदु: " द्वे अनुभवादिनि पक्षि- भेदे कंकरेट "करढोंक पक्षी ” इति ख्याते । “करेड: कर्करेदुः स्यात्करडः कर्करादुकः” इति रमसः | कुकण: ऋकर द्वे क्ररक इति ख्यातस्य करेड- भेदस्य | "कृ इति कणति शब्दं करोति कृकेण कण्ठेन अणति शब्द करोति वा " | वनप्रियः परभृतः कोकिलः पिकः चत्वारि कोकिलस्य ॥ १९ ॥ काकः करटः अरिष्टः बलिपुष्टः सकृत्प्रजाः ध्वांक्षः आत्मघोषः परभृत् बलि- भुक् वायसः दश काकस्य । “चिरंजीवी एकदृष्टिः मौकुलिः मौकलिरपि" । एतदपि त्रयं काकस्य । परभृतौ । बलिभुजौ ॥ २० ॥ द्रोणकाकः काकोलः द्वे काकभेदस्य "डोंबकावळा कृष्णकावळा इति ख्यातस्य" । " द्रोणोऽस्त्रिया- माढके स्यादाढकादिचतुष्टये | पुमान् कृपीपतौ कृष्णकाके स्त्री नीवृदन्तरे" इति मेदिनी । “द्रोणः कृपीपतौ कृष्णकाके" इति विश्वप्रकाशः । “द्रोणकाको दग्धकाको वृद्धकाको वनाश्रयः” इति त्रिकाण्डशेषः । दात्यूहः " दात्यौह: " कालकंठकः द्वे डाहद “अन्धकाक जलकाक" इति ख्यातस्य | काले वर्षा- काले कण्ठोऽस्य कालकण्ठक: आतापी आतायी इमन्तः । “आतापिनि भवेचिल्लः" इति विश्वप्रकाशः । चिल्लः द्वे चिल्लस्य घार इति प्रसिद्धस्य । इदमर्ष वालपत्र पुस्तकेऽपि नास्ति । Diglized by Google