पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11-13 १२२ सटीकामरकोशस्य [ सिंहादिवर्गः ( "अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः ॥ " ) (१) उन्दुरुर्मूषकोऽप्याखुगिरिका बालमृषिका ।। सरटः कृकॅलासः स्यान्मुसली गृहगोधिका ।। १२ । लता स्त्री तन्तुवायोर्णनाभ मर्कटकाः समाः ।। नीलङ्गुस्तु कृमि: कर्णजलौकाँः शतपयुभे ॥ १३ ॥ वृश्चिकः शुक्रकीटः स्यादलिद्रोणौ तु वृश्चिके || वाच्या इत्यर्थः एकम् ॥ ११ ॥ अघोगन्ता खनकः वृकः पुंध्वजः उन्दुरः पश्च क्षेपक श्लोकगतनामानि मूषकस्य । उन्दुरु: मूषकः " इस्वोपधदीर्घोपघमु- षभूषधातुभ्यां कनि मुषकः मूषक इति द्वयम्" आखुः त्र्यं मूषकस्य । “उन्दुरुं- दुरुरुन्दर : " इति शब्दार्णवे। गिरिका बालमूषिका द्वे स्वल्पभूषकजातेः । “ खर्बाखुर्बालमूषिका " इति दुर्गः । छुछुन्दरी गन्धमुखी दीर्घतुण्डी दिवान्धिकेति श्लोका केचिदत्र पठन्ति । एतन्नामचतुष्टयं मूषकसदृशजातिविशिष्टस्य चिचुं- द्रीति ख्यातस्य । सरटः कुकलास: “कुकलाशः कुकुलासः । कृर्क शिरो ग्रीवा कण्ठं च लासयति" द्वे सरडा इति ख्यातस्य | मुसली गृहगोधिका "गृहगो- लिकेत्यपि पाठ: " द्वे गृहगोधाया: “पाल इति ख्यातायाः” । मुसति संशयं खण्डयति शुभाशुभसूचकत्वात् । मुसली ङीषन्ता | मुशलीति तालव्यमध्यापि । ज्येष्ठा स्त्री कुड्यमत्स्या च गृहगोधा गृहालिकेति कोशान्तरम् ॥ १२ ॥ लूता तन्तुवायः “तत्रवायः " ऊर्णनाभः ऊर्णेव तन्तुर्नाभौ यस्य | मर्कटकः चत्वारि ऊर्णनाभस्य "कोष्ठी कोळी इति ख्यातस्य । तत्र लूता नित्यं स्त्री | नीलङ्गः कृमि: क्रिमिः । “क्रिमिन कृमिवत्कीटे लाक्षायां कृमिले खरे" इति मेदिनी । "मामये भवेत्पुंसि कीटे च कृमिवत्क्रिमिः” इति रमसः । द्वे अपि पुंसि क्षुद्र- कीटमात्रस्य " कुसुरडा धुले इति ख्यातस्य ” । नीलामुरिति दीर्घमध्योऽपि । "नीलकुरपि नीलामुः” इति द्विरूपकोशः । कर्णजलौकाः शतपदी द्वे स्त्रीलिङ्गे । “कर्णजलूका" घोण, गोम वळोंजी इति ख्यातायाः । शतं पादा यस्याः सा । कर्णजलौका: सान्ता । कर्णजलूका कर्णजलौकेति च टाबन्तापि ॥ १३ ॥ वृश्चिकः शुक्रकीट: द्वे शुक्रकीटस्थ ऊर्णादिभक्षकस्य कसर इति ख़्यातस्य | शूकं शूकाकारं लोम तद्युक्तसर्वाङ्गः कीट: शूककीटः । अलिः “आलिः” । “वृश्चिको द्रुण आलि: स्यात्" इति बोपालितः । आली । “अथाली १ इदम तालपत्रपुस्तके पिनास्ति ॥ Digitized by Google