पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयं काण्डम्. कदली कन्दली चीनश्चमूरुप्रियकावपि ।। समरुश्चेति हरिणा अमी अजिनयोनयः ॥ ९ ॥ कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।। गोकर्णपृषतणर्यैरोहिताश्चमरो मृगाः ॥ १० ॥ गन्धर्वः शरभो रामः सृमरो गवयः शशः || इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥ १२१ 44 ऐणमित्युच्यते एकम् । उभे ऐणेयं ऐणं च त्रिषु स्पष्टम् || ८ || कदली कन्दली चीनः चमूरः प्रियकः समूरुः एते षट् हरिणभेदाः एकैकम् | कदलीकन्दल्यौ ङीषन्ते स्त्रियाम् । खामिमते तु इमन्तौ पुंसि । अभी षद् हरिणाः वक्ष्यमाणाः कृष्णसारादयश्च अजिनयोनय उच्यन्ते । यत एते चर्मण्युपयुक्ताः ॥ ९ ॥ कृष्ण- सारः “ कृष्णशारः” । कृष्णयासौ सारथ | "वर्णो वर्णेन" इति समासः । शारः शबलवातयोरिति तालव्यादौ रमसः । रुरुः न्यः रहुः शम्बरः शंवरः संवरः । शं वृणोति । वृञ् वरणे । रौहिषः “रोहिषः ” । “रोहिषं कतृणे ज्ञेयं रोहिषो हरिणान्तरे" इति विश्वप्रकाशः । गोकर्णः । “गोकर्णोऽश्वसरे सर्वे मृगभेदे गणान्तरे " इति हेमचन्द्रः | पृषतः एण: ऋश्य: “ऋष्य | एणः कुरंगमो रिष्यः स्यादृश्यश्चारुलोचने " इति त्रिकाण्डशेषात् तत्र रिष्योऽपि । रोहितः “लोहितः " चमरः एते द्वादश मृगाः मृगभेदाः एकैकम् । तत्र कृष्णसारः कृष्णवर्णेन मिश्रः कृष्णमृग इति ख्यातः । रुरुर्देशान्तरभा- वायां सुवार " रोहें" इति ख्यातः । न्यकुर्नागुण इति ख्यातः मेदः" । रकुः चिता चितळ जंडियार मृगविशेष इति ख्यातः । शम्बरः साम्बा "सांबर " इति ख्यातः । रौहिषः रोही इति ख्यातः । गोकर्ण: गाँव इति ख्यातः | पृषतः बिन्दुविशिष्टः पुषिव इति ख्यातः । एणचारुनेत्रः । ऋष्यः शीघ्रगामी । रोहितो रक्तवर्णः चमरचामरोषयोगिपुच्छः ॥ १० ॥ गन्धर्वः शरभः रामः सृमरः गवयः शशः एते षद् मृगमेदाः । शरभस्ताल- व्यादि: " । तत्र गन्धर्वो गन्धविशिष्ट: । शरभो लङीसरा इति प्रसिद्धः । रामो रमणीयरूपो मृगमेद: । सृमरः सरणशीलः | गवयः गवा इति ख्यातः । शशः ससा इति ख्यातः एकैकम् | इत्यादयः गन्धर्वादयः आदिशन्दादत्रा- नुक्ता बनपोतादयो ये च पूर्वोक्ता मृगेन्द्राद्याः सिंहाद्या श्रमरान्ताः ये च वर्गान्तरे वक्ष्यमाणा गवाद्याः गोहस्त्यश्वादयः ते सर्वे पशुजातयः पशुशब्द- 44 46 Digitized by Google