पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

433-126 सटीकामरकोशस्य [ वनौषधिवर्ग: तपस्विनी जटामांसी जटिला लोमशा मिशी ॥ त्वक्पत्रमुत्कटं शृङ्गं त्वचं चोचं वराङ्गकम् || १३४ || कर्पूरको द्राविडकः काल्पको वेघमुख्यकः ॥ ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५ ॥ शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः || विशल्यामिशिखानन्ता फलिनी शक्रपुष्पिका ॥ १३६ ॥ स्याहसँगन्धा छगलांत्र्यांवेगी वृद्धदारकः ।। ११० जटेति पृथक्पदं वा । यदाह । मांसी कृष्णजटा हिंसा नलदा जटिला मिसिः | जटा च पिशिनी पेशी क्रव्यादी च तपस्विनीति । त्वक्पत्रं उत्कटं भृङ्गं त्वचं चोचं वराङ्गकं षद् त्वक्पत्रस्य “दालचिनी " तज इति ख्यातस्य । “त्वक्त्वचचोचशब्दाः स्युर्वल्के चर्मणि पत्रके " इति धरणिः ॥ १३४ ॥ कर्पू- रकः “कर्बूरकः” द्राविडकः द्रविडदेशे जातः । तत्र जात इत्यण् | स्वार्थेकः । काल्पक: वेधमुख्यकः चत्वारि कचर इति ख्यातस्य हरिद्रामस्य | कल्पे भवः काल्पकः ओध्यमध्यः । “तालव्यमध्योऽपि ।" ओषध्य इति फल- पाकान्तानां श्रीह्मादीनां जातावेव ओषध्यः स्युः । ओषधिशब्दप्रयोगः स्यादि त्यर्थः । बहुत्वविवक्षायां बहुवचनं न तु नित्यम् । यदा तु ओषधेः रोगहार- स्वमात्रं प्रतीयते न त्वन्यत् तदा औषघशब्दप्रयोगः । “ओषधेरजातौ” इत्यण् । न केवलमोषधिरेवौषधशब्दवाच्या किंतु रोगहरत्वेन घृतक्षौद्र त्रिफलाकल्कादि चौषधमिति सर्वमिति विशेषणाज्ज्ञेयम् ॥ १३५ ॥ यत्पत्रपुष्पादि तच्छा- कसंज्ञकं एकं भोजनसाधनस्य पुष्पादे: । आदिना मूलादिग्रहः । उक्तं च । “मूलपत्रकरीराग्रफलकाण्डाधिरूटकम् || त्वक् पुष्पं कवचं चैव शाकं दशविधं स्मृतम्" इति । तत्र करीरं वंशांकुरः । काण्डमिक्षुदण्डादि । अधिरूढकं बीजां- क्कुरः | कवचं छत्राकम् । शेषं स्पष्टम् | तण्डुलीयः अल्पमारिषः द्वे तान्दळी “तांदुळजा " इति ख्यातस्य । विशल्या अमिशिखा अनन्ता फलिनी शक्रपुष्पिका पञ्चकमग्निशिखाया: “ कळलावी इति ख्यातायाः ” । शक्रो- अर्जुनतरुः तत्पुष्पमिव पुष्पं अस्याः शक्रपुष्पी ॥ १३६ ॥ ऋक्षगन्धा "ऋष्यगन्धा " छगलांत्री “छगलांघ्री छगलाण्डी छगलेति पृथक्पदं वा । “कागे तु छगलश्छागी वृद्धादारकयोः स्त्रियाम्" इत्यनेकार्थकोशः । आवेगी Diglized by Google