पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] द्वितीय काण्डम्. जुङ्गो ब्राह्मी तु मत्स्याक्षी वयस्था सोमवल्लरी ॥ १३७ ॥ पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती ॥ हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥ १३८ ।। तुण्डिकेंरी रक्तफला बिम्बिका पीलुपर्ण्यपि || बर्बरा कबरी तुझी खरपुष्पा जगन्धिका || १३९ ॥ एलापर्णी तु सुवहा रात्रा युक्तरसा च सा || चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका || १४० ।। सहस्रवेषी चुक्रोऽलवेतसः शतवेध्यपि ॥ नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि ॥ १४१ ।। 137-141 वृद्धदारकः । वृद्धो दारकोऽस्मात् । वृद्धत्वं दारयति वा वृद्धदारकः । वृद्धेति भावप्रधानम् । जुङ्गः पश्च वृद्धदारकस्य "वरधारा, जीर्णफंजी इति ख्यातस्य ।" ब्राझी मत्स्याक्षी वयस्था सोमबल्लरी "सोमवल्लारः" चत्वारि सोमलतायाः। “यस्याः शुक्लपक्षे पर्णान्युद्भवंति कृष्णे च पतन्ति सा सोमवल्ली | सैव सोमवल्लरी" ॥ १३७ । पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती चत्वारि स्वर्णमीर्याः "पिसोळा इति ख्याताया: ' । हयपुच्छी काम्बोजी भाषपर्णी महासहा चत्वारि माषपर्ण्याः रानउडीद इति ख्यातायाः ॥ १३८ || तुण्डिकेरी “तुण्डिकेशी" रक्तफला निंबिका पीलुपर्णी चत्वारि तुण्डिकेर्या तोंडली इति ख्यातायाः । बर्बरा “वर्षरा वर्वरी" । "वर्वरः पामरे केशे चक्रले नी- दन्तरे । फञ्जिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियाम्" इति मेदिनी | कबरी “कवरी " तुंगी खरपुष्पा अजगंधिका “ अजगंधेत्यन्यत्र " | पश्च वर्षरी “तिळवणी कानफोडी" इति ख्यातस्य शाकमेदस्य ॥ १३९ ।। एलापर्णी सुवहा रास्त्रा युक्तरसा चत्वारि एलापर्म्याः कोलिंदण इति ख्यातायाः । चाङ्गेरी चुक्रिका दन्तशठा अम्बष्ठा अम्ललोणिका "अम्ललोलिका " प अम्ललोणिकायाः चुका इति ख्यातायाः || १४० ॥ सहस्रवेधी चुक्रः अम्लवेतसः शतवेधी चतुष्कमम्लवेतसस्य । चार्यादयो नव पर्याया इत्यपि मतम् । नमस्कारी गण्डकारी “गण्डकाली" समङ्गा खदिरा चत्वारि लजालु “लाजाळू" इति प्रसिद्धायाः ओषधेः ॥ १४१ ॥ जीवन्ती Digitized by Google