पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

107449 १०४ सटीकामरकोशस्य [ वनौषधिवर्गः सर्वानुभूतिः सरला त्रिपुटाँ त्रिवृता त्रिवृत् || त्रिभण्डी रोचंनी श्यामापालिन्यौ तु सुषेणिका ॥ १०८ ॥ काला मसूरविदलार्धचन्द्रा कालमेषिका || मधुकं क्लीतकं यष्टिमंधुकं मधुयष्टिका ।। १०९ ।। विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री तु या सिता || अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका ॥ ११० ।। लाङ्गली-शारदी तोयपिप्पली शकुलादनी ॥ खरवा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥ 66 सरला "सरणा" त्रिपुटा “त्रिपुटी" | "सर्वानुभूतिः सरणा त्रिपुटा रोचनी सरा | त्रिपुटी महती श्यामा " इति वाचस्पतिः | त्रिवृता त्रिवृत् त्रिभण्डी रोचनी “रेचनी त्रिवृतादन्त्योः" इति मेदिनी । सत त्रिष्टतायाः “तेंडू, श्वेत- निशोत्सर इति च ख्यातायाः” । श्यामा पालिन्दी "पालिन्धी " सुषेणिका । १०८ ॥ काला मसूरविदला अर्धचन्द्रा कालमेषिका सत कृष्णवर्णायांन्ति तामाः 'काळा तेंडू, निशोत्तर, निगडी, सिधारें इति ख्यातायाः " पि" । लीतकं यष्टिमधुकं “यष्टीमधुक" मधुयटिका चत्वारि यष्टिमधुकस्य गोडे- कोष्ट " ज्येष्ठमध" इति ख्यातस्य ।। १०९ ॥ विदारी क्षीरशुक्ला इक्षुगन्धा क्रोष्टी चत्वारि शुलभूमिकोहोळें इति ख्यातस्य । या सिता शुक्ला विदारी- त्यन्वयः । क्षीरविदारी महाश्वेता ऋक्षगन्धिका | ऋक्षान् गन्धयति । “गन्ध अर्दने" । यद्वा ऋक्षस्येव गन्धो यस्याः । त्रीणि कृष्णभूमिकूष्माण्डस्य | अन्येति सितायाः अन्या कृष्णेत्यर्थः । “क्रोष्ट्री शृगालिका कृष्णविदारी लाङ्ग- लीषु च " इति मेदिन्यां कृष्णविदारीत्युक्तत्वात् । या सितेत्यत्रासितेति पदच्छेदे मेदिन्यविरोधेन पूर्व नामचतुष्कं कृष्णभूकूष्माण्डस्य । क्षीरेति त्रयं शुक्लभूक- ष्माण्डस्येति वा । असिताया अन्या शुक्लेत्यर्थः ।। ११० । लाङ्गली शारदी तोगपिप्पली शकुलादनी चत्वारि शाकमेदस्य “मोगुड जळपिंपळी" इति ख्यातस्स ! खराश्वा कारवी दीप्य: मयूरः लोचमस्तकः “लोचमर्कट: " पश्च मयूरशिखायाः भोरशेंडा इति ख्यातायाः । “अजमोदा इत्यपि मतम् " ।। १११ ।। गोपी अजादित्वाट्टाप् । गोपा । “गोपी श्यामा गोपवली गोपा गोपालिका च सा " इति वाचस्पतिः । श्यामा शारिवा “सारिना " Diglized by Google