पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i 2103 - 107 द्वितीयं काण्डम्. १०३ वृषोष्टरूषः सिंहास्यो वासको वाजिदन्तकः ॥ १०३ ॥ आस्फोटा गिरिकर्णी स्याद्विष्णुकान्ताऽपराजिता ॥ इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः ॥ १०४ ॥ शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिर्सिः || मिश्रेयाप्यथ सीहुण्डो वज्रः क्षुक्र स्त्री मुँही गुडाँ ॥ १०५ ॥ समन्तदुग्घाऽथो वेल्लममोषा चित्रतण्डुला || तण्डुलश्र कृमिनश्च विडङ्गं पुंनपुंसकम् || १०६ || बला वाट्यालका घण्टारवा तु शणपुष्पिका ॥ भृद्धीका गोस्तैनी द्राक्षा खादी मधुरसेति च ॥ १०७ ॥ सिंहास्यः वासकः वाजिदन्तकः अष्टकं अटरूषस्य अडुळसा इति ख्यातस्य ।। १०३ ।। आस्फोटा "आस्फोसा" । "आस्फोता गिरिकर्व्यां च वनमल्लयां योषिति" इति मेदिनी गिरिकर्णी विष्णुक्रान्ता अपराजिता चत्वारि विष्णु- कान्तायाः । इक्षुगन्धा काण्डेक्षुः कोकिलाक्षः इक्षुरः क्षुरः पञ्च कोकिला- क्षस्य कोळसुन्दा “तालिमखान्याचे वीं कोलिस्ता" इति ख्यातस्य ॥ १०४ ।। शालेयः शीतशिवः छत्रा मधुरिका मिसिः । “मिसी मिशि: मिशी” । मिशी मिशिरिति तालव्यांत आह सोमनन्दी । मिश्रेया पई मधुरिकायाः "बडि- शेप " इति ख्यातायाः । सीहुण्ड: । "वज्रब्रुमः सिहुण्डोऽथ " इति रभसात् खादिरपि । शीहुण्ड इति तालव्यादिरपि । वज्रः सुक् सुही कुहि बुहा। "सुही बुहा सुग्" इत्यमरदत्तः । गुडा "गुडी" | "गुडो गोलेक्षु- विकृती बुहीगुडिकयोर्गुडा" इति रुद्रः ॥ १०५ ॥ समन्तदुग्धा षद् वज्रद्रुमस्य “शेरनिवडुङ्ग” इति ख्यातस्य । तत्र शुक् हकारान्तः स्त्री । "वज्रदु: बुक् जुही गुडेति पाठ : " । बेल्ल अमोघा "मोघापि” । “कृमिघ्नं तण्डुलं मोघा " इति बाचस्पतिः | चित्रतण्डुला तण्डुलः तन्तुलः । तन्तुं कृमिसूत्रं लाति । कृमितः बिडङ्गं पई विडङ्गस्य, वावडिंग इति ख्यातस्य ॥ १०६ ॥ बला वाट्यालका द्वे तुपकडी "चिकणा" इति ख्यातस्य । घण्टारवा शणपुष्पिका द्वे शत्रु- ष्पिकायाः । 'लघुताग इति घागरी इति चेत्येके" मुझीका गोस्तनी "गोल्लना " द्राक्षा खाद्वी मधुरसा पक्ष द्राक्षायाः || १०७ ॥ सर्वानुभूतिः Diglized by Google