त्सुके जाते सति प्रजापतेरिमे प्राजापत्याः । ब्रह्मपुत्रा इत्यर्थः । तपस्विनो मुनयः परिग्रहैः पत्नीभिर्व्रीडाम्, गार्हस्थ्यनिमित्तामित्यर्थः। 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । जहुस्तत्यजुः । जहातेर्लिटि रूपम् । न हि समानगुणदोषेषु ब्रीडागमोऽस्तीति भावः ॥ ३४ ॥
ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् ।
भगवानपि संप्राप्तः प्रथमोद्दिष्टमा२स्पदम् ॥ ३५ ॥
तत इति ॥ ततोऽनन्तरं मुनिमण्डलं मुनिसमूहः परममित्युक्त्वा 'ओम्' इत्युक्त्वा, अनुमन्येत्यर्थः । अव्ययमेतत् । 'ओमेवं परमं मतम्' इत्यमरः । प्रतस्थे । भगवानीश्वरोऽपि प्रथमोद्दिष्टं पूर्वसंकेतितमास्पदं स्थानं महाकोशीप्रपातं संप्राप्तः ॥ ३५॥
ते चा३काशमसिश्याममुत्पत्य परमर्पयः ।
आसेदुरोपधिप्रस्थं मनसा समरंहसः ॥ ३६॥
त इति ॥ मनसा समरंहसो मनस्तुल्यवेगास्ते परमर्षयश्च । पूर्वश्लोकोक्तेश्वरसमुच्चयार्थश्चकारः । असिवच्छ्यामं नीलमाकाशं खं प्रत्युत्पत्यौषधिप्रस्थं हिमवत्पुरमासेदुः, सद्यः प्रापुरित्यर्थः ।। ३६ ॥
इतः परं दशभिः श्लोकैरोषधिप्रस्थमेव वर्णयति-
अलकामतिवाह्यै४व वसतिं वसुसंपदाम् ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् ॥ ३७॥
अलकामिति ॥ वसुसंपदा धनसमृद्धीनां वसति स्थानमलकां कुबेरनगरीमतिवाह्य । परिच्छिद्येति यावत् । उपनिवेशितमिव स्थितम् । तथा स्वर्गस्याभिष्यन्दोऽतिरेकः । अतिरिक्तजन इति यावत् । तस्य वमनं निःसारणं कृत्वोपनिवेशितमिव स्थितम् । उभयत्रापि कौटिल्य:-'भूतपूर्वमभूतपूर्व वा जनपदं परदेशापवाहेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्' इति । अलकामरावत्यतिशयितसमृद्धिकमित्यर्थः ॥ ३७ ॥
पाठा०-१ प्रमाणम्. २ आश्रमम्. ३ अथ. ४ इव. ५ विनिवेशितम्.
९ कु० सं०