वसन्तसेना—को उण सो?। [ कः पुनः सः?।]
चेटी—एसो ज्जेव राअस्सालो संठाणओ। [एष एव राजश्यालः संस्थानकः।]
वसन्तसेना—(सक्रोधम्) अवेहि मा पुणो एव्वं भणिस्ससि। [अपेहि, मा पुनरेवं भणिष्यसि।]
चेटी—पसीददु पसीददु अज्जआ । संदेसेण1 म्हि पेसिदा । [प्रसीदतु प्रसीदत्वार्या । संदेशेनास्मि प्रेषिता ।]
वसन्तसेना—अहं संदेस2स्स ज्जेव कुप्पामि । [अहं संदेशस्यैव कुप्यामि।]
चेटी—ता किंति अत्तं विण्णविस्सं ? । [ तत्किमिति मातरं विज्ञापयिष्यामि ? ।।
वसन्तसेना—एव्वं विण्णाविदव्वा-जइ मं जीअंतीं इच्छसि, ता एव्वं ण पुणो अहं अत्ताए आण्णाविदव्वा' । [ एवं विज्ञापयितव्या— 'यदि मां जीवन्तीमिच्छसि, तदैवं न पुनरहं मात्राऽऽज्ञापयितव्या' ।]
चेटी—जधा दे रोअदि। [यथा ते रोचते।] (इति निष्क्रान्ता)
(प्रविश्य)
शर्विलकः—
दत्त्वा निशायां वचनीयदोषं निद्रां च जित्वा नृपतेश्च रक्ष्यान्। |
अपि च,—
यः कश्चित्त्वरितगतिर्निरीक्षते मां |
विण्णविस्से विज्ञापयिष्यामि॥ दत्त्वेति॥१॥ य इति। त्वरितगतिः कश्चित्
टिप्प०— यथा संदेशस्तथा मयोक्तम्, मम नास्त्यत्र दोष इति भावः । यतः
प्रभवो हि संदेशहारिणे न कुप्यन्ति। 2 अत्र 'संदेसस्स' इति चतुर्थ्यर्थे षष्ठी ।