विकिस्रोतः:विकिप्रकल्पः-शास्त्रमन्थनम्

विकिस्रोतः तः

शास्त्रमन्थनप्रकल्पे भवतां स्वागतम् । अस्मिन् प्रकल्पे विविधसंस्कृतविश्वविद्यालयैः शोधसंस्थाभिश्च प्रकाशितानि शास्त्रसम्बद्धानि शोधपत्राणि संस्कृतविकिस्रोतसि एकत्रीक्रियन्ते । शास्त्रीयाः विषयाः अन्तर्जालमाध्यमेन विरलतया एव प्राप्यन्ते । शास्त्रेषु निहिताः बहवः गम्भीरविषयाः संस्कृतशोधकर्तृभिः महता परिश्रमेण संशोध्य शोधपत्ररूपेण समर्पितानि सन्ति । तानि विविधैः विश्वविद्यालयैः प्रकाशितानि सन्ति । विश्वविद्यालयानां ग्रन्थालयेषु संरक्षितानि तानि शोधपत्राणि सर्वैः प्राप्तुम् अशक्यानि । अनेन प्रकल्पेन तानि संस्कृतविकिस्रोतसि आनीयन्ते येन शास्त्रविषयाः सकलजनलभ्याः भवन्ति । अस्य प्रकल्पस्य यशसः प्राप्त्यर्थम् अत्र सर्वे सविनयं निवेद्यन्ते यत् स्वीयम् अमूल्यं योगदानं कुर्वन्तु इति । भागग्रहणे इच्छुकाः सर्वे अत्र स्वनाम योजयन्तु । विषयेऽस्मिन् अधिकावगमनाय चर्चापृष्ठे लिखन्तु ।

कार्ययोजना[सम्पाद्यताम्]

प्रकल्पस्य प्रथमः घट्टः २०१५ तमस्य वर्षस्य जनवरीमासतः जुलैमासपर्यन्तं भविष्यति । अस्मिन् घट्टे दक्षिणभारते विद्यमानानाम् अधोलिखितानां ६ संस्कृतविश्वविद्यालयानां/पाठशालानाञ्च सम्पर्कः क्रियते ।

  1. राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः, आन्ध्रप्रदेशः
  2. श्री शङ्कराचार्य संस्कृत सर्वकलाशाला, कालडि, केरलम्
  3. श्री चन्द्रशेखरेन्द्र सरस्वती विश्व महाविद्यालय, काञ्चीपुरम्, तमिळनाडु
  4. पूर्णप्रज्ञाविद्यापीठम्, बेङ्गलूरु, कर्णाटकम्
  5. श्रीमन् माध्वसिद्धान्त प्रबोधिनी पाठशाला, उडुपि, कर्णाटकम्
  6. राष्ट्रियसंस्कृतसंस्थानम्, राजीवगान्धि परिसरः, शृङ्गेरी, कर्णाटकम्
  • एतैः विश्वविद्यालयैः प्रकाशितानि शोधपत्राणि सङ्गृह्य, विषयशः वर्गीकृत्य, व्यवस्थितरूपेण संस्कृतविकिस्रोतसि प्रकाशनाय सज्जीक्रियन्ते ।
  • चितानां शोधपत्राणां लेखकानां सम्पर्कं संसाध्य अनुमतिः प्रार्थ्यते ।
  • सज्जीकृतानां शोधपत्राणाम् उट्टङ्कनं, परिशोधनञ्च कृत्वा विश्वविद्यालयस्य, लेखकस्य च नामोल्लेखपूर्वकं विकिस्रोतसि प्रकाशयिष्यन्ते ।

प्रकल्पपरिणामाः[सम्पाद्यताम्]

  • षण्मासाभ्यन्तरे (जुलै २०१५) त्रिसहस्राधिकानि (३०००) शोधपत्राणि विकिस्रोतसि प्रकाशितानि स्युः । अनेन प्राथमिकलक्ष्यं साधितं स्यात् ।
  • उपरि निर्दिष्टेषु विश्वविद्यालयेषु विकिपीडियाप्रशिक्षणवर्गाः सञ्चाल्यन्ते । अनेन अनेकेषां संस्कृतज्ञानां सक्रिययोगदानं संस्कृतविकिप्रकल्पेषु दरीदृश्येत ।