सदस्यः:Shinde Ganesh Ramkishan
अध्यापक गुणाः ( शैक्षिक प्रबन्धनम्)
भारतीयग्रन्थेषु आचार्याणाम् अध्यापकानां निम्नलिखितानां केषांचन गुणानां वर्णनं कृतं विद्यते यथा :-
*1. आचार्यः पिता -* आचार्यस्य पितृत्वेन वर्णनं विदधीतं वर्तते अयं बालकः शिष्यत्वेन जनयति इति। माता-पितरौ केवलं शिशोः अस्थिमांसात्मकं शरीरमेव जनयतः परं तु आचार्यः बालकं विद्यया जनयति। कथनस्य अयमाशयः यत् बालकस्य मानसिक तथा आध्यात्मिक जन्म विदधाति। तस्य विचारधारां नूतनतया निर्माति। परिवेशैः समायोजनं कर्तुं वांंछिताद्विशिं निर्दिशति उपदेशप्रदानेन।
- 2. आचार्यः मृत्युः, कालः, यमः -*
कठोपनिषदि आचार्यस्य नाम 'यम:' इति उल्लिखितमस्ति उक्तं चापि अथर्ववेदे "आचार्यो मृत्युः" अर्थात् आचार्यः एव मृत्यु भवति। अत्रापि भावोऽयं वर्तते यत् आचार्यस्य सन्निधौ तिष्ठतः शिष्यस्य नूतनं जन्म संभवति। तेन आचार्यस्य नूतन दयानन्दस्य जनिः जाता।
- 3.आचार्यः वरुणः -*
उच्यते वरुणत्वेन आचार्यः अथर्वेवेदे- वरुणः जलस्य देवता, जलस्य कर्म भवति परिष्करणं, सम्मार्जनं, प्रक्षालनम्। वयं जलेन वस्त्राणि क्षालयामः, एवमेव आचार्यः शिष्यस्य पापानि, कुसंस्काराणि ज्ञानाम्बुभिः प्रक्षालयति नवीनसंस्कारैश्च संस्कारयति शिष्यम्।
- 4. आचार्यः सोमः, औषधयः तथा पयः -*
अथर्ववेदस्य ब्रह्मचर्यसूक्तौ कथितमस्ति यत् - "आचार्यः सोमः, औषधयः, पयः" सोमस्य अर्थः चन्द्रमा। चन्द्रमा स्वकीय विमल ज्योत्सनाभिः शान्तिं वितनोति प्राणिनां हृदयेषु। इत्थम् आचार्योऽपि शान्तिम् आनन्दं च विस्तारयति अतः आचार्यः सोमो भवति। अज्ञानव्याधेः निवारकत्वात् । एवं च मानसिक पुष्टिं कारयति इति हेतोः अयं पयः तुल्यः।
- 5. आचार्यः ब्रह्मचारी स्यात्*
अथर्ववेदस्य उपर्युक्तासु सूक्तिषु " आचार्यः ब्रह्मचारी, ब्रह्मचारी प्रजापतिः" अर्थात् सर्वे शिक्षकाः ब्रह्मचारिनः स्युः। सर्वे राज्याधिकारिणः प्रजापालनकर्मसु नियुक्ताः पुरुषाः अपि ब्रह्मचारिनः भवेयुः। अत्र ब्रह्मचारिनः इत्यस्य शब्दस्य विवाहसंस्काररहिताः पुरुषाः इति नैव मन्तव्य किन्तु विवाहोपरान्तं कश्चन् ऋतुगामी भवति चेदपि कदाचिदस्य ब्रह्मचारित्वं तथैव तिष्ठति। परं तु कश्चन् अध्यापकः राज्याधिकारी भ्रष्टाचारी, स्वार्थी, लोभी भवति तस्य ब्रह्मचारित्वं नश्यति। अतः एव ब्रह्मचारिनः भवेयुः।
- 6. आचार्यः स्नेहास्याधारः -*
आगच्छति गुरुकुले छात्राः विद्याप्राप्तिहेतवे। गुरुकुले आगमनसमये माता-पित्रोः विच्छेदे बालकस्य मनसि कदाचिद् खेदः समुदेति उदासीनता समायाति। बालकस्य एवं खेदान उदासीनताश्च अपाकर्तुं पितरौ तं वदतः " आपः त्वा अरिरन्" ( यजु. 6. 18) अपि पुत्रः आचार्यस्य स्नेह प्रेम प्रीतयः भवन्तं प्रेरयेयुः।