सदस्यः:शर्मा सोनू

विकिस्रोतः तः

अधिगम‌‌:- अधिगम:एष:प्रक्रिया अस्ति, यया मानवस्य व्यवहारे स्थाई परिवर्तनं भवति। बालक: जन्मसमये निस्सहाय: भवति। स्व आवश्यकतानां पूर्त्यर्थं से: सदैव मातरि आश्रित: भवति। गच्छता कालेन ज्ञानेन्द्रियेषु चेतनाशक्ति: प्रबला भूत्वा विविधा:प्रतिक्रिया:करोति।येन वातावरणे सामञ्जस्य संपादयति। तदाधारेण स्व व्यवहारे परिवर्तनों आनयति। इत्थं अनुभवै: व्यवहार परिवर्तनमेव अधिगम:इति कथ्यते। ज्ञानस्य कौशलानाम् अभिवृत्तीनाम् आचाराणान्चप्राप्ति: अपि अधिगम:। इमाम् अधिगमप्रक्रियाम् अनुभव: परिपक्वता च अत्यन्तं प्रभावयत:। यथा- लघुबालक: दीपं दृष्ट्वा हस्तेन तं गृहीतुं प्रयतते,तस्य हस्त: ज्वलति तथा पीडामनुभवति । अनेन अनुभवेन से:भविष्ये न कदापि दीपं स्पृशति। विद्यालये कक्ष्याप्रकोष्ठेषु च शिक्षकस्य प्रमुख कर्तव्यं छात्रेषु अधिगमसंपादनम्।अत:शिक्षका: अधिगमस्य स्वरुपं अवश्यमेव जानीयु: स्किनरमहोदयानुसारेण- व्यवहारे उत्तरोत्तर सामञ्जस्यप्रक्रिया एव अधिगम:। वुडवर्थ - नूतनज्ञानस्य नूतनप्रतिक्रियाणाञ्च प्राप्तिप्रक्रिया अधिगम: वर्तते । क्रो तथा क्रो - आचाराणां ज्ञानस्य अभिवृत्तीनाञ्च प्राप्तिरेव अधिगम: अस्ति।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:शर्मा_सोनू&oldid=338094" इत्यस्माद् प्रतिप्राप्तम्