सदस्यः:राहुलः गमारा
कथाकुसुमम्
अम्बिकादत्तव्यासः
प्रथमकथा
कश्चित् ग्रामीणो गच्छन् मार्गे पतितमेकं मुक्ताफलं प्राप। स तु तद् हस्तेन उत्थाप्य मम क्षेत्रे कोटिशो यवाः सन्ति इति किमेकेन मुक्ताफलेन इत्यक्ता पुनः प्रक्षिप्य प्रचलितः।
ज्ञातार एव जानन्ति सततं गुणिनां गुणान् हालिको[१] न विजानाति मुक्तामूल्यं कथञ्चन।
[१] हालिक:- हलग्राही
द्वितीयकथा
कस्मिंश्चिद् वने दावाग्नि[१] मालोक्य भौतो मृगः पलायितः कस्यचिद् व्याधस्य जाले निपपात। दैवात् तस्मान्निस्सृतः कस्यचिद् भल्लूकस्य कन्दरं प्रविष्टः। तेन व्यापाद्यमान[२] स्ततोऽपि पलायितः कस्मिंश्चित् कूपे निपतितः।
भाग्यहीनो यत्र याति यान्ति तत्रैव चापदः।
[१] दावाग्नि = वनाग्निम्। [२] व्यापाद्यमान = नायमानः।
तृतीयकथा
कस्याश्चिन्नद्याः प्रवाहे कोऽपि भल्लूकः[१] पतितो जलवेगेन नीयते स्म । तं कम्बलं मत्वा कोपि ग्राम्यः सोत्फालं[२] जले पापात गत्वा च तं जग्राह। तावद् भल्लूकेनापि स गृहीतः प्राणसंशयमापेदे। तावत् तटे तिष्ठता केनापि तस्य मित्रेण कथितम् । "अलं कम्बलेन तं त्यक्त्वैव समागच्छ" ततस्ते नोक्तम् "अहं तु कम्बलं त्यजामि किं तु अयमेव मां न त्यजति?'"॥ भ्रमादपि तु दुष्टानां सङ्ग यः कुरुते जनः । असमर्थः पुनस्त्युक्तं तचैव विनिहन्यते ।
[१] भल्लूकः = [२] सोत्फालम् =
चतुर्थकथा
कस्यचिद् वृकस्य दृष्टयां किञ्चिदस्थिखण्डं लग्नमासीत्। तस्य निसारणाय स कञ्चित् मयूरं प्रार्थयामास यत् ‘यदि भवान् मम दृष्टयां तिर्यक् प्रविष्टमस्थिखण्डं खचञ्चानिः सारयेत् तदऽहं किंचित् पारितोषिकं दद्याम्"। स तु मयूरः पारितोषिकलोभेन तस्य मुखे स्वशिरः प्रवेश्य चञ्चा अस्थिखण्डं निस्ह्मार्य तस्य व्यथां[१] शमयित्वा[२] पारितोषिकं ययाचे । ततः स भर्त्सयित्वा अवदत् "मूर्ख मम मुखं प्रविश्यापि तव शिरः कुशलेन निर्गतं किमत: परं याचसे ?”
दुष्टहस्ते पतित्वा यः कुशीन निवर्तते । स हि तस्य महालाभः किमन्यैः पारितोषिकैः॥
पञ्चमकथा
कस्मिश्चित् कुञ्जै लखाआनान् द्राक्षागुच्छान् भौक्तुं कापि उल्कामुखो चिरमुत्यतन्त्यपि ग्रहीतु न शशाक। ततः परावर्तमाना केनचित् शशकेन पृष्टा ‘ मित्र, अपि भुक्ता द्राक्षाः ?” सा उवाच “ तिक्ताः सन्ति इति परित्यक्ता: " यत्प्राप्तुं नैव शक्नोति तह्दूषयति बालिशः।
षष्ठकथा
कश्चिद् दरिद्रो वृद्धो वनात् काष्ठभारमानयन् अतिश्रान्तः क्वाचिद् वृक्षतले उपविष्टः खिन्न उवाच "अहो अतिदुःखितोऽस्मि कदा मे मृत्युरायास्यति?” अथ तावदकस्मात् तस्य समीपे भयङ्करमुखो मूर्तिमान् मृत्युरुपस्थित उवाच च “कथय, आयातोस्मि किं कथयसि?" ततः स भयभीत उवाच "अहो न किमपि, केवलममं भारं मे शिरसि स्थापय” इति ।
किंचिद् दुःखहतः पूर्वं मृत्युं वाञ्छति मानवः। दैवान्मृत्यौ समायाते ततो दूरं पलायते। [जीविताशा दुरत्यया]
सप्तमकथा
कस्यचिद् गेहे एकः पक्षी आसीत् । तस्य विष्ठायां सुवर्णमुत्पद्यते । तदध्यक्षेण तु विचारितं यत् “किं स्वल्पसुवर्णलाभेन अमुमेकदैव हत्वा एतस्य उदरस्थं सर्वें सुवर्ण प्राप्स्यामि ? अथ तेन तं हत्वा तस्य उदरे मांसरुधिराद्यतिरिक्तं किमपि न प्राप्तम् । ततो रुदित्वा भूमौ पतितः ॥
असन्तुष्टो जनो यस्तु करोति महतीं तृषाम् । दूरे तस्य महालाभो लब्धेनापि स हीयते ॥
अष्टमकथा
कश्चित् पथिको गच्छन् मार्गारुह्य, स्थितं कञ्चिद् गद्दर्भ ददर्श । स तु अञ्जखिं वह, वारं वारमुक्तवान् ‘भद्र एकतो भव, मयि गते पुनरेवं स्थास्यसि प्रसीद' । परन्तु गर्द्दभस्तमवलोक्यापि तथैव स्थितः। यदातुतेन दण्डमुत्थाप्य बलेन ताड़ितः, तदा मार्गंत्यक्त्वा सपदि अपससार ।
‘मूर्खाणामौषध दण्ड:'
नवमकथा
कश्चिद् बकः कस्यचिद् हंसस्य मुखात् मानससरोवरस्य बहुप्रशंसां श्रृत्वाप्रष्टुमारब्ध वान् कथ्यतां तच किं किमस्तीति । हंस उवाच "तत्र अमृतमिव जलमस्ति, मणिमयानि सोपानानि सन्ति, मधुरगन्धीनि च कमलानि सन्ति।" ततो बकः स्मित्वा उवाच "तत्र शम्बूकाः सन्ति न वा?" हंसेनोक्तं ‘नहि' । ततो बक: सहीहौकारं जहास ॥
महतां महिमा मुर्खैर्न कदाप्यवगम्यते । अतो दोषमदृष्टै व हास्यं सफलयन्ति ते ॥
दशमकथा
कोपि जनः आम्रफलानि कदा भक्षयिष्यामि इति चिन्तयन् तेषामेव माधुर्यं स्मरन्नासीत् । तावत् अकस्मात् केनापि पथिकेन पृष्टः "भोः द्वे पञ्च दश च संकलितानि कति भवन्ति ?” । स आह "सप्तदश आम्राणि” ॥
यस्य चित्तं यच लग्नं तदेव स तु बोधति ।