सदस्यः:कुमार उमेश

विकिस्रोतः तः

भोजराजस्य परिचयः

चम्पूरामायणस्य प्रणेता भोजः परमारवंशीयः क्षत्रिय आसीत् । अस्मिन् वंशे सर्वप्रथमः उपेन्द्रनामको राजा बभूव , यस्य काल : ८०० ईस्वीतः ८३५ ईस्वीं यावदासीत् । अयं मालवाप्रदेशस्य शासक आसीत् । स्ववंशस्य प्रशंसायां सरस्वतीकण्ठाभरणनामके ग्रन्थे भोजराजः स्वयमेव लिखति -
' वासिष्ठैः सुकृतोद्भवोऽध्वरशतै रस्त्यग्निकुण्डोद्भवो  भूपालः परमार इत्यधिपतिः सप्ताव्धिकाञ्चेर्भुवः । अद्याप्यद्भुतहर्षगद्गदगिरो गायन्ति यस्योद्भटं विश्वमित्रजयोजितस्य भुजयोविस्फूजितं गुर्जराः ' ॥ इति ।
क्षत्रियाणां चत्वारो भेदाः सन्ति - परमारः , प्रतिहारः , चालुक्यः चाहमानश्च । इमे चत्वारः स्ववंशम् अग्नेरुद्भूतं स्वीकुर्वन्ति । अस्मिन् परमारवंशे एव भोजः स्वजनि लेभे । राज्ञो भोजस्य काल : १०१ ९ ई ० स्वीक्रियते । 

भोजस्य तृतीयं ताम्रपत्रं 'एपिग्राफिया इण्डिका ' निबन्धे च प्रकाशितं निम्नं वर्त्तते - 'श्रीमतो भोजदेवस्य ताम्रपत्रम् -

ओं जयति व्योमकेशोऽसौ यः सर्गाय बिभर्ति ताम् ।
ऐन्दवीं शिरसा लेखां जगबीजाङ्कुराकृतिम् ॥ 

तन्वन्तु वः स्मराराते : कल्याणमनिशं जटाः । कल्पान्तसमयोद्दामतडिद्विलयपिङ्गलाः ॥ परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीसीयकदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीवाक्पतिराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीसिन्धुराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीभोजदेवः कुशलीस्थलीमण्डलेघाघ्रदोरभोगान्तः पातिवटपद्रके समुपगतान् समस्तराजपुरुषान् ब्राह्मणोत्तरान् प्रतिनिवासिजपदादींश्च समादिशत्यस्तु वः संविदितं यथाऽस्माभिः कोङ्कणविजयपर्वणि स्नात्वा चराचरगुरुं भगवन्तं भवानीपति समभ्यर्च्य संसारस्यासारतां दृष्ट्वा -

वाताभ्रविभ्रममिदं वसुधाधिपत्य-
 मापातमात्रमधुरो विषयोपभोगः | प्राणास्तृणाग्रजलबिन्दुसमा नराणां 

धर्मः सखा परमहो परलोकयाने ।।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:कुमार_उमेश&oldid=337417" इत्यस्माद् प्रतिप्राप्तम्