हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ००२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००१ हरिवंशपुराणम्
अध्यायः ००२
वेदव्यासः
अध्यायः ००३ →
कंसस्य देवकीगर्भविनाशस्य प्रयत्नम्, विष्णुना पाताललोके स्थितानां षड्गर्भ संज्ञकानां दैत्यानां जीवानां आकर्षणं कृत्वा तान् निद्रां देव्यां दानं, तान् देवक्याः गर्भे स्थापनस्य आदेशम् च, कार्यसाधनानन्तरं वर्धनशीलायाः तस्याः देव्याः महिमाकथनम्

द्वितीयोऽध्यायः

वैशम्पायन उवाच
सोऽज्ञापयतसंरब्धः सचिवानान्मनो हि तान् ।
यत्ता भवत सर्वे वै देवक्या गर्भकृन्तने ।। १ ।।
प्रथमादेव हन्तव्या गर्भास्ते सप्त एव हि ।
मूलादेव तु हन्तव्यः सोऽनर्थो यत्र संशयः ।। २ ।।
देवकी च गृहे गुप्ता प्रच्छन्नैरभिरक्षिता ।
स्वैरं चरतु विश्रब्धा गर्भकाले तु रक्ष्यताम् ।। ३ ।।
मासान् वै पुष्पमासादीन्गणयन्तु मम स्त्रियः ।
परिणामे तु गर्भस्य शेषं ज्ञास्यामहे वयम् ।। ४ ।।
वसुदेवस्तु संरक्ष्यः स्त्रीसनाथासु भूमिषु ।
अप्रमत्तैर्मम हितै रात्रावहनि चैव हि ।
स्त्रीभिर्वर्षवरैश्चैव वक्तव्यं न तु कारणम् ।। ५ ।।
एष मानुष्यको यत्नो मानुषैरेव साध्यते ।
श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते ।। ६ ।।
मन्त्रग्रामैः सुविहितैरौषधैश्च सुयोजितैः ।
यस्तेन चानुकूलेन दैवमप्यनुलोम्यते ।। ७ ।।
वैशम्पायन उवाच
एवं स यत्नवान् कंसो देवकीगर्भकृन्तने ।
भयेन मन्त्रयामास श्रुतार्थो नारदात्स वै ।। ८ ।।
एवं श्रुत्वा प्रयत्नं वै कंसस्यारिष्टसंज्ञितम् ।
अन्तर्धानं गतो विष्णुश्चिन्तयामास वीर्यवान् ।। ९ ।।
सप्तेमान् देवकीगर्भान् भोजपुत्रो वधिष्यति ।
अष्टमे च मया गर्भे कार्यमाधानमात्मनः ।। 2.2.१० ।।
तस्य चिन्तयतस्त्वेवं पातालमगमन्मनः ।
यत्र ते गर्भशयनाः षड्गर्भा नाम दानवाः ।। ११ ।।
विक्रान्तवपुषो दीप्तास्तेऽमृतप्राशनोपमाः ।
अमरप्रतिमा युद्धे पुत्रा वै कालनेमिनः ।। १२ ।।
ते ताततातं संत्यज्य हिरण्यकशिपुं पुरा ।
उपासांचक्रिरे दैत्याः पुरा लोकपितामहम् ।। १३ ।।
तप्यमानास्तपस्तीव्रं जटामण्डलधारिणः ।
तेषां प्रीतोऽभवद् ब्रह्मा षड्गर्भाणां वरं ददौ ।। १४ ।।
ब्रह्मोवाच
भो भो दानवशार्दूलास्तपसाहं सुतोषितः ।
ब्रूत वो यस्य यः कामस्तस्य तं तं करोम्यहम् ।। १५ ।।
ते तु सर्वे समानार्था दैत्या ब्रह्माणमब्रुवन् ।
यदि नो भगवान् प्रीतो दीयतां नो वरो वरः ।। १६ ।।
अवध्याः स्याम भगवन् दैवतैः समहोरगैः ।
शापप्रहरणैश्चैव स्वस्ति नोऽस्तु महर्षिभिः ।। १७ ।
यक्षगन्धर्वपतिभिः सिद्धचारणमानवैः ।
मा भूद् वधो नो भगवन्ददासि यदि नो वरम्।। १८
तानुवाच ततो ब्रह्मा सुप्रीतेनान्तरात्मना ।
भवद्भिर्यदिदं प्रोक्तं सर्वमेतद् भविष्यति ।। १९ ।।
षड्गर्भाणां वरं दत्त्वा स्वयम्भूस्त्रिदिवं गतः ।
ततो हिरण्यकशिषुः सरोषो वाक्यमब्रवीत् ।। 2.2.२० ।।
मामुन्मृज्य वरो यस्माद्धृतो वः पद्मसम्भवात्।
तस्माद् वस्त्याजितः स्नेहः शत्रुभूतांस्त्यजाम्यहम्।२१।।
षङ्गर्भा इति योऽयं वः शब्दः पित्राभिवर्धितः ।
स एव वो गर्भगतान् पिता सर्वान्वधिष्यति ।। २२ ।।
षडेव देवकीगर्भे षड्गर्भा वै महासुराः ।
भविष्यथ ततः कंसो गर्भस्थान्वो वधिष्यति ।। २३ ।।
वैशम्पायन उवाच
जगामाथ ततो विष्णुः पातालं यत्र तेऽसुराः ।
षङ्गर्भाः संयताः सन्ति जले गर्भगृहेशयाः ।। २४ ।।
संददर्श जले सुप्तान् षड्गर्भान् गर्भसंस्थितान्।
निद्रया कालरूपिण्या सर्वानन्तर्हितान्स वै ।। २५ ।।
स्वप्नरूपेण तेषां वै विष्णुर्देहानथाविशत्।
प्राणेश्वरांश्च निष्कृष्य निद्रायै प्रददौ तदा ।। २६ ।।
तां चोवाच ततो निद्रां विष्णुः सत्यपराक्रमः ।
गच्छ निद्रे मयोत्सृष्टा देवकीभवनान्तिकम् ।। २७ ।।
इमान्प्राणेश्वरान् गृह्य षड्गर्भान् दानवोत्तमान् ।
षङ्गर्भान् देवकोगर्भे योजयस्व यथाक्रमम् ।। २८ ।।
जातेष्वेतेषु गर्भेषु नीतेषु च यमक्षयम्।
कंसस्य विफले यत्ने देवक्याः सफले श्रमे ।। २९ ।।
प्रसादं ते करिष्यामि मत्प्रभावसमं भुवि ।
येन सर्वस्य लोकस्य देवि देवी भविष्यसि ।। 2.2.३० ।।
सप्तमो देवकीगर्भो योंऽशः सौम्यो ममाग्रजः ।
स संक्रामयितव्यस्ते सप्तमे मासि रोहिणीम् ।। ३१ ।।
संकर्षणात्तु गर्भस्य स तु संकर्षणो युवा ।
भविष्यत्यग्रजो भ्राता मम शीतांशुदर्शनः।।३२
पतितो देवकीगर्भः सप्तमोऽयं भयादिति ।
अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति ।। ३३ ।।
या तु सा नन्दगोपस्य दयिता भुवि विश्रुता ।
यशोदा नाम भद्रं ते भार्या गोपकुलोद्वहा ।। ३४ ।।
तस्यास्त्वं नवमो गर्भः कुलेऽस्माकं भविष्यसि ।
नवम्यामेव संजाता कृष्णपक्षस्य वै तिथौ ।। ३५ ।।
अहं त्वभिजितो योगे निशायां यौवने स्थिते ।
अर्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम् ।। ३६ ।।
अष्टमस्य तु मासस्य जातावावां ततः समम् ।
प्राप्स्यावो गर्भव्यत्यासं प्राप्ते कंसस्य नाशने ।। ३७ ।।
अहं यशोदां यास्यामि त्वं देवि भज देवकीम् ।
आवयोर्गर्भसंयोगे कंसो गच्छतु मूढताम् ।। ३८ ।।
ततस्त्वां गृह्य चरणे शिलायां पातयिष्यति ।
निरस्यमाना गगने स्थानं प्राप्स्यसि शाश्वतम्।। ३९ ।।
मच्छवीसदृशी कृष्णा संकर्षणसमानना ।
बिभ्रती विपुलौ बाहूपमौ दिवि ।। 2.2.४० ।।
त्रिशिखं शूलमुद्यम्य खड्गं च कनकत्सरुम् ।
पात्रीं च पूर्णं मधुना पङ्कजं च सुनिर्मलम् ।। ४१ ।।
नीलकौशेयसंवीता पीतेनोत्तरवाससा ।
शशिरस्मिप्रकाशेन हारेणोरसि राजता ।। ४२ ।।
दिव्यकुण्डलपूर्णाभ्यां श्रवणाभ्यां विभूषिता ।
चन्द्रसापत्नभूतेन मुखेन त्वं विराजिता ।। ४३ ।।
मुकुटेन विचित्रेण केशबन्धेन शोभिना ।
भुजङ्गाभैर्भुजैर्भीमैर्भूषयन्ती दिशो दश ।। ४४।।
ध्वजेन शिखिबर्हेण उच्छ्रितेन विराजता ।
अङ्गजेन मयूराणामङ्गदेन च भास्वता ।। ४५ ।।
कीर्णा भूतगणैर्घोरैर्मन्नियोगानुवर्तिनी ।
कौमारं व्रतमास्थाय त्रिदिवं त्वं गमिष्यसि ।। ४६ ।।
तत्र त्वां शतदृक्छक्रो मत्प्रदिष्टेन कर्मणा ।
अभिषेकेण दिव्येन दैवतैः सह योक्ष्यसे ।। ४७ ।।
तत्रैव त्वां भगिन्यर्थे ग्रहीष्यति स वासवः ।
कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि ।। ४८ ।।
स ते विन्ध्ये नगश्रेष्ठे स्थानं दास्यति शाश्वतम् ।
ततः स्थानसहस्रैस्त्वं पृथिवीं शोभयिष्यसि ।। ४९ ।।
त्रैलोक्यचारिणी सा त्वं भुवि सत्योपयाचना ।
चरिष्यसि महाभागे वरदा कामरूपिणी ।। 2.2.५० ।।
तत्र शुम्भनिशुम्भौ द्वौ दानवौ नगचारिणौ ।
तौ च कृत्वा मनसि मां सानुगौ नाशयिष्यसि ।। ५१।।
कृत्वानुयात्रां भूतैस्त्वं सुरामांसबलिप्रिया ।
तिथौ नवम्यां पूजां त्वं प्राप्स्यसे सपशुक्रियाम् ।। ५२ ।।
ये च त्वां मत्प्रभावज्ञाः प्रणमिष्यन्ति मानवाः ।
तेषां न दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ।। ५३ ।।
कान्तारेष्ववसन्नानां मग्नानां च महार्णवे ।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ।। ५४।।
त्वां तु स्तोष्यन्ति ये भक्त्या स्तवेनानेन वै शुभे ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।। ५५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि भारावतरणे निद्रासंविज्ञाने द्वितीयोऽध्यायः ।। २ ।।