हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः १२२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२१ हरिवंशपुराणम्
अध्यायः १२२
वेदव्यासः
अध्यायः १२३ →

द्वाविंशत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच
ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः ।
बन्दिमागधसूतानां स्तवैश्चापि सहस्रशः ।। १ ।।
स तून्मुखैर्जयाशीर्भिः स्तूयमानो हि मानवैः ।
बभार रूपं सोमार्कशुक्राणां प्रतिमं तदा ।। २ ।।
अतीव शुशुभे रूपं व्योम्नि तस्योत्पतिष्यतः ।
वैनतेयस्य भद्रं ते बृंहितं हरितेजसा । ३ ।।
अथाष्टबाहुः कृष्णस्तु पर्वताकारसंनिभः ।
विबभौ पुण्डरीकाक्षो विकाङ्क्षन् बाणसंक्षयम् ।। ४ ।।
असिचक्रगदाबाणा दक्षिणं पार्श्वमास्थिताः ।
चर्म शार्ङ्गं तथा वज्रं शङ्खं चैवास्य वामतः ।। ५ ।।
शीर्षाणां वै सहस्रं तु विहितं शार्ङ्गधन्वना ।
सहस्रं चैव कायानां वहन् संकर्षणस्तदा ।। ६ ।।
श्वेतप्रहरणोऽधृष्यः कैलास इव शृङ्गवान् ।
प्रस्थितो गरुडेनाथ उद्यन्निव निशाकरः ।। ७ ।।
सनत्कुमारस्य वपुः प्रादुरासीन्महात्मनः।
प्रद्युम्नस्य महाबाहोः संग्रामे विक्रमिष्यतः।।८।।
स पक्षबलविक्षेपैर्विधुन्वन् पर्वतान् बहून् ।
जगाम मार्गे बलवान् वातस्य प्रतिषेधयन् ।। ९ ।।
अथ वायोरतिगतिमास्थाय गरुडस्तदा ।
सिद्धचारणसंघानां शुभं मार्गमवातरत् ।। 2.122.१० ।।
अथ रामोऽब्रवीद् वाक्यं कृष्णमप्रतिमं रणे ।
स्वाभिः प्रभाभिर्हीनाः स्म कृष्ण कस्मादपूर्ववत्।। ११ ।।
सर्वे कनकवर्णाभाः संवृत्ताः स्म न संशयः ।
किमिदं ब्रूहि नस्तत्त्वं किं मेरोः पार्श्वगा वयम् ।। १२ ।।
श्रीभगवानुवाच
मन्ये बाणस्य नगरमभ्यासस्थमरिंदम ।
रक्षार्थं तस्य निर्यातो वह्निरेष स्थितो ज्वलन् ।। १३ ।।
अग्नेराहवनीयस्य प्रभया स्म समाहताः ।
तेन नो वर्णवैरूप्यमिदं जातं हलायुध ।। १४ ।।
श्रीराम उवाच
यदि स्म संनिकर्षस्था यदि निष्प्रभतां गताः ।
तद् विधत्स्व स्वयं बुद्ध्या यदत्रानन्तरं हितम् ।। १५ ।।
श्रीभगवानुवाच
कुरुष्व वैनतेय त्वं यच्च कार्यमनन्तरम् ।
त्वया विधाने विहिते करिष्याम्यहमुत्तमम् ।। १६ ।।
वैशम्पायन उवाच
एतच्छ्रुत्वा तु गरुडो वासुदेवस्य भाषितम् ।
चक्रे मुखसहस्रं हि कामरूपी महाबलः ।। १७ ।।
गङ्गामुपागमत् तूर्णं वैनतेयो महाबलः ।
आप्लुत्याकाशगङ्गायामापीय सलिलं बहु ।। १८ ।।
प्रववर्षोपरि गतो वैनतेयः प्रतापवान् ।
तेनाग्निं शमयामास बुद्धिमान् विनतात्मजः ।। १९ ।।
अग्निराहवनीयस्तु ततः शान्तिमुपागमत्।
तं दृष्ट्वाहवनीयं तु शान्तमाकाशगङ्गया ।
परमं विस्मयं गत्वा सुपर्णो वाक्यमव्रवीत् ।। 2.122.२० ।।
अहो वीर्यमथाग्नेस्तु यो दहेद् युगसंक्षये ।
यथेह वर्णवैरूप्यं चक्रे कृष्णस्य धीमतः ।। २१ ।।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ।
कृष्णः संकर्षणश्चैव प्रद्युम्नश्च महाबलः ।।२२ ।।
ततः प्रशान्ते दहने सम्प्रतस्थे स पक्षिराट् ।
स्वपक्षबलविक्षेपं कुर्वन् घोरं महास्वनम् ।। २३ ।।
तं दृष्ट्वा विस्मयं तत्र रुद्रस्यानुचराग्नयः ।
आस्थिता गरुडं ह्येते नानारूपा भयावहाः ।। २४ ।।
किमर्थमिह सम्प्राप्ताः के वापीमे जनास्त्रयः ।
निश्चयं नाधिगच्छन्ति ते गिरिव्रजवह्नयः ।। २५ ।।
प्रावर्तयंश्च संग्रामं तैस्त्रिभिः सह यादवैः ।
तेषां युद्धप्रसक्तानां संनादः सुमहानभूत्।। २६ ।।
तं च श्रुत्वा महानादं सिंहानामिव गर्जताम्।
अथाङ्गिराः स्वपुरुषं प्रेषयामास बुद्धिमान्।।२७।।
यत्र तद् वर्तते युद्धं तत्र गच्छस्व मा चिरम् ।।
दृष्ट्वा तत् सर्वमागच्छ इत्युक्तः प्रहितस्त्वरन्।।२८।।
तथेत्युक्त्वा स तद् युद्धं वर्तमानमवैक्षत ।
अग्नीनां वासुदेवेन संसक्तानां महामृधे ।। २९।।
ते जातवेदसः सर्वे कल्माषः कुसुमस्तथा ।
दहनः शोषणश्चैव तपनश्च महाबलः ।। 2.122.३०।।
स्वाहाकारस्य विषये प्रख्याताः पञ्च वह्नयः ।
अथापरे महाभागाः स्वैरनीकैर्व्यवस्थिताः।।३१।।
पिठरः पतगः स्वर्णः श्वागाधो भ्राज एव च।
स्वधाकाराश्रयाः पञ्च अयुध्यंस्तेऽपि चाग्नयः ।। ३२ ।।
ज्योतिष्टोमविभागौ च वषटकाराश्रयौ पुनः ।
द्वावग्नी सम्प्रयुध्येते महात्मानौ महाद्युती ।। ३३ ।।
आग्नेयं रथमास्थाय शरमुद्यम्य भास्वरम्।
तयोर्मध्येऽङ्गिराश्चैव महर्षिर्विबभौ रणे ।। ३४ ।।
स्थितमङ्गिरसं दृष्ट्वा विमुञ्चन्तं शिताञ्छरान् ।
कृष्णः प्रोवाच संक्रुद्धः स्मयन्निव पुनः पुनः ।। ३५ ।।
तिष्ठध्वमग्नयः सर्वे एष वो विदधे भयम् ।
ममास्त्रतेजसा दग्धा दिशो यास्यथ विद्रुताः ।
अथाङ्गिरास्त्रिशूलेन दीप्तेन समधावत ।। ३६ ।।
आददान इव क्रोधात्कृष्णप्राणान् महामृधे ।
त्रिशूलं तस्य दीप्तं तु चिच्छेद परमेषुभिः ।
अर्धचन्द्रैस्तथा तीक्ष्णैर्यमान्तकनिभोपमैः ।। ३७ ।।
स्थूणाकर्णेन बाणेन दीप्तेन स महामनाः ।
विव्याधान्तकतुल्येन वक्षस्यङ्गिरसं ततः ।। ३८ ।।
रुधिरौघप्लुतैर्गात्रैरङ्गिरा विह्वलन्निव ।
विष्टब्धगात्रः सहसा पपात धरणीतले ।। ३९ ।।
शेषास्ततोऽग्नयः सर्वे चत्वारो ब्रह्मणः सुताः।।
आवाहयंस्तदा शीघ्रं बाणस्य पुरमन्तिकात्।।2.122.४०।।
अथागमत् ततः कृष्णो यत्र बाणपुरं ततः ।
अथ बाणपुरं दृष्ट्वा दूरात् प्रोवाच नारदः ।। ४१ ।।
एतत् तच्छोणितपुरं कृष्ण पश्य महाभुज ।
अत्र रुद्रो महातेजा रुद्राण्या सहितोऽवसत् ।। ४२ ।।
गुहश्च बाणगुप्त्यर्थं सततं क्षेमकारणात् ।
नारदस्य वचः श्रुत्वा कृष्णः सम्प्रहसन् ब्रवीत्।। ४३ ।।
क्षणं चिन्तयतामत्र श्रूयतां च महामुने ।
यदि वावतरेद् रुद्रो बाणसंरक्षणं प्रति ।। ४४ ।।
शक्तितो वयमप्यत्र सह योत्स्याम तेन वै ।
एवं विवदतोस्तत्र कृष्णनारदयोस्तदा ।। ४५ ।।
प्राप्ता निमेषमात्रेण शीघ्रगा गरुडेन ते ।
ततः शङ्खं समाधाय वदने पुष्करेक्षणः ।। ४६ ।।
वायुवेगसमुद्भूतो मेघश्चन्द्रमिवोद्गिरन् ।
ततः प्रध्माप्य तं शङ्खं भयमुत्पाद्य वीर्यवान् ।। ४७ ।।
प्रविवेश पुरं कृष्णो बाणस्याद्भुतकर्मणः ।
ततः शङ्खप्रणादैश्च भेरीणां च महास्वनैः ।। ४८ ।।
बाणानीकानि सहसा संनह्यन्त समन्ततः ।
ततः किंकरसैन्यं तु व्यादिष्टं समरे भयात् ।। ४९ ।।
कोटिशश्चापि बहुशो दीप्तप्रहरणास्तदा ।
तदसंरुयेयमेकस्थं महाभ्रघनसंनिभम् ।। 2.122.५० ।।
नीलाञ्जनचयप्रख्यमप्रमेयमथाक्षयम् ।
दीप्तप्रहरणाः सर्वे दैत्यदानवराक्षसाः ।। ५१ ।।
प्रमाथगणमुख्याश्च अयुध्यन् कृष्णमव्ययम्।
सर्वतस्तैः प्रदीप्तास्त्रैः सार्चिष्मद्भिरिवाग्निभिः ।। ५२ ।
अभ्युपेत्य तदात्युग्रैर्यक्षराक्षसकिन्नरैः ।
पीयते रुधिरं तेषां चतुर्णामपि संयुगे ।।५३।।
तद् बलं तु समासाद्य बलभद्रो महाबलः ।
प्रोवाच वचनं तत्र परस्य बलनाशनः ।। ५४ ।।
कृष्ण कृष्ण महाबाहो विधत्स्वैषां महद् भयम् ।
इति संचोदितः कृष्णो बलभद्रेण धीमता ।। ५५ ।।
तेषां वधार्थमाग्नेयं जग्राह पुरुषोत्तमः ।
अस्त्रमस्त्रविदां श्रेष्ठो यमान्तकसमप्रभः ।
प्रविधूयासुरगणान् क्रव्यादानस्त्रतेजसा ।। ५६ ।।
प्रययौ त्वरया युक्तो यत्र दृश्येत तद् बलम् ।
शूलपट्टिशशक्त्यृष्टिपिनाकपरिघायुधम् ।। ५७ ।।
प्रमाथगणभूयिष्ठं बलं तदभवत् क्षितौ ।
शैलमेघप्रतीकाशैर्नानारूपैर्भयानकैः ।
वाहनैः संघशः सर्वे योधास्तत्रावतस्थिरे ।। ५८ ।।
वातोद्भूतैरिव घनैर्विप्रकीर्णैरिवाचलैः ।
शुशुभे तत्र बहुलैरनीकैर्दृढधन्विभिः ।। ५९ ।।
मुसलैरसिभिः शूलैर्गदाभिः परिघैस्तथा ।
अबाधं तदसंख्येयं शुशुभे सर्वतो बलम् ।। 2.122.६० ।।
ततः संकर्षणो देवमुवाच मधुसूदनम् ।
कृष्ण कृष्ण महाबाहो यदेतद् दृश्यते बलम् ।
श्रीकृष्ण उवाच ममाप्येषैव संजाता बुद्धिरित्यब्रवीच्च तम् ।
एतैः सह रणे योद्धुमिच्छामि पुरुषोत्तम ।। ६१ ।।
ममाप्येषैव संजाता बुद्धिरित्यब्रवीच्च तम्।
एभिः सह रणे योद्धुमिच्छेयं योधसत्तमैः।।६२।।
युद्ध्यतः प्राङ्मुखस्यास्तु सुपर्णो वै ममाग्रतः ।
सव्यपार्श्वे तु प्रद्युम्नस्तथा मे दक्षिणे भवान् ।
रक्षितव्यमथान्योन्यमस्मिन् घोरे महामृधे ।। ६३ ।।
वैशम्पायन उवाच
एवं ब्रुवन्तस्तेऽन्योन्यमधिरूढाः खगोत्तमम् ।
गिरिशृँङ्गनिभैर्घोरैर्गदामुसललाङ्गलैः ।।६४ ।।
युध्यतो रौहिणेयस्य रौद्रं रूपमभूत् तदा ।
युगान्ते सर्वभूतानां कालस्येव दिधक्षतः ।। ६५।।
आकृष्य लाङ्गलाग्रेण मुसलेनावपोथयत् ।
चचारातिबलो रामो युद्धमार्गविशारदः ।। ६६ ।।
प्रद्युम्नः शरजालैस्तान् समन्तात् पर्यवारयत् ।
दानवान्पुरुषव्याघ्रो युद्धयमानान्महाबलः ।। ६७ ।।
स्निग्धाञ्जनचयप्रख्यः शङ्खचक्रगदाधरः ।
प्रध्माय बहुशः शङ्खमयुध्यत जनार्दनः ।। ६८ ।
पक्षप्रहारनिहता नखतुण्डाग्रदारिताः ।
नीता वैवस्वतपुरं वैनतेयेन धीमता ।। ६९ ।।
तैर्हन्यमानं दैत्यानामनीकं भीमविक्रमम् ।
अभज्यत तदा संख्ये बाणवर्षसमाहतम् ।। 2.122.७० ।।
भज्यमानेष्वनीकेषु त्रातुकामः समभ्ययात्।
ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।। ७१ ।।
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ।
नदन् मेघसहस्रेण तुल्यो निर्घातनिःस्वनः ।। ७२ ।।
निःश्वसञ्जृम्भमाणश्च निद्रान्विततनुर्भृशम् ।
नेत्राभ्यामाकुलं वक्त्रं मुहुः कुर्वन् भ्रमन् मुहुः ।।७३।।
संहृष्टरोमा ग्लानाक्षो भग्नचित्त इव श्वसन् ।
हलायुधमभिक्रुद्धः स्राक्षेपमिदमब्रवीत् ।। ७४ ।।
किमेवं बलमत्तोऽसि न मां पश्यसि संयुगे ।
तिष्ठ तिष्ठ न मे जीवन मोक्ष्यसे रणमूर्धनि । ७५ ।।
इत्येवमुक्त्वा प्रहसन् हलायुधमुपाद्रवत्।
युगान्ताग्निनिभैर्घोरैर्मुष्टिभिर्जनयन् भयम् ।। ७६ ।।
चरतस्तत्र संग्रामे मण्डलानि सहस्रशः ।
रौहिणेयस्य शीघ्रेण नावस्थानमदृश्यत ।। ७७ ।।
तस्य भस्म तदा क्षिप्तं ज्वरेणाप्रतिमौजसा ।
शैघ्र्याद् वक्षो निपतितं शरीरे पर्वतोपमे ।। ७८ ।।
तद् भस्म वक्षसस्तस्य मेरोः शिखरमागमत् ।
प्रदीप्तं पतितं तत्र गिरिशृङ्गं व्यदारयत् ।। ७९ ।।
शेषेण चापि जज्वाल भस्मना कृष्णपूर्वजः ।
निःश्वसञ्जम्भमाणश्च निद्रान्विततनुर्भृशम् ।। 2.122.८० ।।
नेत्रयोराकुलत्वं च मुहुः कुर्वन् भ्रमंस्तथा ।
संहृष्टरोमा ग्लानाक्षः क्षिप्तचित्त इव श्वसन् ।। ८१ ।।
ततो हलधरो भग्नः कृष्णमाह विचेतनः ।
कृष्ण कृष्ण महाबाहो प्रदीप्तोऽस्म्यभयं कुरु ।। ८२ ।।
दह्यामि सर्वतस्तात कथं शान्तिर्भवेन्मम ।
इत्येवमुक्ते वचने बलेनामिततेजसा ।। ८३ ।।
प्रहस्य वचनं प्राह कृष्णः प्रहरतां वरः ।
न भेतव्यमितीत्युक्त्वा परिष्वक्तो हलायुधः ।। ८४ ।।
कृष्णेन परमस्नेहात् ततो दाहात् प्रमुच्यत ।
मोक्षयित्वा बलं तत्र दाहात् तु मधुसूदनः ।। ८५ ।।
प्रोवाच परमक्रुद्धो वासुदेवो ज्वरं तदा।
श्रीभगवानुवाच
एह्येहि ज्वर युध्यस्व या ते शक्तिर्महामृधे ।। ८६ ।।
यच्च ते पौरुषं सर्वं तद् दर्शयतु नो भवान् ।
सव्येतराभ्यां बाहुभ्यामेवमुक्तो ज्वरस्तदा ।। ८७ ।।
चिक्षेपैनं भस्म ज्वालागर्भ महाबलः ।
ततः प्रदीप्तगात्रस्तु मुहूर्तमभवत् प्रभुः ।। ८८ ।।
कृष्णः प्रहरतां श्रेष्ठः शमं चाग्निर्गतस्ततः ।
ततस्तैर्भुजगाकारैर्बाहुभिस्तु त्रिभिस्तदा ।। ८९ ।।
जघान कृष्णं ग्रीवायां मुष्टिनैकेन चोरसि ।
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः ।। 2.122.९० ।।
ज्वरस्य तु महायुद्धे कृष्णस्य तु महौजसः ।
पर्वतेषु पतन्तीनामशनीनामिव स्वनः ।। ९१ ।।
कृष्णज्वरभुजाघातैर्युद्धमासीत् सुदारुणम् ।
नैवमेवं प्रहर्तव्यमिति तत्र महास्वनः ।
मुहूर्तमभवद् युद्धमन्योन्यं तु महात्मनोः ।। ९२ ।।
ततो ज्वरं कनकविचित्रभूषणं
न्यपीडयद् भुजयुगलेन संयुगे ।
जगत्क्षयं समुपनयञ्जगत्पतिः
शरीरधृग् गगनचरं महामृधे ।। ९३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कृष्णज्वरयुद्धे द्वाविंशत्यधिकशततमोऽध्यायः ।। १२२ ।।