हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०६९

विकिस्रोतः तः
← अध्यायः ०६८ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०६९
[[लेखकः :|]]
अध्यायः ०७० →
कश्यपाय अदितये देवेभ्यश्च भगवतः विष्णोः वरदानं, अदितेः गर्भात् प्राकट्यम्

एकोनसप्ततितमोऽध्यायः

वैशम्पायन उवाच
नारायणस्तु भगवाञ्छ्रुत्वैतत् परमं स्तवम् ।
ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम् ।। १ ।।
स्निग्धगम्भीरनिर्घोषजीमूतस्वननिःस्वनम् ।
मनसा प्रीतियुक्तेन विबुधानां महात्मनाम् ।। २ ।।
उवाच वचनं सम्यग् हृष्टपुष्टपदाक्षरम् ।
आकाशाच्छुश्रुवे शब्दो दर्शनं नोपलभ्यते ।
श्रीमान् प्रीतमना देवः प्रोवाच प्रभुरीश्वरः ।। ३ ।।
विष्णुरुवाच
प्रीतोऽस्मि वः सुरश्रेष्ठाः सर्वे मत्तो विनिश्चयम् ।
वरं वृणुत भद्रं वो वरदोऽस्मि सुरोत्तमाः ।। ४ ।।
कश्यप उवाच
यदैव भगवान् प्रीतः सर्वेषाममरोत्तमः ।
तदैव कृतकृत्याः स्म त्वं हि नः परमा गतिः ।। ५ ।।
यदि प्रसन्नो भगवान् दातव्यो वा वरो यदि ।
वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः ।
अदित्यां वामनः श्रीमान् भगवानस्तु वै सुतः ।। ६ ।।
वैशम्पायन उवाच
अदितिर्देवमाता च एतमेवार्थमुत्तमम् ।
पुत्रार्थे वरदं प्राह भगवन्तं वरार्थिनी ।। ७ ।।
अदितिरुवाच
याचे त्वां पुत्रकामा वै भवान् पुत्रो भवत्विति ।
निःश्रेयसाय सर्वेषां देवानां हि महात्मनाम् ।। ८ ।।
देवा ऊचुः
भ्राता भर्ता च दाता च शरणं च भवस्व नः ।
अदित्याः पुत्रतां याते त्वयि देवाः सवासवाः ।
देवशब्दं वहिष्यन्ति कश्यपस्यात्मजो भव ।। ९ ।।
वैशम्पायन उवाच
ततस्तानब्रवीद् विष्णुर्देवान् कश्यपमेव च ।
एवं भवतु भद्रं वो यथेष्टं काममाप्नुत ।। 3.69.१० ।।
सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः ।
मुहूर्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ।। ११ ।।
हत्वासुरगणान् सर्वान् ये चान्ये देवशत्रवः ।
करिष्ये देवताः सर्वा यज्ञभागाग्रभोजिनः ।। १२ ।।
हव्यादांश्च सुरान् सर्वान् कव्यादांश्च पितॄनपि ।
करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा ।। १३ ।।
यथागतेन मार्गेण निवर्तध्वं सुरोत्तमाः ।
देवमातुस्तथादित्याः कश्यपस्यामितात्मनः ।
यथामनीषितं कर्ता गच्छध्वं स्वं स्वमालयम् ।। १४ ।।
वैशम्पायन उवाच
एवमुक्ते तु वचने विष्णुना प्रभविष्णुना ।
देवाः प्रहृष्टमनसः पूजयन्ति स्म सर्वशः ।। १५ ।।
विश्वेदेवा महात्मानः कश्यपोऽदितिरेव च ।
साध्या मरुद्गणाश्चैव शक्रश्चैव महाबलः ।। १६।।
नमस्कृत्य सुरेशाय तस्मै देवाय रंहसे ।
प्रयाताः प्राग्दिशं दिव्यं विपुलं कश्यपाश्रमम् ।। १७ ।
गत्वा ते आश्रमं तत्र ब्रह्मर्षिगणसेवितम् ।
चेरुः स्वाध्यायनियता अदित्या गर्भमीप्सवः ।। १८ ।।
अदितिर्देवमाता च गर्भे दध्रेऽतितेजसम् ।
भूतात्मानं महात्मानं दिव्यं वर्षसहस्रकम् ।। १९ ।।
पूर्णे वर्षसहस्रे तु प्रसूता गर्भमुत्तमम् ।
सुराणां शरणं देवमसुराणां विनाशनम् ।। 3.69.२० ।।
गर्भस्थेन तु देवेन परित्राताः सुरास्तदा ।
आददानेन तेजांसि त्रैलोक्यस्य महात्मना ।। २१।।
तस्मिञ्जाते तु देवेशे त्रैलोक्यस्य सुखावहे ।
भयदे दैत्यसंघानां सुराणां नन्दिवर्धने ।। २२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे एकोनसप्ततितमोऽध्यायः ।। ६९ ।।