हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०८७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ०८६ हरिवंशपुराणम्
अध्यायः ८७
वेदव्यासः
अध्यायः ०८८ →
मन्दराचलं गतस्य अन्धकासुरस्य महादेवेन वधम्

सप्ताशीतितमोऽध्यायः

वैशम्पायन उवाच
अन्धको नारदवचः श्रुत्वा तत्त्वेन भारत ।
मन्दरं पर्वतं गन्तुं मनो दध्रे महासुरः ।। १ ।।
सोऽसुरान् सुमहातेजाः समानीय महाबलः ।
जगाम मन्दरं क्रुद्धो महादेवालयं तदा ।। २ ।।
तं महाभ्रप्रतिच्छन्नं महौषधिसमाकुलम् ।
नानासिद्धसमाकीर्णं महर्षिगणसेवितम् ।। ३ ।।
चन्दनागुरुवृक्षाढ्यं सरलद्रुमसंकुलम् ।
किन्नरोद्गीतरम्यं च बहुनागकुलाकुलम् ।। ४ ।।
वातोद्भूतैर्वनैः फुल्लैर्नृत्यन्तमिव च क्वचित् ।
प्रस्रुतैर्धातुभिश्चित्रैर्विलिप्तमिव च क्वचित् ।। ५ ।।
पक्षिस्वनैः सुमधुरैर्नदन्तमिव च क्वचित् ।
हंसैः शुचिपदैः कीर्णं सम्पतद्भिरितस्ततः ।। ६ ।।
महाबलैश्च महिषैश्चरद्भिर्दैत्यनाशनैः ।
चन्द्रांशुविमलैः सिंहैर्भूषितं हेमसंचयम् ।। ७ ।।
मृगराजसमाकीर्णं मृगवृन्दनिषेवितम् ।
स मन्दरं गिरिं प्राह रूपिणं बलदर्पितः । ८ ।।
वेत्सि त्वं हि यथावध्यो वरदानादहं पितुः ।
मम चैव वशे सर्वं त्रैलोक्यं सचराचरम् ।। ९ ।।
प्रतियोद्धुं न मां कश्चिदिच्छत्यपि गिरे भयात्।
पारिजातवनं चास्ति तव सानौ महागिरे ।
सर्वकामप्रदैः पुष्पैर्भूषितं रत्नमुत्तमम् ।। 2.87.१०।।
तदाचक्ष्वोपभोक्ष्यामि तद् वनं तव सानुजम् ।
किं करिष्यसि क्रुद्धस्त्वं मनो हि त्वरते मम ।। ११ ।।
त्रातारं नानुपश्यामि मया खल्वर्दितस्य ते ।
इत्युक्तो मन्दरस्तेन तत्रैवान्तरधीयत ।। १२ ।।
ततोऽन्धकोऽतिरुषितो वरदानेन दर्पितः ।
मुमोच नादं सुमहदिदं वचनमब्रवीत् ।।१३ ।।
मया वै त्वं याच्यमानो यस्मान्न बहु मन्यसे ।
अहं चूर्णीकरोमि त्वां बलं पर्वत पश्य मे ।। १४ ।
एवमुक्त्वा गिरेः शृङ्गमुत्पाट्य बहुयोजनम् ।
निष्पिपेष गिरेस्तस्य शृङ्गेष्वन्यत्र वीर्यवान् । १५ ।।
सह तैरसुरैः सर्वैर्वरदानेन दर्पितः ।
तं प्रच्छन्ननदीजालं मन्यमानं महागिरिम् ।। १६।।
विदित्वा भगवान् रुद्रश्चकारानुग्रहं गिरेः ।
सविशेषतरं वीर मत्तद्विपमृगायुतम् । १७ ।।
नदीजालैर्बहुतरैराचितं चित्रकाननम् ।
नभश्च्युतैः पुरा यद्वत्तद्वदेव विराजते ।। १८ ।।
अथ देवप्रभावेण शृङ्गाण्युत्पाटितानि तु ।
क्षिप्तानि चासुरानेव घ्नन्ति घोराणि भारत ।। १९ ।।
क्षिप्त्वा ये प्रपलायन्ते शृङ्गाणि तु महासुराः ।
शृङ्गैस्तैस्तैः स्म वध्यन्ति पर्वतस्य जनाधिप ।। 2.87.२० ।।
ये स्वस्थास्त्वसुरास्तत्र तिष्ठन्ति गिरिसानुषु ।
शृङ्गैस्ते न स्म वध्यन्ते मन्दरस्य महागिरेः ।। २१ ।।
ततोऽन्धकस्तदा दृष्ट्वा सेनां तां मर्दितां तथा ।
रुषितः सुमहानादं नर्दित्वैवं तदाब्रवीत् ।। २२ ।।
आह्वये तं वनं यस्य युद्धार्थमुपतिष्ठतु ।
किं त्वयाचल युद्धेन हताः स्म च्छद्मना रणे ।। २३ ।।
एवमुक्ते त्वन्धकेन वृषभेण महेश्वरः ।
सम्प्राप्तः शूलमुद्यम्य देवोऽन्धकजिघांसया ।। २४ ।।
प्रमथानां गणैर्धीमान् वृतो वै बहुलोचनः ।
तथा भूतगणैश्चैव धीमान् भूतगणेश्वरः ।। २५ ।।
प्रचकम्पे ततः कृत्स्नं त्रैलोक्यं रुषिते हरे ।
सिन्धवश्च प्रतिस्रोतमूहुः प्रज्वलितोदकाः ।। २६ ।।
जग्मुर्दिशोऽग्निदाहाश्च सर्वे ते हरतेजसा ।
युयुधुश्च ग्रहाः सर्वे विपरीता जनाधिप ।। २७ ।।
चेलुश्च गिरयस्तत्र काले कुरुकुलोद्वह ।
प्रववर्षाथ पर्जन्यः सधूमाङ्गारवृष्टयः ।। २८ ।।
उष्णभाश्चन्द्रमाश्चासीत् सूर्यः शीतप्रभस्तथा ।
न ब्रह्म विविदुस्तत्र मुनयो ब्रह्मवादिनः ।। २९ ।।
बडवाः सुषुवुर्गाश्च गावोऽश्वानपि चानघ ।
पेतुर्वृक्षाश्च मेदिन्यामच्छिन्ना भस्मसात्कृताः ।। 2.87.३० ।।
बाधन्ते वृषभा गाश्च गावश्चारुरुहुर्वृषान् ।
राक्षसा यातुधानाश्च पिशाचाश्चापि सर्वशः ।। ३१ ।।
विपरीतं जगद् दृष्ट्वा महादेवस्तथागतम्।
मुमोच भगवाञ्छूलं प्रदीप्ताग्निसमप्रभम् ।। ३२ ।।
तत् पपात हरोत्सृष्टमन्धकोरसि दुर्द्धरम्।
भस्मसाच्चाकरोद् रौद्रमन्धकं साधुकण्टकम् ।। ३३ ।।
ततो देवगणाः सर्वे मुनयश्च तपोधनाः ।
शंकरं तुष्टुवुश्चैव जगच्छत्रौ निबर्हिते ।। ३४ ।।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।
त्रैलोक्यं निर्वृतं चासीन्नरेन्द्र विगतज्वरम्।। ३५ ।।
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
जेपुश्च ब्राह्मणा वेदानीजुश्च क्रतुभिस्तदा ।। ३६ ।।
ग्रहाः प्रकृतिमापेदुरूहुर्नद्यो यथा पुरा ।
न जज्वाल जले वह्निराशाः सर्वाः प्रसेदिरे ।। ३७ ।।
मन्दरः पर्वतश्रेष्ठः पुनरेव रराज ह ।
श्रिया परमया जुष्टः सर्वतेजःसमुच्छ्रयात् ।। ३८ ।।
रेमे सोमश्च भगवान् पारिजातवने हरः ।
सुप्रचारान्सुरान्कृत्वा शक्रादीन् धर्मतः प्रभुः।। ३९।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अन्धकवधे सप्ताशीतितमोऽध्यायः ।। ८७ ।।