स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रीरुवाच ।। ।।
सीमाप्रतीची क्षेत्रस्य शंखाकारस्य मूर्द्धनि ।।
सर्वकामप्रदो देवः स आस्ते वृषभध्वजः ।। १ ।।
शंखाग्रे नीलकण्ठः स्यादेतत्क्रोशं सुदुर्लभम् ।।
परमं पावनं क्षेत्रं साक्षान्नारायणस्य वै ।। २ ।।
सिंधुराजस्य सलिलाद्यावन्मूलं वटस्य वै ।।
शंखस्योदरभागस्तु समुद्रोदकसंप्लुतः ।। ३ ।।
यत्संपर्कात्समुद्रोऽत्र तीर्थराजत्वमागतः ।।
यथायं भगवान्मुक्तिप्रदो दृष्टिपथं गतः ।। ४ ।।
तथेदं मरणात्क्षेत्रं सिंधुः स्नानाद्विमुक्तिदः ।।
चिच्छेद ब्रह्मणः पूर्वं रुद्रः क्रोधात्तु पञ्चमम् ।। ५ ।।
तच्छिरो दुस्त्यजं गृह्णन्ब्रह्मांडं परिबभ्रमे ।।
अत्रागतो यदा ब्रह्मकपालं परिमुक्तवान् ।। ६ ।।
कपालमोचनं लिंगं द्वितीयावर्तसंस्थितम् ।।
कपालमोचनं पश्येत्पूजयेत्प्रणमेच्च यः ।। ७ ।।
ब्रह्महत्यादिपापानां कंचुकं विजहात्यसौ ।।
तस्य दक्षिणपार्श्वे तु मरणं भवमोचनम् ।। ८ ।।
तृतीयावर्तगामाद्यां शक्तिं मे विमलाह्वयाम् ।।
जानीहि धर्मराज त्वं भुक्तिमुक्तिफलप्रदाम् ।। ९ ।।
य इमां पूजयेद्भक्त्या प्रणमेत्कीर्तयेत्तु वा ।।
सर्वान्कामानवाप्नोति मुक्तिं चांते च विंदति ।। 2.2.4.१० ।।
नाभिदेशे स्थितं ह्येतत्त्रयं कुंडं वटो विभुः ।।
कपालमोचनाद्यावदर्द्धाशिनी प्रतिष्ठिता ।। ११ ।।
मध्यं शंखस्य जानीयात्सुगुप्तं चक्रपाणिना ।।
अर्द्धमश्नाति सलिलं महाप्रलयवर्द्धितम् ।। १२ ।।
सृष्ट्यादौ धर्मराजेयं शक्तिर्मेऽर्द्धांशिनी स्मृता ।।
तां दृष्ट्वा प्रणमेद्यस्तु भोगान्सोऽश्नाति शाश्वतान् ।। १३ ।।
सिन्धुराजस्य सलिलाद्यावन्मूलं वटस्य वै ।।
कीटपक्षि मनुष्याणां मरणान्मुक्तिदो मतः ।।१४।।
अन्तर्वेदी त्वियं पुण्या वांछ्यते त्रिदशैरपि ।।
यत्र स्थितां हि पश्यंति सर्वांश्चक्राब्जधारिणः ।।१५।।
पृथिव्यां यानि तीर्थानि गगने च त्रिविष्टपे ।।
सार्द्धत्रिकोटिसंख्यानि स्वर्गमोक्षप्रदानि वै ।। १६ ।।
तेषामयं तीर्थराजः कीर्तितः पुरुषोत्तमः ।।
सर्वेषां मुक्तिक्षेत्राणामिदं सायुज्यदं मतम् ।। १७ ।।
अत्र स्थिता न शोचंति जराजन्ममृतिष्वपि ।।
कुण्डं ह्येतद्रोहिणाख्यं कारुण्याख्यजलेन वै ।। १८ ।।
संभृतं तिष्ठते नित्यं स्पर्शनाद्बंधमुक्तिदम् ।।
अत्र प्रतिष्ठितं वारि प्रलये यत्प्रवर्द्धते ।। १९ ।।
अत्रैव लीयते पश्चात्तस्माद्रोहिणसंज्ञितम् ।।
तस्मात्ते माऽत्र चिंतास्तु स्वाधिकारविपर्यये ।। 2.2.4.२० ।।
मोक्षाधिकारिणामत्र नेश्वरस्त्वं परेतराट् ।।
धर्मराजं समादिश्य लक्ष्मीरेवं पुरः स्थितम् ।। २१ ।।
ब्रह्माणमाह जगतामंबा सप्रश्रया गिरा ।।
पितामह जगन्नाथ विदितं सर्वमेव यत् ।। २२ ।।
मोक्षदं सर्वजंतूनामेतत्क्षेत्रं समादिश ।।
कामाख्यं क्षेत्रपालं च विमलं वा तपास्थिता ।। २३ ।।
साक्षाद्ब्रह्मस्वरूपोऽसौ नृसिंहो दक्षिणे विभोः ।।
हिरण्यकशिपोर्वक्षो विदार्यायं प्रभोज्ज्वलः ।। २४ ।।
दर्शनादस्य नश्यंति पातकानि न संशयः ।।
भुक्तेर्मुक्तेश्च योग्यः स्यान्नात्र कार्या विचारणा ।। २५ ।।
अस्याग्रे संत्यजन्प्राणान्ब्रह्मसायुज्यमाप्नुयात् ।।
यत्किंचित्कुरुते कर्म कोटिकोटिगुणं भवेत् ।। २६ ।।
छायैषा कल्पवृक्षस्य नृसिंहार्केण भासिता ।।
तस्यां नश्यत्यविद्या हि ज्ञानतोऽज्ञानतो मृतौ ।। २७ ।।
वेदांतेषु प्रसिद्धैस्तैर्विज्ञानैः श्रवणादिभिः ।।
मूढानां दुर्लभैर्विप्रा विनाप्यत्र विमोचनम् ।। २८ ।।
अविमुक्ते मुमुक्षोस्तु कर्णमूले महेश्वरः ।।
दिशति ब्रह्मसंज्ञानं बोधोपायं कृपानिधिः ।। २९ ।।
तेन बुद्या समभ्यस्य क्रमान्मोक्षमवाप्नुयात् ।।
उपदेष्टुर्महिम्ना हि तस्य ज्ञानं न हीयते ।। 2.2.4.३० ।।
अत्र त्यजंति ये प्राणांस्तेषां तत्क्षण एव हि ।।
स्वरूपाज्जायते मुक्तिः संशयो माऽस्तु ते यम ।। ३१ ।।
गतागत प्रसक्तानां कर्मिणां मूढचेतसाम् ।।
वैवस्वत कदाचिन्नो विश्वासो ह्यत्र जायते ।। ३२ ।।
उत्सृज्य वारि गांगेयं स्वादु शीतं सुनिर्मलम् ।।
पिपासुः पल्वलं याति तद्वत्ते मूढचेतसः ।। ३३ ।।
भ्रमंति तीर्थान्यन्यानि त्यक्त्वैतत्क्षेत्रमुत्तमम् ।।
पलाशामोदकैस्तृप्ता लभंते श्रमजं फलम् ।। ३४ ।।
स्नानादब्धिदृशा देवश्छायया कल्पपादपः ।।
यत्र कुत्रापि च क्षेत्रं मरणान्मुक्तिदं नृणाम् ।। ३५ ।।
यो यत्र विषये भक्त्या विश्वासं कुरुते नरः ।।
स तु तेनैव मुच्येत नेदृशं तीर्थमस्ति वै ।। ३६ ।।
एतत्त्यक्त्वान्यतीर्थे वै विदधाति रुचिं तु यः ।।
नूनं स मायया विष्णोर्वंचितो लोभलालसः ।। ।। ३७ ।।
उपदेशेन बहुना न प्रयोजनमस्ति ते ।।
प्रत्यक्षो ह्यनुभूतोऽयं करटो विष्णुरूपधृक् ।। ३८ ।।
अन्तर्वेदीरक्षणार्थं शक्तयोऽष्टौ प्रकीर्तिताः ।।
उग्रेण तपसा पूर्वमहं रुद्रेण भाविता ।। ३९ ।।
पत्न्यर्थं सा मया सृष्टा गौरी तस्याथ भाविनी ।।
सर्वसौंदर्यवसतिर्वपुषो मे विनिर्गता ।। 2.2.4.४० ।।
तदादिष्टा मया भद्रे वचनं मे प्रियं कुरु ।।
अन्तर्वेदी रक्ष मम परितस्त्वं स्वमूर्तिभिः ।। ४१ ।।
सा तु तिष्ठति मत्प्रीत्या अष्टधा दिक्षु संस्थिता ।।
मंगला वटमूले तु पश्चिमे विमला तथा ।। ४२ ।।
शंखस्य पृष्ठभागे तु संस्थिता सर्वमंगला ।।
अर्द्धांशिनी तथा लंबा कुबेरदिशि संस्थिता ।। ४३ ।।
कालरात्रिर्दक्षिणस्यां पूर्वस्यां तु मरीचिका ।।
कालरात्र्यास्तथा पश्चाच्चंडरूपा व्यवस्थिता ।। ४४ ।।
एताभिरुग्ररूपाभिः शक्तिभिः परिरक्षितम् ।।
अल्पपुण्यस्य पुंसो हि स्थानमेतत्सुदुर्लभम् ।। ४५ ।।
एतासामष्टशक्तीनां दर्शनात्कीर्तनात्तथा ।।
नश्यंति सर्वपापानि हयमेधफलं लभेत् ।। ४६ ।।
रुद्राण्याश्चाष्टधा भेदं दृष्ट्वा रुद्रोऽपि शंकरः ।।
आत्मानमष्टधा भित्त्वा उपास्ते परमेश्वरम् ।।४७।।
आराध्य तपसा विष्णुं प्रार्थयद्वरमुत्तमम् ।।
यत्र त्वं देव तत्राहं वसेयं हि यथासुखम् ।। ४८ ।।
त्वामृते कमलाकांत नान्यन्निर्वाणकारणम् ।।
अंतर्यामिन्प्रभो मे त्वं त्वां विना विग्रहः कुतः ।।४९।।
मूढा ये त्वां न जानंति हृष्यंति विषयेऽशुचौ ।।
निर्मलांबरसंकाश त्वामहं शरणं गतः।।2.2.4.५०।।
।। ।। जैमिनिरुवाच ।। ।।
भगवानपि रुद्रं तं क्षेत्रपालं तथा विभुः ।।
स्थापयामास परितः स्वयं मध्ये व्यवस्थितः ।। ५१ ।।
कपालमोचनं नाम क्षेत्रपालं यमेश्वरम् ।।
मार्कण्डेयं तथेशानं बिल्वेशं नीलकंठकम् ।। ५२ ।।
वटमूले वटेशं च लिंगान्यष्टौ महेशितुः ।।
यानि दृष्ट्वा तथा स्पृष्ट्वा पूजयित्वा विमुच्यते ।। ५३ ।।
अत्र क्षेत्रे मृता ये च न तेषां तु प्रभुर्यमः ।।
यदर्थमागतस्त्वं हि तदन्यत्र प्रसाधय ।। ५४ ।।
तथाप्यसौ जगन्नाथो भक्तायात्मसमर्पकः ।।
यमेन तोषितो भक्त्या प्रपन्नार्तिहरः प्रभुः ।। ५५ ।।
सुदर्शनेन चक्रेण मायां च व्यवधास्यति ।।
अत्याज्येऽस्मिन्क्षेत्रवरे स्वर्णवालुकया वृते ।। ५६ ।।
तं यमं वंचयित्वा तु प्रस्थापय्य यमालयम् ।।
साधु मत्वा ततः प्राह ब्रह्माणं पुरतः स्थितम् ।। ५७ ।। ।
। । श्रीरुवाच ।। ।।
इंद्रद्युम्नो नाम राजा युगे सत्ये भविष्यति ।।
वैष्णवः सर्वयज्ञानामाहर्त्ता शास्त्रकोविदः ।। ५८ ।।
अत्रागत्य महाभक्तिं करिष्यति नृपोत्तमः ।।
भगवत्प्रीतये येन वाजिमेधसहस्रकम् ।। ५९ ।।
करिष्यते प्रजानाथ तदनुग्रहकारणात् ।।
एकदारुसमुत्पन्नश्चतुर्द्धा संभविष्यति ।। ।।। 2.2.4.६० ।।
दारवप्रतिमानानि विश्वकर्मा घटिष्यति ।।
प्रतिष्ठापयिता त्वं हि इंद्रद्युम्नप्रसादितः ।। ६१ ।।
अस्माकं सदृशानां च प्रतिमानां पितामह ।।
तद्रूपका प्रतिष्ठा हि घटना च भविष्यति ।। ६२ ।।
इति श्रुत्वा श्रियो वाक्यं चतुर्वक्त्रो यमश्च सः ।।
स्वंस्वं पुरं जग्मतुस्तौ मुदा परमया युतौ ।। ६३ ।।
क्षेत्रस्य महिमानं तं संस्मृत्य च मुहुर्मुहुः ।।
विस्मयेन च हर्षेण रोमांचांचितविग्रहौ ।। ६४ ।।
सांप्रतं मुनयस्तस्मिन्निंद्रद्युम्नप्रसादितः ।।
शंखचक्रधरः श्रीमान्नीलजीमूतसंनिभः ।। ६५ ।।
नीलाचलगुहांतःस्थो बिभ्रद्दारुमयं वपुः ।।
आस्ते लोकोपकाराय बलेन च सुभद्रया ।।।। ६६ ।।
सुदर्शनेन चक्रेण दारुणा निर्मितेन च ।।
सहितः प्रणतार्तीनां नाशनः करुणार्णवः ।। ६७ ।।
यं दृष्ट्वा पापबंधेन सुदृढेन विमुच्यते ।। ।।
सुकर्मौघपरीपाको युगपत्समुपस्थितः ।। ६८ ।।
पश्यतां भो मुनिश्रेष्ठास्तापत्रयसुधानिधिम् ।।
बहवो ह्यवतारा हि विष्णोर्दिव्याश्च मानुषाः ।। ।। ६९ ।।
अत्यद्भुतानि कर्माणि माहात्म्यं चापि वर्णितम् ।।
पारिचित्यान्मनुष्यांस्तु न मन्यंते सुरा अपि ।। 2.2.4.७० ।।
देवासुरमनुष्याणां गंधर्वोरगरक्षसाम् ।।
तिरश्चामपि भो विप्रास्तस्मिन्दारुमये हरौ ।। ७१ ।।
सर्वात्मभूते वसति चित्तं सर्वसुखावहे ।।
उपजीवंत्यस्य सुखं यस्यानन्यस्वरूपिणः ।। ७२ ।।
ब्रह्मणः श्रुतिवागाहेत्येतदत्रानुभूयते ।।
द्यति संसारदुःखानि ददाति सुखमव्ययम् ।। ७३ ।।
तस्माद्दारुमयं ब्रह्म वेदांतेषु प्रगीयते ।।
न हि काष्ठमयी मोक्षं ददाति प्रतिमा क्वचित् ।। ७४ ।।
कृतेनाकृतता विप्राः कदाचिन्नोपलभ्यते ।।
अकृतो ह्यपवर्गस्तु कृताद्वा दारुणः कथम् ।। ७५ ।।
अधिष्ठानं विना ब्राह्म्यमैश्वर्यं नोपलभ्यते ।।
रहस्यमेतत्परमं विष्णोः स्थानमनुत्तमम् ।। ७६ ।।
अलौकिकी सा प्रतिमा लौकिकीति प्रकाशिता ।।
कुत्र श्रुता वा दृष्टा वा प्रतिमा व्याहरेदिति ।। ७७ ।।
इंद्रद्युम्नाय स वरं तदा दारुवपुर्ददौ ।।
दीनानाथैकशरणं तरणं भववारिधेः ।। ७८ ।।
चराचर सदावंद्य चरणं तं परायणम् ।।
नारायणं जगद्योनिं सृष्टिसंहृतिकारणम् ।। ७९ ।।
मोक्षणं सर्वपापानां दारणं सकलापदाम् ।।
विभूतीनां विसरणं वरणं सर्वयोगिनाम् ।। 2.2.4.८० ।।
भरणं सर्वजंतूनां धरणं जगतामपि ।।
भाषणं सर्वभाषाणां दूषणं सर्वदुष्कृताम् ।। ८१ ।।
शोषणं सर्वपंकानां नीलाद्रिशरणं हरिम् ।।
शरणं प्रयात मुनयो ह्यनन्यशरणं विभुम् ।। ८२ ।।
निश्चेष्टो दारुवर्ष्मापि दिव्यलीलाविलासकृत् ।।
क्षमते स्वल्पभक्त्यापि सोपराधशतं नृणाम् ।। ८३ ।।
अत्र वः कथयिष्यामि चरितं पापनाशनम् ।।
लीलया दारुदेहस्य मुनयः परमात्मनः ।। ८४ ।।
कुरुक्षेत्रे समुद्भूतौ ब्राह्मणक्षत्रियावुभौ ।।
सखायौ जग्मतुः प्रीत्या एकाहारविहारिणौ ।। ८५ ।।
वृत्तच्युतौ निषिद्धानामाहर्त्तारौ विमोहितौ ।।
अस्वाध्यायवषट्कारौ स्वधास्वाहाविवर्जितौ ।। ६६ ।।
अपात्रभूतौ धर्मस्य महापातकदूषितौ ।।
मधुभक्षौ पण्ययोषित्सहवासौ मुदान्वितौ ।। ८७ ।।
पारलौकिकचिंता तु तयोः स्वप्नेपि नागता ।।
एवं प्रवर्तमानौ तावायुषोऽर्द्धं च निन्यतुः ।। ८८ ।।
एकदा भ्रममाणौ तौ यज्ञवाटमगच्छताम् ।।
शृण्वन्तो दूरतः स्तोत्रं शास्त्रशब्दं मनोहरम् ।। ८९ ।।
दृष्ट्वा तास्ताः क्रियाः सर्वाः श्रुतिसंचोदिता द्विजाः ।।
तौ तदा चक्रतुः श्रद्धां धर्मे वर्त्मन्यधार्मिकौ ।। 2.2.4.९० ।।
संस्मरंतौ स्वजातिं तौ पुंडरीकांबरीषकौ ।।
निंदन्तौ दुश्चरित्रं स्वं परस्परमभाषताम् ।। ९१ ।।।
कथमावां तरिष्यावो दुष्कृतार्णवमुल्बणम् ।।
इहैव जन्मन्यजरं बुद्धिपूर्वमुपार्ज्जितम् ।। ९२ ।।
न तच्छास्त्रं हि जानाति यदावाभ्यां च दुष्कृतम् ।।।
सञ्चितं तस्य घोरस्य प्रायश्चित्तं सुदुर्ल्लभम् ।। ९३ ।।
तथापि ब्राह्मणानेतान्ब्रह्मिष्ठान्वै सदोगतान् ।।
प्रणिपातप्रपन्नान्वै पृच्छावोऽत्र च निष्कृतिम् ।। ।। ९४ ।।
इति निश्चित्य तौ विप्रानभिवाद्याभ्यपृच्छताम् ।।
यथावत्कल्मषं स्वंस्वं विज्ञाप्य च मुहुर्मुहुः ।। ९५ ।।
ते तयोर्वचनं श्रुत्वा मीलिताक्षा द्विजोत्तमाः।।
नाब्रुवन्किंस्विदन्योन्यं वीक्षंतो विस्मिताननाः ।। ९६ ।।
अहो सुघोरकर्माणि संचितानि दुरात्मनोः ।।
येषु शास्त्रं पदं दातुं प्रायश्चित्ताय न ह्यलम् ।। ९७ ।।
शक्नुमो न वयं तस्मादनयोर्निष्कृताविति ।।
तेषां मध्ये सदोमुख्यः कश्चिद्वैष्णवपुंगवः ।। ९८ ।।
भगवद्भक्तिमाहात्म्य क्षपिताशेषकल्मषः ।।
तानुवाच विहस्येदं वाक्यं वाक्यविदां वरः ।। ९९ ।।
।। वैष्णव उवाच ।। ।।
भो द्विज क्षत्रदायाद पापराशेः सुदारुणात् ।।
मुक्तिं चेद्वांच्छतस्तूर्णं गच्छतं पुरुषोत्तमम् ।। 2.2.4.१०० ।।
क्षेत्रोत्तमं दारुमयो यत्रास्ते पुरुषोत्तमः ।।
इन्द्रद्युम्नस्य राजर्षेर्भक्त्यानुग्रहकृद्विभुः ।। १०१ ।।
तमाराध्य जगन्नाथं शंखचक्रगदाधरम् ।।
पापक्षयं वा मुक्तिं वा स्वेच्छया प्राप्स्यथ धुवम् ।। १०२ ।।
घोरदुष्कृततूलौघ दावाग्निसदृशस्तु सः ।।
तपसे तत्क्षयं नेतुं न शक्यं जन्मकोटिभिः ।। १०३ ।।
युगपत्संक्षयं याति यं दृष्ट्वा सर्वकिल्बिषम् ।।
तन्मा विलंबं कुरुतं प्रयातं तत्र सत्वरं ।। १०४ ।।
सुपुण्ये चोत्कले देशे दक्षिणार्णवतीरगे ।।
नीलाद्रिशिखरावासं व्रजतं शरणं विभुम् ।। १०५ ।।
सोऽभीष्टसिद्धिं वां देवः प्रदास्यति कृपानिधिः ।।
इत्यादिष्टौ ततो विप्रक्षत्रियौ हर्षसंयुतौ ।। १०६ ।।
तेनैव वर्त्मना विप्राः प्रयातौ पुरुषोत्तमे ।। १०७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुर्थोऽध्यायः ।। ४ ।।