स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ४७

विकिस्रोतः तः
Jump to navigation Jump to search

।। ऋषय ऊचुः ।। ।।
राक्षसस्य वधात्सूत रावणस्य महामुने ।।
ब्रह्महत्या कथमभूद्राघवस्य महात्मनः ।। ।। १ ।।
ब्राह्मणस्य वधात्सूत ब्रह्महत्याभिजायते ।।
न ब्राह्मणो दशग्रीवः कथं तद्वद नो मुने ।। २ ।।
ब्रह्महत्या भवेत्क्रूरा रामचंद्रस्य धीमतः ।।
एतन्नः श्रद्दधानानां वद कारुण्यतोऽधुना ।। ३ ।।
इति पृष्टस्ततः सूतो नैमिषारण्यवासिभिः ।।
वक्तुं प्रचक्रमे तेषां प्रश्नस्योत्तरमुत्तमम्।। ४ ।। ।। ।
। श्रीसूत उवाच ।। ।।
ब्रह्मपुत्रो महातेजाः पुलस्त्योनाम वै द्विजाः ।।
बभूव तस्य पुत्रोऽभूद्विश्रवा इति विश्रुतः ।। ५ ।।
तस्य पुत्रः पुलस्त्य स्य विश्रवा मुनिपुंगवाः ।।
चिरकालं तपस्तेपे देवैरपि सुदुष्करम् ।। ६ ।।
तपः कुर्वति तस्मिंस्तु सुमाली नाम राक्षसः ।।
पाताललोकाद्भूलोकं सर्वं वै विचचार ह ।। ७ ।।
हेमनिष्कांगदधरः कालमेघनिभच्छविः ।।
समादाय सुतां कन्यां पद्महीनामिव श्रियम् ।। ८ ।।
विचरन्स महीपृष्ठे कदाचित्पुष्पकस्थितम् ।।
दृष्ट्वा विश्रवसः पुत्रं कुबेरं वै धनेश्वरम् ।। ९ ।।
चिंतयामास विप्रेंद्राः सुमाली स तु राक्षसः ।।
कुबेरसदृशः पुत्रो यद्यस्माकं भविष्यति ।। 3.1.47.१० ।।
वयं वर्द्धामहे सर्वे राक्षसा ह्यकुतोभयाः ।।
विचार्यैवं निजसुतामब्रवीद्राक्षसेश्वरः ।। ११ ।।
सुते प्रदानकालोऽद्य तव कैकसि शोभने ।।
अद्य ते यौवनं प्राप्तं तद्देया त्वं वराय हि ।। १२ ।।
अप्रदानेन पुत्रीणां पितरो दुःखमाप्नुयुः ।।
किं च सर्वगुणोत्कृष्टा लक्ष्मीरिव सुते शुभे ।। १३ ।।
प्रत्याख्यानभयात्पुंभिर्न च त्वं प्रार्थ्यसे शुभे ।।
कन्यापितृत्वं दुःखाय सर्वेषां मानकांक्षिणाम् ।।१४ ।।
न जानेऽहं वरः को वा वरयेदिति कन्यके ।।
सा त्वं पुलस्त्यतनयं मुनिं विश्रवसं द्विजम् ।। १५ ।।
पितामहकुलोद्भूतं वरयस्व स्वयंगता ।।
कुबेरतुल्यास्तनया भवेयुस्ते न संशयः ।। १६ ।।
कैकसी तद्वचः श्रुत्वा सा कन्या पितृगौरवात् ।।
अंगीचकार तद्वाक्यं तथास्त्विति शुचिस्मिता ।। १७ ।।
पर्णशालां मुनिश्रेष्ठा गत्वा विश्रवसो मुनेः ।।
अतिष्ठदंतिके तस्य लज्जमाना ह्यधोमुखी ।। १८ ।।
तस्मिन्नवसरे विप्राः पुलस्त्यतनयः सुधीः ।।
अग्निहोत्रमुपास्ते स्म ज्वलत्पावकसन्निभः ।। १९ ।।
संध्याकालमतिक्रूरमविचिंत्य तु कैकसी ।।
अभ्येत्य तं मुनिं सुभ्रूः पितुर्वचनगौरवात् ।। 3.1.47.२० ।।
तस्थावधोमुखी भूमिं लिखत्यंगुष्ठकोटिना ।।
विश्रवास्तां विलोक्याथ कैकसीं तनुमध्यमाम् ।।
उवाच सस्मितो विप्राः पूर्णचंद्रनिभाननाम् ।। २१ ।। ।।
।। विश्रवा उवाच ।। ।।
शोभने कस्य पुत्री त्वं कुतो वा त्वमिहागता ।।२२।।
कार्यं किं वा त्वमुद्दिश्य वर्तसेऽत्र शुचिस्मिते ।।
यथार्थतो वदस्वाद्य मम सर्वमनिंदिते ।। २३ ।।
इतीरिता कैकसी सा कन्या बद्धांजलिर्द्विजाः ।।
उवाच तं मुनिं प्रह्वा विनयेन समन्विता ।। २४ ।।
तपः प्रभावेन मुने मदभिप्रायमद्य तु ।।
वेत्तुमर्हसि सम्यक्त्वं पुलस्त्यकुलदीपन ।।२५।।
अहं तु कैकसी नाम सुमालिदुहिता मुने ।।
मत्तातस्याज्ञया ब्रह्मंस्तवांतिकमुपागता ।।२६।।
शेष त्वं ज्ञानदृष्ट्याद्य ज्ञातुमर्हस्यसंशयः।।
क्षणं ध्यात्वा मुनिः प्राह विश्रवाः स तु कैकसीम् ।।२७।।
मया ते विदितं सुभ्रूर्मनोगतमभीप्सितम्।।
पुत्राभिलाषिणी सा त्वं मामगाः सांप्रतं शुभे ।।२८।।
सायंकालेऽधुना क्रूरे यस्मान्मां त्वमुपागता ।।
पुत्राभिलाषिणी भूत्वा तस्मात्त्वां प्रब्रवीम्यहम्।।२९।।
शृणुष्वावहिता रामे कैकसी त्वमनिंदिते ।।
दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्।।3.1.47.३० ।।
जनयिष्यसि पुत्रांस्त्वं राक्षसान्क्रूरकर्मणः ।।
श्रुत्वा तद्वचनं सा तु कैकसी प्रणिपत्य तम् ।। ३१ ।।
पुलस्त्यतनयं प्राह कृतांजलिपुटा द्विजाः ।।
भगवदीदृशाः पुत्रास्त्वत्तः प्राप्तुं न युज्यते ।। ३२ ।।
इत्युक्तः स मुनिः प्राह कैकसीं तां सुमध्यमाम् ।।
मद्वंशानुगुणः पुत्रः पश्चिमस्ते भविष्यति ।। ३३ ।।
धार्मिकः शास्त्रविच्छांतो न तु राक्षसचेष्टितः ।।
इत्युक्ता कैकसी विप्राः काले कतिपये गते ।। ३४ ।।
सुषुवे तनयं क्रूरं रक्षोरूपं भयंकरम् ।।
द्विपंचशीर्षं कुमतिं विंशद्बाहुं भयानकम्।। ३५ ।।
ताम्रोष्ठं कृष्णवदनं रक्तश्मश्रु शिरोरुहम् ।।
महादंष्ट्रं महाकायं लोकत्रासकरं सदा ।। ३६ ।।
दशग्रीवाभिधः सोऽभूत्तथा रावण नामवान्।।
रावणानंतरं जातः कुम्भकर्णाभिधः सुतः ।। ३७ ।।
ततः शूर्पणखा नाम्ना क्रूरा जज्ञे च राक्षसी ।।
ततो बभूव कैकस्या विभीषण इति श्रुतः ।। ३८ ।।
पश्चिमस्तनयो धीमान्धार्मिको वेदशास्त्रवित् ।।
एते विश्रवसः पुत्रा दशग्रीवादयो द्विजाः ।। ३९ ।।
अतो दशग्रीववधात्कुम्भकर्णवधादपि ।।
ब्रह्महत्या समभवद्रामस्याक्लिष्टकर्मणः ।। 3.1.47.४० ।।
अतस्तच्छांतये रामो लिंगं रामेश्वराभिधम् ।।
स्थापयामास विधिना वैदिकेन द्विजोत्तमाः ।। ४१ ।।
एवं रावणघातेन ब्रह्महत्यासमुद्भवः ।।
समभूद्रामचंद्रस्य लोककांतस्य धीमतः ।। ४२ ।।
तत्सहैतुकमाख्यातं भवतां ब्रह्मघातजम्।।
पापं यच्छांतये रामो लिंगं प्रातिष्ठिपत्स्वयम् ।। ४३ ।।
एवं लिंगं प्रतिष्ठाप्य रामचन्द्रोऽतिधार्मिकः ।।
मेने कृतार्थमात्मानं ससीता वरजो द्विजाः ।। ४४ ।।
ब्रह्महत्या गता यत्र रामचंद्रस्य भूपतेः ।।
तत्र तीर्थमभूत्किंचिद्ब्रह्महत्याविमोचनम् ।। ४५ ।।
तत्र स्नानं महापुण्यं ब्रह्महत्याविनाशनम् ।।
दृश्यते रावणोऽद्यापि छायारूपेण तत्र वै ।। ४६ ।।
तदग्रे नागलोकस्य बिलमस्ति महत्तरम् ।।
दशग्रीववधोत्पन्नां ब्रह्महत्यां बलीयसीम् ।। ४७ ।।
तद्बिलं प्रापयामास जानकीरमणो द्विजाः ।।
तस्योपरि बिलस्याथ कृत्वा मण्डपमुत्तमम् ।। ४८ ।।
भैरवं स्थापयामास रक्षार्थं तत्र राघवः ।।
भैरवाज्ञापरित्रस्ता ब्रह्महत्या भयंकरी ।। ४९ ।।
नाशक्नोत्तद्बिलादूर्ध्वं निर्गंतुं द्विजसत्तमाः ।।
तस्मिन्नेव बिले तस्थौ ब्रह्महत्या निरुद्यमा ।। 3.1.47.५० ।।
रामनाथमहालिंगं दक्षिणे गिरिजा मुदा ।।
वर्तते परमानंदशिवस्यार्धशरीरिणी ।। ५१ ।।
आदित्यसोमौ वर्तेते पार्श्वयोस्तत्र शूलिनः ।।
देवस्य पुरतो वह्नी रामनाथस्य वर्तते ।। ५२ ।।
आस्ते शतक्रतुः प्राच्यामाग्नेयां च तथाऽनलः ।।
आस्ते यमो दक्षिणस्यां रामनाथस्य सेवकः ।। ५३ ।।
नैर्ऋते निर्ऋतिर्विप्रा वर्तते शंकरस्य तु ।।
वारुण्यां वरुणो भक्त्या सेवते राघवेश्वरम् ।। ५४ ।।
वायव्ये तु दिशो भागे वायुरास्ते शिवस्य तु ।।
उत्तरस्यां च धनदो रामनाथस्य वर्तते ।। ५५ ।।
ईशान्येऽस्य च दिग्भागे महेशो वर्तते द्विजाः ।।
विनायक कुमारौ च महादेवसुतावुभौ ।। ५६ ।।
यथाप्रदेशं वर्तेते रामनाथालयेऽधुना ।।
वीरभद्रादयः सर्वे महेश्वरगणेश्वराः ।। ५७ ।।
यथाप्रदेशं वर्तंते रामनाथालये सदा ।।
मुनयः पन्नगाः सिद्धा गन्धर्वाप्सरसां गणाः ।। ५८ ।।
संतुष्यमाणहृदया यथेष्टं शिवसन्निधौ ।।
वर्तंते रामनाथस्य सेवार्थं भक्तिपूर्वकम् ।। ५९ ।।
रामनाथस्य पूजार्थं श्रोत्रियान्ब्राह्मणान्बहून् ।।
रामेश्वरे रघुपतिः स्थापयामास पूजकान् ।। 3.1.47.६० ।।
रामप्रतिष्ठितान्विप्रान्हव्यकव्यादिनार्चयेत् ।।
तुष्टास्ते तोषिताः सर्वा पितृभिः सहदेवताः ।। ६१ ।।
तेभ्यो बहुधनान्ग्रामान्प्रददौ जानकीपतिः ।।
रामनाथमहादेव नैवेद्यार्थमपि द्विजाः ।। ६२ ।।
बहून्ग्रामान्बहुधनं प्रददौ लक्ष्मणाग्रजः ।।
हारकेयूरकटकनिष्काद्याभरणानि च ।। ६३ ।।
अनेकपट्ट वस्त्राणि क्षौमाणि विविधानि च ।।
रामनाथाय देवाय ददौ दशरथात्मजः ।। ६४ ।।
गंगा च यमुना पुण्या सरयूश्च सरस्वती ।।
सेतौ रामेश्वरं देवं भजंते स्वाघशांतये ।। ६५ ।।
एतदध्यायपठनाच्छ्रवणादपि मानवः ।।
विमुक्तः सर्वपापेभ्यः सायुज्यं लभते हरेः ।। ६६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामस्य ब्रह्महत्योत्पत्तिहेतुनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः ।। ४७ ।। ।। ।।