स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः २७

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रीसूत उवाच ।। ।।
यमुनायां च गंगायां गयायां च नरो मुदा ।।
स्नानं विधाय विधिवत्कोटितीर्थं ततो व्रजेत् ।। १ ।।
कोटितीर्थं महापुण्यं सर्वलोकेषु विश्रुतम् ।।
सर्वसंपत्करं शुद्धं सर्वपापप्रणाशनम् ।। २ ।।
दुःस्वप्ननाशनं ह्येतन्महापातकनाशनम् ।।
महाविघ्नप्रशमनं महाशांतिकरं नृणाम् ।। ३ ।।
स्मृतिमात्रेण यत्पुंसां सर्वपापनिषूदनम् ।।
लीलया धनुषः कोट्या स्वयं रामेण निर्मितम् ।। ४ ।।
पुरा दाशरथी रामो निहत्य युधि रावणम् ।।
ब्रह्महत्याविमोक्षाय गंधमादनपर्वते ।। ५ ।।
प्रातिष्ठिपल्लिंगमेकं लोकानुग्रहकाम्यया ।।
लिंगस्यास्याभिषेकाय शुद्धं वारि गवेषयन् ।। ६ ।।
नाविंदत जलं तत्र पार्श्वे दशरथात्मजः ।।
लिंगाभिषेकयोग्यं च जलं किमिति चिंतयन् ।। ७ ।।
नवेन वारिणा लिंगं स्नापनीयं मयेति सः ।।
निश्चित्य मनसा तत्र धनुष्कोट्या रघूद्वहः ।। ८ ।।
बिभेद धरणीं शीघ्रं मनसा जाह्नवीं स्मरन् ।।
रामकार्मुककोटिः सा तदा प्राप रसातलम् ।। ९ ।।
तत उद्धारयामास तद्धनुर्धन्विनां वरः ।।
धनुष्युद्ध्रियमाणे तु राघवेण महीतलात् ।। 3.1.27.१० ।।
काकुत्स्थेन स्मृता गंगा निर्ययौ विवरात्ततः ।।
वारिणा तेन तल्लिंगमभ्यषिंचद्रघूद्वहः ।। ११ ।।
रामकार्मु ककोट्यैव यतस्तन्निर्मितं पुरा ।।
अतः कोटिरिति ख्यातं तत्तीर्थं भुवनत्रये ।। १२ ।।
यानि यानीह तीर्थानि संति वै गंधमादने ।।
प्रथमं तेषु तीर्थेषु स्नात्वा विगतकल्मषः ।। १३ ।।
शेषपापविमोक्षाय स्नायात्कोटौ नरस्ततः ।।
तीर्थांतरेषु स्नानेन यः पापौघो न नश्यति ।। १४ ।।
अनेकजन्मकोटीभिरर्जितो ह्यस्थिसंस्थितः ।।
विनश्यति स सर्वोऽपि कोटिस्नानान्न संशयः ।। १५ ।।
यदि हि प्रथमं स्नायादत्र कोटौ नरो द्विजाः ।।
तस्य मुक्तस्य तीर्थानि व्यर्थान्येवापराणि हि ।। १६ ।।
।। ऋषय ऊचुः ।। ।।
सूत सर्वार्थतत्त्वज्ञ व्यासशिष्य मुनीश्वर ।।
अस्माकं संशयं कंचिच्छिंधि पौराणिकोत्तम ।। १७ ।।
कोटौ स्नातस्य मर्त्यस्य यदि तीर्थांतरं वृथा ।।
किमर्थं धर्मतीर्थादि तीर्थेषु स्नांति मानवाः ।।१८।।
तीर्थानि तानि सर्वाणि समतिक्रम्य मानवाः।।
अत्रैव कोटौ किं स्नानं न कुर्वंति हि तद्वद ।। १९ ।।
।। श्रीसूत उवाच ।। ।।
अहो रहस्यं युष्माभिः पृष्टमेतन्मुनीश्वराः ।।
नारदाय पुरा शंभुः पृच्छते यत्किलाब्रवीत् ।। 3.1.27.२० ।।
तद्ब्रवीमि मुनिश्रेष्ठाः शृणुध्वं श्रद्धया सह ।।
गच्छन्यदृच्छया वापि तीर्थयात्रापरोऽपि वा ।। २१ ।।
मार्गमध्ये द्विजश्रेष्ठास्तीर्थं देवालयं तथा ।।
दृष्ट्वा श्रुत्वापि वा मोहान्न सेवेत नराधमः ।। २२ ।।
निष्कृतिस्तस्य नास्तीति प्राब्रुवन्परमर्षयः ।।
सेतुं गच्छंस्ततोऽन्येषु न स्नायाद्यदि मानवः ।। २३ ।।
तीर्थातिक्रमदोषैः स बहिष्कार्योऽत्यवद्द्विजैः ।।
अतः स्नातव्यमेवैषु चक्रतीर्थादिषु द्विजाः ।। २४ ।।
स्नात्वा चैतेषु तीर्थेषु शेषपापविमुक्तये ।।
प्रयतैर्मनुजैरत्र स्नातव्यं कोटितीर्थके ।। २५ ।।
कोटौ चाभि षवं कृत्वा न तिष्ठेद्गन्धमादने ।।
निवर्तेत्तत्क्षणादेव निष्पापो गंधमादनात् ।। २६ ।।
रामोऽपि हि पुरा कोटितीर्थसंभूतवारिणा ।।
रामनाथेऽभिषिक्ते तु स्वयं स्नात्वा च तत्र वै ।। २७ ।।
ब्रह्महत्याविमुक्तः संस्तत्क्षणादेव सानुजः ।।
आरूढपुष्पकोऽयोध्यां प्रययौ कपिभिर्वृतः ।। २८ ।।
अतः कोटौ नरः स्नात्वा पापशेषविमोचितः ।।
निवर्तेत्तत्क्षणादेव रामो दाशरथिर्यथा ।। २९ ।।
एतद्धि तीर्थप्रवरं सर्वलोकेषु विश्रुतम् ।।
रामनाथाभिषेकाय निर्मितं राघवेण यत् ।। 3.1.27.३० ।।
स्वयं भगवती यत्र सन्निधत्ते च जाह्नवी ।।
तारकब्रह्मणा यत्र रामेण स्नातमादरात् ।। ३१ ।।
तस्य वै कोटितीर्थस्य महिमा केन कथ्यताम् ।।
यत्र स्नात्वा पुरा कृष्णो लोकसंग्रहणेच्छया ।। ३२ ।।
मातुलस्य तु कंसस्य वधदोषाद्विमोचितः ।।
तस्य वै कोटितीर्थस्य महिमा केन कथ्यते ।। ३३ ।।
।। ऋषय ऊचुः ।। ।।
किमर्थमवधीत्कंसं मातुलं यदुनंदनः ।।
यद्दोषशांतये सूत सस्नौ कोटौ महा मनाः ।। ३४ ।।
।। श्रीसूत उवाच ।। ।।
वसुदेव इति ख्यातः शूरपुत्रो यदोः कुले ।।
आसीत्स देवकसुतां देवकीमिति विश्रुताम् ।। ३५ ।।
उद्वाह्य रथमारूढः स्वपुरं प्रस्थितः पुरा ।।
अथ सूतो बभूवाथ कंसो ह्यानकदुन्दुभेः ।। ३६ ।।
अशरीरा तदा वाणी कंसं सारथिमब्रवीत् ।।
भगिनीं च तथा भामं वाहयंतं रथोत्तमे ।। ३७ ।।
यामिमां वाहयस्यत्र रथेन त्वमरिंदम ।।
अस्यास्त्वामष्टमो गर्भो वधिष्यति न संशयः ।। ३८ ।।
इत्याकर्ण्य वचो दिव्यं कंसः खङ्गं प्रगृह्य च ।।
स्वसारं हंतुमुद्योगं चकार द्विजपुंगवाः ।। ३९ ।।
ततः प्रोवाच तं कंसं वसुदेवः स सांत्वयन् ।। ।।
।। वसुदेव उवाच ।। ।।
अस्यां प्रसूतान्दास्यामि तुभ्यं कंस सुतानहम् ।। 3.1.27.४० ।।
एनां स्वसारं मा हिंसीर्नास्यास्ते भीतिरस्ति हि ।।
श्रुत्वा तद्वचनं कंसो निवृत्तस्तद्वधात्तदा ।। ४१ ।।
देवकीवसुदेवाभ्यां सहितः स्वपुरं ययौ ।।
पादावसक्तनिगडौ देवकीवसुदेवकौ ।। ४२ ।।
स्थापयामास दुष्टात्मा कंसः कारागृहे तदा ।।
ततः कालेन महता वसुदेवाद्धि देवकी ।। ४३ ।।
षट्पुत्राञ्जनयामास क्रमेण मुनिपुंगवाः ।।
जातांस्तान्वसुदेवेन दत्तान्कंसोऽपि सोऽवधीत् ।। ४४ ।।
हतेषु षटसु पुत्रेषु देवक्युदरजन्मसु ।।
कंसेन क्रूरमतिना निष्कृपेण द्विजोत्तमाः ।। ४५ ।।
शेषोऽभूत्सप्तमो गर्भो देवक्या जठरे तदा ।।
मायादेवी ततो गर्भं तं वै विष्णुप्रचोदिता ।। ४६ ।।
नंदगोपगृहस्थायां रोहिण्यां समवेशयत् ।।
देवक्याः सप्तमो गर्भः पतितो जठरादिति ।। ४७ ।।
लोके प्रसिद्धिरभवन्महती विष्णुलीलया ।।
देवकीजठरे पश्चाद्विष्णुर्गर्भत्वमाप्तवान् ।। ४८ ।।
ततो दशसु मासेषु गतेषु हरिरव्ययः ।।
देवकीजठराज्जज्ञे कृष्ण इत्यभिविश्रुतः ।। ४९ ।।
शंखचक्रगदाखङ्गविराजितचतुर्भुजः ।।
किरीटी वनमाली च पित्रोः शोकविनाशनः ।। 3.1.27.५० ।।
तं दृष्ट्वा हरिमीशानं तुष्टावानकदुंदुभिः ।। ५१ ।।
।। वसुदेव उवाच ।। ।।
विश्वं भवा न्विश्वपतिस्त्वमेव विश्वस्य योनिस्त्वयि विश्वमास्ते ।।
महान्प्रधानश्च विराट स्वराड् च सम्राडसि त्वं भगवन्समस्तम् ।। ५२ ।।
एवं जगत्कारणभूतधाम्ने नारायणायामितविक्रमाय ।।
श्रीशार्ङ्गचक्रासिगदाधराय नमोनमः कृत्रिममानुषाय ।। ५३ ।।
स्तुवन्तमेवं शौरिं तं वसुदेवं हरिस्तदा ।।
अवोचत्प्रीणयंस्तं च देवकीं च द्विजोत्तमाः ।। ५४ ।।
।। हरिरुवाच ।। ।।
अहं कंसं वधिष्यामि मा भीर्वां पितराविति ।।
नन्दगोपस्य गृहिणी यशोदाऽजनयत्सुताम् ।।
मम मायां पूर्वदिने सर्वलोकविमोहिनीम् ।। ५५ ।।
मां तस्याः शयने न्यस्य यशोदायाः सुता तु ताम्।।
आदाय देवकीशय्यां प्रापयस्व यदूत्तम ।। ५६ ।।
एवमुक्तः स कृष्णेन तथैव ह्यकरोद्द्विजाः ।।
रुरोद माया तनया देवकीशयनेस्थिता ।। ५७ ।।
अथ बालध्वनिं श्रुत्वा कंसः संकुलमानसः ।।
सूतिकागृहमागम्य तामादाय च दारिकाम्।।५८।।
शिलायां पोथयामास निर्दयो निरपत्रपः ।।
अथ तद्धस्तमाच्छिद्य सायुधाष्टमहाभुजा ।।
महादेव्यब्रवीत्कंसं समाहूयातिकोपना ।। ५९ ।।
।। मायोवाच ।। ।।
अरे रे कंस पापात्मन्दुर्बुद्धे मूढचेतन ।। 3.1.27.६० ।।
यत्र कुत्रापि शत्रुस्ते वर्तते प्राणहारकः ।।
मार्गयस्वात्मनो मृत्युं तं शत्रुं कंस मा चिरम् ।। ६१ ।।
इतीरयित्वा सा देवी दिव्यस्थानान्यवाप्य च ।।
लब्धपूजा मनुष्येभ्यो बभूवाभीष्टदायिनी ।। ६२ ।।
श्रुत्वा स देवीवचनं कंसो ऽपि भृशमाकुलः ।।
बालग्रहान्पूतनादीन्स्वांतकं बाधितुं रिपुम् ।। ६३ ।।
प्रेषयामास देशेषु शिशूनन्यांश्च बाधितुम्।।
ते च बालग्रहाः सर्वे प्रययु र्नंदगोकुलम् ।। ६४ ।।
हताश्च कृष्णेन तदा प्रययुर्यमसादनम् ।।
ततः कतिपयाहस्सु गतेषु द्विजपुंगवाः ।। ६५ ।।
रामकृष्णौ व्यवर्द्धेतां गोकुले बालकौ तदा ।।
अनेकबालक्रीडाभिश्चिक्रीडतुररिंदमौ ।। ६६ ।।
कंचित्कालं वत्सपालौ वेणुनादमकुर्वताम् ।।
कंचित्कालं च गोपालौ गुंजातापि च्छभूषितौ ।। ६७ ।।
रेमाते बहुकालं तौ गोकुले रामकेशवौ ।।
कंसः कदाचिदक्रूरं गोकुले रामकेशवौ ।। ६८ ।।
प्रेषयामास विप्रेंद्राः समानयितुमं जसा ।।
आनयामास चाक्रूरो रामकृष्णौ स गोकुलात् ।। ६९ ।।
मथुरां कंसनिर्देशात्स्वर्णतोरणराजिताम् ।।3.1.27.७०।।
ततः समानीय स रामकेशवौ ययौ पुरीं गांदिनिजस्तदग्रे ।।
दृष्ट्वा च कंसं विनिवेद्य कार्यं तस्मै स्वगेहं प्रविवेश पश्चात् ।।७१।।
अथापराह्णे वसुदेवपुत्रावन्येद्युरिष्टैः सह गोपपुत्रैः ।।
उपेयतुः सालनिखातयुक्तां संगोपुराट्टां मधुरापुरीं तौ ।। ७२ ।।
स्तोत्राणि शृण्वन्पुरयौवतानां कृष्णस्तु रामेण सहैव गत्वा ।।
धनुर्निवेशं सह सैव तत्र ददर्श चापं च महदृढज्यम् ।। ७३ ।।
विद्राव्य सर्वानपि चापपालान्धनुः समादाय स लीलयाऽऽशु ।।
मौर्व्यां नियोक्तुं नमयांचकार तदं तरे भग्नमभूद्विधैव ।। ७४ ।।
कोदंडभंगोत्थितशब्दमाशु श्रुत्वाभियातान्बलिनो निहंतुम् ।।
निजघ्नतुस्तौ प्रतिगृह्य खंडौ चापस्य पालान्बलिनौ द्विजेंद्रा ।। ७५ ।।
ततः कुवलयापीडं गजं द्वारि स्थितं क्षणात् ।।
निहत्य रामकृष्णौ तौ महाबलपराक्रमौ ।। ७६ ।।
तस्य दंतौ समुत्पाट्य दधानौ करयोर्द्वयोः ।।
अंसे निधाय तौ दंतौ रंगं प्रययतुः क्षणात् ।। ७७ ।।
निहत्य मल्लं चाणूरं मुष्टिकं तोशलं तथा ।।
अन्यांश्च मल्लप्रवरान्निन्यतुर्यमसा दनम् ।।७८।।
समारुरुहतुस्तूर्णं तुंगं मंचं च तौ तदा ।।
तत्र तुंगे समासीनमासने कंसमेत्य तौ ।।
तस्थतुस्तं तृणीकृत्य सिंहौ क्षुद्रमृगं यथा ।।७९।।
ततः कंसं समाकृष्य कृष्णो मंचोपरि स्थितम् ।।
पादौ गृहीत्वा वेगेन भ्रामयामास चांबरे ।। 3.1.27.८० ।।
ततस्तं पोथयामास स भूमौ गत जीवितम् ।।
कंसभ्रातॄन्बलोऽप्यष्टौ निजघ्ने मुष्टिना द्विजाः ।। ८१ ।।
एवं निहत्य तं कंसं कृष्णः परबलार्दनः ।।
पितरौ मोचयामास निगडादति दुःखितौ ।। ८२ ।।
सर्वानास्थापयामास बलेन सह माधवः ।।
श्रीकृष्णेन हतं कंसं श्रुत्वा प्रापुः पुरीं तदा ।। ८३ ।।
बांधवा मथुरायां ये पूर्वं कंसे न बाधिताः ।।
उग्रसेनं तथा राज्ये स्थापयामास केशवः ।। ८४ ।।
असहिष्णुर्द्विजाः पित्रोरेवं कंसकृतागसम् ।।
जघान मातुलं कंसं देवब्राह्मणकंट कम् ।। ८५ ।।
ततः कदाचिकृष्णोऽयमात्मानं द्रष्टुमागतान् ।।
नारदादीन्मुनीन्सर्वानिदं पप्रच्छ सत्तमः ।। ८६ ।।
।। श्रीकृष्ण उवाच ।। ।।
मयाऽयं मातुलो विप्रा हतः कंसोऽतिपापकृत् ।।
मातुलस्य वधे दोषः प्रोच्यते शास्त्रवित्तमैः।। ८७ ।।
प्रायश्चित्तमतो ब्रूत तद्दोषविनिवृत्तये ।।
अवोचन्नारदस्तत्र कृष्णमद्भुतविक्रमम् ।।
वाचा मधुरया विप्रा भक्तिप्रणयपूर्वकम् ।। ८८ ।।
।। नारद उवाच ।। ।।
नित्यशुद्धश्च मुक्तश्च भद्रश्चैव भवा न्सदा ।। ८९ ।।
सच्चिदानंदरूपश्च परमात्मा सनातनः ।।
पुण्यं पापं च ते नास्ति कृष्ण यादवनंदन ।। 3.1.27.९० ।।
तथापि लोकशिक्षार्थं भवता गरु डध्वज ।।
प्रायश्चित्तं तु कर्तव्यं विधिनानेन माधव ।। ९१ ।।
लोकसंग्रहणं तावत्कर्तव्यं भवताधुना ।।
रामसेतौ महापुण्ये गंधमादनपर्वते ।। ९२ ।।
रामेण स्थापितं लिंगं रामनाथाभिधं पुरा ।।
तस्याभिषेकतोयार्थं धनुष्कोट्या रघूद्वहः ।। ९३ ।।
गां भित्त्वोत्पादयामास तीर्थं कोटीति विश्रुतम् ।।
तव पूर्वावतारेण रामेणाक्लिष्टकर्मणा ।। ९४ ।।
ब्रह्महत्याविशुद्ध्यर्थं निर्मितं स्वयमेव यत् ।।
तत्र स्नानं कुरुष्व त्वं धर्म्ये पापविनाशने ।। ९५ ।।
तेन ते मातुलवधाद्दोषः शीघ्रं विनंक्ष्यति ।।
कोटितीर्थे हरेः स्नानं ब्रह्महत्यादिशोधकम् ।। ९६ ।।
स्वर्गमोक्षप्रदं पुंसामायुरारोग्यवर्धनम् ।।
इति श्रुत्वा मुनेर्वाक्यं नारदस्य स माधवः ।। ९७ ।।
विसृज्य तानृषीन्सर्वांस्तस्मिन्नेव क्षणे द्विजाः ।।
रामसेतौ ययौ तूर्णं स्वदोषपरि शुद्धये ।। ९८ ।।
दिनैः कतिपयैर्गत्वा कोटितीर्थं यदूद्वहः ।।
स्नात्वा संकल्पपूर्वं च दत्त्वा दानान्यनेकशः ।। ९९ ।।
स मातुलवधोत्पन्नदोषेभ्यो मुमु चे क्षणात् ।।
निषेव्य रामनाथं च स्वपुरं मथुरां ययौ ।। 3.1.27.१०० ।।
।। श्रीसूत उवाच ।। ।।
एवं प्रभावं पुण्यं च कोटितीर्थं मुनीश्वराः ।।
ब्रह्महत्यादिभिः पापैः सद्यो मुच्येत मानवः ।।
नानेन सदृशं तीर्थमन्यदस्ति महीतले ।। १ ।।
अत्र स्नानात्त्रयो देवा ब्रह्मविष्णुशिवा द्विजाः ।।
प्रीताः स्युरन्ये देवाश्च नात्र कार्या विचारणा ।। २ ।।
एवं वः कथितं चित्रं कोटितीर्थस्य वैभवम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ।। ३ ।।
श्रुत्वेमं पुण्यमध्यायं पठित्वा च मुनीश्वराः ।।
ब्रह्महत्यादिभिः सत्यं मुच्यते पातकैर्नरः ।। १०४ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कोटितीर्थप्रशंसायां कृष्णस्य मातुलवधदोषशांतिवर्णनंनाम सप्तविंशोऽध्यायः ।। २७ ।।