स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः २३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। श्रीसूत उवाच ।। ।।
अग्नितीर्थाभिधे तीर्थे सर्वपातकनाशने ।।
स्नानं कृत्वा विशुद्धात्मा चक्रतीर्थं ततो व्रजेत् ।। १ ।।
यंयं कामं समुद्दिश्य चक्रतीर्थे द्विजोत्तमाः ।।
स्नानं समाचरेन्मर्त्यस्तंतं कामं समश्नुते ।। २ ।।
पुराहिर्बुध्न्यनामा तु महर्षिः संशित व्रतः ।।
सुदर्शनमुपास्तास्मिंस्तपस्वी गंधमादने ।। ३ ।।
तपस्यंतं मुनिं तत्र राक्षसा घोररूपिणः ।।
अबाधंत सदा विप्रास्तपोविघ्नैकतत्पराः ।। ।। ४ ।।
सुदर्शनं तदागत्य भक्तरक्षणवांछया ।।
यातुधानान्बाधमानान्न्यवधीर्लीलया पुरा ।। ५ ।।
तदाप्रभृति तच्चक्रं भक्तप्रार्थनया द्विजाः ।।
अहिर्बुध्न्यकृते तीर्थे सन्निधानं सदाऽकरोत् ।। ६ ।।
तदाप्रभृति तत्तीर्थं चक्रतीर्थमितीर्यते ।।
सुदर्शनप्रसादेन तत्र तीर्थे निमज्जनात् ।। ७ ।।
रक्षःपिशाचा दिकृता पीडा नास्त्येव कर्हिचित् ।।
स्नात्वास्मिन्पावने तीर्थे छिन्नपाणिः पुरा रविः ।।
स हिरण्यमयौ पाणी लब्धवांस्तीर्थवैभवात् ।। ८ ।। ।।
।। ऋषय ऊचुः ।। ।।
छिन्नपाणिः कथमभूदादित्यः सूतनंदन ।।
यथा च लब्धवान्पाणी सौवर्णौ तद्वदस्व नः ।। ९ ।।
।। श्रीसूत उवाच ।।
इंद्रादयः सुराः पूर्वं संततं दैत्यपीडिताः ।। 3.1.23.१० ।।
किं कुर्म इति संचित्य संभूय सममंत्रयन् ।।
बृहस्पतिं पुरस्कृत्य मंत्रयित्वा चिरं सुराः ।। ११ ।।
तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ।।
ते ब्रह्माणं समासाद्य दृष्ट्वा स्तुत्वा च भक्तितः ।। १२ ।।
ततो व्यजिज्ञपस्तस्मै स्वेषामागमकारणम् ।। ।।
।। सुरा ऊचुः ।। ।।
भगवन्भारतीनाथ दैत्या ह्यस्मान्बलोत्कटाः ।। १३ ।।
बाधंते सततं देव तत्र ब्रूहि प्रतिक्रियाम् ।।
इत्युक्तः स सुरैर्ब्रह्मा तानाह कृपया वचः ।। १४ ।।
।। ब्रह्मोवाच ।। ।।
मा भैष्ट यूयं विबुधास्तत्रोपायं ब्रवीम्यहम् ।।
माहेश्वरं महायज्ञमसुराणां विनाशनम् ।। ।। १५ ।।
प्रारभध्वं सुरा यूयं मुनिभिस्तत्त्वदर्शिभिः ।।
अयं च दैवतैः सर्वैर्विधिलोभं विना कृतः ।। १६ ।।
माहेश्वरो महायज्ञः क्रियतां गंधमादने ।।
यदि ह्यन्यत्र तं यज्ञं कुर्युस्तद्विबुधर्षभाः ।। १७ ।।
यज्ञविघ्नं तदा कुर्युर्दुरात्मानः सुरद्विषः ।।
क्रियते यद्ययं यज्ञो गंधमादनपर्वते ।। १८ ।।
सुदर्शनप्रसादेन नैव विघ्नो भवेत्तदा ।।
अहिर्बुध्न्याभिधानस्य महर्षेर्गंधमादने ।। १९ ।।
अनुग्रहाय तत्तीर्थे सन्निधत्ते सुदर्शनम् ।।
अतः कुरुध्वं भो यूयं तं यज्ञं गंधमादने ।। 3.1.23.२० ।।
नातिदूरे चक्रतीर्थादसुराणां विनाशकम् ।।
ततस्ते ब्रह्मवचसा सहसा गंधमादनम्।। २१ ।।
बृहस्पतिं पुरस्कृत्य जग्मुर्यज्ञचिकीर्षया।।
ते प्रणम्य महात्मानमहिर्बुध्न्यं मुनीश्वरम् ।।२२।।
अकल्पयन्यज्ञवाटन्नातिदूरे तदाश्रमात् ।।
यज्ञकर्मसु निष्णातैः सहितास्ते तपोधनैः ।। २३ ।।
इष्टिमारेभिरे देवा असुराणां विनाशिनीम् ।।
तस्मिन्कर्मणि होतासीत्स्वयमेव बृहस्पतिः ।। २४ ।।
बभूव मैत्रावरुणो जयंतः पाकशासनिः ।।
अच्छावाको बभूवात्र वसूनामष्टमो वसुः ।। २५ ।।
ग्रावस्तुदभवत्तत्र शक्तिपुत्रः पराशरः ।।
अष्टावक्रो महातेजा अध्वर्युधुरमूढवान्।। ।। २६ ।।
तत्र प्रतिप्रस्थाताभूद्विश्वामित्रो महामुनिः ।।
नेष्टा बभूव वरुण उन्नेता च धनेश्वरः ।। २७ ।।
ब्रह्मा बभूव सविता यज्ञस्यार्धधुरं वहन् ।।
बभूव ब्राह्मणाच्छंसी वसिष्ठो ब्रह्मणोत्तमः ।। २८ ।।
आग्नीध्रोऽभूच्छुनःशेपः पोता जातश्च पावकः ।।
उद्गाता वायुरभवत्प्रस्तोता च परेतराट् ।। ।। २९ ।।
प्रतिहर्ता तु तत्रासीदगस्त्यः कुंभसंभवः ।।
सुब्रह्मण्यो मधुच्छंदा विश्वामित्रात्मजो महान्।। 3.1.23.३० ।।
यजमानः स्वयमभूद्देवराजः पुरंदरः।।
उपद्रष्टा बभूवात्र व्यासपुत्रः शुको मुनिः ।। ३१ ।।
ततस्ते ऋत्विजः सर्वे देवराजं पुरंदरम् ।।
विधिवद्दीक्षयांचक्रुस्तत्र माहेश्वरे क्रतौ ।।३२।।
प्रावर्तत महायज्ञ एवं वै गंधमादने ।।
सुदर्शनप्रभावेन दुःसहेनातिपीडिताः ।। ३३ ।।
नाविंदन्नसुरास्तत्र रंध्रं यज्ञे प्रवर्तिते ।।
एवन्निरंतरायोऽसौ प्रावर्तत महा क्रतुः ।। ३४ ।।
भक्षयंश्च हरिस्तत्र जज्वाल हुतवाहनः ।।
विधिवत्कर्मजालानि कृत्वाध्वर्युरसंभ्रमात् ।। ३५ ।।
मंत्रपूतं पुरोडाशं जुहवामास पावके ।।
हुतशेषं पुरोडाशं विभज्याध्वर्युरादरात् ।। ३६ ।।
ऋत्विग्भ्यो होतृमुख्येभ्यः प्रददौ पापनाशनम् ।।
सवित्रे ब्रह्मणे चैकमत्युग्रतरतेजसम् ।। ।। ३७ ।।
ददौ तत्र पुरोडाशभागं प्राशित्रनामकम् ।।
प्रतिजग्राह पाणिभ्यां प्राशित्रं सविता तदा ।। ३८ ।।
सवित्रा स्पृष्टमात्रं सत्तत्प्राशित्रं दुरासदम् ।।
तस्य पाणी प्रचिच्छेद पश्यतां सर्वऋत्विजाम् ।। ३९ ।।
ततः संछिन्नपाणिः स प्राशित्रेणोग्रतेजसा ।।
किमेतदिति संत्रस्तो विषण्णवदनोऽभवत् ।। 3.1.23.४० ।।
सविता ऋत्विजः सर्वान्समाहूयेदमब्रवीत् ।।
सवितोवाच ।।
पुरोडाशस्य भागोऽयं मम प्राशित्रनामकः ।। ४१ ।।
दत्तश्चिच्छेद मत्पाणी मिषत्स्वेव भवत्स्वपि ।।
अतो भवंतः संभूय सर्व एव हि ऋत्विजः ।। ४२ ।।
कल्पयंतामिमौ पाणी नोचेद्यज्ञं निहन्म्यमुम् ।।
सवितुर्वाक्यमाकर्ण्य ते सर्वे समचिंतयन् ।। ४३ ।।
तत्र मध्ये मुनींद्राणां देवानां चैव सर्वशः ।।
अष्टावक्रो महातेजा ऋत्विजस्तानभाषत ।। ४४ ।।
।। अष्टावक्र उवाच ।। ।।
शृणुध्वमृत्विजः सर्वे मम वाक्यं समाहिताः ।।
मयि जीवति विप्रेंद्रा विरिंचानां शतं गतम् ।। ४५ ।।
जायंते च म्रियंते च चतुराननकोटयः ।।
पश्यन्नेव च तान्सर्वानहं प्राणानधारयम् ।। ४६ ।।
तत्र लोकेश्वराभिख्ये वर्तमाने प्रजापतौ ।।
विप्रो हरिहरोनाम निवसञ्छयामलापुरे ।। ४७ ।।
व्याधेनारण्यवासेन केल्यर्थं लक्ष्यवेधिना ।।
छिन्नपादोऽभवद्बाणैर्लक्ष्य मध्यं समागतः ।। ४८ ।।
स गंधमादनं प्राप्य मुनिभिः प्रेरितस्तदा ।।
स्नात्वा च मुनितीर्थेऽस्मिन्प्राप्तवांश्चरणौ पुरा ।। ४९ ।।
तदा पुण्यमिदं तीर्थं मुनितीर्थमितीरितम् ।।
इदानीं चक्रतीर्थाख्यं चक्रनाम त्वविंदत ।। 3.1.23.५० ।।
तदत्र क्रियतां स्नानं प्राशित्रच्छिन्नपाणिना ।।
मुनितीर्थे सवित्रापि युष्माकं यदि रोचते ।। ५१ ।।
ऋत्विजः कथितास्त्वेवमष्टावक्रमहर्षिणा ।।
सवितारमभाषंत सर्व एव प्रहर्षिताः ।। ५२ ।।
सवितः स्नाहि तीर्थेऽ स्मिंस्तव पाणी भविष्यतः ।।
अष्टावक्रो यथा प्राह तथा कुरु समाहितः ।। ५३ ।।
ततः स सविता गत्वा चक्रतीर्थं महत्तरम् ।।
सस्नौ पाण्योरवाप्त्यर्थमिष्टदायिनि तत्र सः ।। ५४ ।।
उत्तिष्ठन्नेव स तदा तत्र स्नात्वा सभक्तिकम् ।।
युक्तो हिरण्मयाभ्यां तु पाणिभ्यां समदृश्यत ।। ५५ ।।
हिरण्यपाणिं तं दृष्ट्वा जहृषुः सर्वऋत्विजः ।।
ततः समाप्य तं यज्ञं दैत्यसंघान्विजित्य च ।। ५६ ।।
इंद्रादयः सुराः सर्वे सुखिताः स्वर्गमाययुः ।।
तस्मादेतत्समागत्य तीर्थं सर्वैश्च मानवैः ।। ५७ ।।
सेवनीयं प्रयत्नेन स्वस्वाभीष्टस्य सिद्धये ।।
अंधैश्च कुणिभिर्मूकैर्बधिरैः कुब्जकैरपि ।। ५८ ।।।
खंजैः पंगुभिरप्येतदंगहीनैस्तथापरैः ।।
संछिन्नपाणिचरणैः संछिन्नान्यांगसंचयैः ।। ५९ ।।
मनुष्यैश्च तथान्यैश्च विकलांगस्य पूर्तये ।।
सेवनीयमिदं तीर्थं सर्वाभीष्टप्रदायकम् ।। 3.1.23.६० ।।
एवं वः कथितं विप्राश्चक्रतीर्थस्य वैभवम् ।।
यत्र स्नात्वा पुरा छिन्नौ पाणी प्राप प्रभाकरः ।। ६१ ।।
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ।।
अंगानि विकलान्यस्य पूर्णानि स्युर्न संशयः ।। ६२ ।।
मोक्षकामस्य मर्त्यस्य मुक्तिः स्यान्नात्र संशयः ।। ६३ ।।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायामादित्यहिरण्मयपाण्यवाप्तिवर्णनंनाम त्रयोविंशोऽध्यायः ।। २३ ।। ।। छ ।।